Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.4.1

एवमुक्त्वा ययौ व्यासो धृतराष्ट्रय धीमते ।
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ॥ ६.४.१ ॥

毗耶娑如此说完,便离开了智慧的持国王。持国听后,也陷入了沉思。

6.4.2

स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः ।
संजयं संशितात्मानमपृच्छद्रतर्षभ ॥ ६.४.२ ॥

他仿佛沉思片刻,屡屡叹息,问那心思敏锐的桑闍耶道:“车手中的至尊啊……”

6.4.3

संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः ।
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह ॥ ६.४.३ ॥

桑闍耶啊,这些喜好战斗的勇猛国王,在此以各种兵器彼此相击。

6.4.4

पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् ।
न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम् ॥ ६.४.४ ॥

为了土地,国王们舍弃生命仍不停地击杀,反而增添了阎摩的国度。

6.4.5

भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् ।
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय ॥ ६.४.५ ॥

他们渴望大地的统治权,因而彼此不能容忍。我想大地有许多优点,桑闍耶啊,请告诉我。

6.4.6

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले ॥ ६.४.६ ॥

世间英雄的众多千、百千、亿、千万,都聚集在库鲁阇阑伽罗。

6.4.7

देशानां च परीमाणं नगराणां च संजय ।
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ॥ ६.४.७ ॥

桑闍耶啊,我想如实听闻诸国与城市的广袤,这些人从何处聚集而来。

6.4.8

दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा ।
प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥ ६.४.८ ॥

你具备神圣智慧的明灯和知识之眼,这皆由那位光辉无量的婆罗门仙人毗耶娑的威力而来。

6.4.9

यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् ।
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥ ६.४.९ ॥

大智者啊,我将依自己的理解为你讲述大地的诸般特性;请以经典之眼观察。婆罗多族之雄,向你致敬。

6.4.10

द्विविधानीह भूतानि चराणि स्थावराणि च ।
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥ ६.४.१० ॥

此间众生有两类:动者与不动者;而动者的生源有三种:卵生、湿生与胎生。

6.4.11

त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः ।
जरायुजानां प्रवरा मानवाः पशवश्च ये ॥ ६.४.११ ॥

大王啊,在一切动者之中,胎生者确为最上;而在胎生者之中,最为殊胜的是人与那些走兽。

6.4.12

नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश ।
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥ ६.४.१२ ॥

大王啊,化为种种形相者,其类别有十四种,已载于吠陀;大地之主啊,祭祀在其中得以确立。

6.4.13

ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् ।
सर्वेषामेव भूतानामन्योन्येनोपजीवनम् ॥ ६.४.१३ ॥

在村落居住的生灵中,人最为殊胜;在森林居住的生灵中,狮子最为殊胜。一切众生都依靠彼此而生存。

6.4.14

उद्भिञ्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः ।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ ६.४.१४ ॥

从地里生出的植物被称为不动生物,它们只有五类:树木、灌木、藤蔓、攀援植物、以树皮为本质者,以及草类。

6.4.15

तेषां विंशतिरेकोना महाभूतेषु पञ्चसु ।
चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमता ॥ ६.४.१५ ॥

其中十九者居于五大元素之中;二十四者被宣说为伽耶特里,为世间所公认。

6.4.16

य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् ।
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति ॥ ६.४.१६ ॥

若有人真正知晓这圆满一切功德的神圣伽耶特里,婆罗多族中最优秀的人啊,他在世间不会毁灭。

6.4.17

अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ।
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ॥ ६.४.१७ ॥

森林居住者有七类,其中村落居住者也有七类:狮子、老虎、野猪、水牛,以及象。

6.4.18

ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ।
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ॥ ६.४.१८ ॥

熊与猴也在其中——如是,被记载的森林居住者有七类,大王。牛、山羊、绵羊、人、马、骡与驴。

6.4.19

एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ।
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ॥ ६.४.१९ ॥

智者所说的这七种家畜。国王啊,这些确实是家畜与野兽共十四种动物。

6.4.20

भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति ।
भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम् ॥ ६.४.२० ॥

万物生于大地,万物也终于大地。大地是众生的根基,大地本身便是永恒的。

6.4.21

यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् ।
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥ ६.४.२१ ॥

谁拥有大地,谁便拥有整个世界,包括不动与能动之物。为此,极度贪婪的国王们相互残杀。