摩诃婆罗多 · 章 6.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.42.1
संन्यासत्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिपूदन ॥ ६.४२.१ ॥
大臂者啊,我想知道舍弃(出家)的真谛,以及弃绝的真谛,希瑞希克舍啊;请分别讲明,杀死凯希的人啊。
6.42.2
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ ६.४२.२ ॥
智者称舍弃有欲之业为弃世(出家);明智者称舍弃一切业果为舍离。
6.42.3
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ ६.४२.३ ॥
有些智者说,行为有过患,应当舍弃;另一些人说,祭祀、布施与苦行之业不应舍弃。
6.42.4
निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ ६.४२.४ ॥
婆罗多中最优秀的人啊,请听我对此舍离的确定结论。人中猛虎啊,舍离被宣说为三种。
6.42.5
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ६.४२.५ ॥
祭祀、布施与苦行之业不应舍弃,而必须去做;因为祭祀、布施与苦行正是智者的净化之道。
6.42.6
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ ६.४२.६ ॥
阿周那啊,这些业也应当舍弃执著与果报而去做,这是我确定的最上见解。
6.42.7
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ६.४२.७ ॥
然而,放弃规定的职责是不恰当的;出于迷惑而舍弃它,被称为黑暗之性。
6.42.8
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ६.४२.८ ॥
若因以为此行动痛苦、畏惧身体的苦恼而舍弃它,此人行的是激情之舍弃,不能获得舍弃的果报。
6.42.9
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्विको मतः ॥ ६.४२.९ ॥
阿周那啊,若以“此事应当做”为念,舍弃执着与果报而行所规定之业,这种舍弃被认为是善性之舍弃。
6.42.10
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ ६.४२.१० ॥
不厌恶不善之业,也不执着于善业,充满善性、有智慧、疑惑已断的人,才是舍弃者。
6.42.11
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ६.४२.११ ॥
有身者确实不可能完全舍弃诸业;但舍弃业果的人,才被称为舍弃者。
6.42.12
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनीं प्रेत्य न तु संन्यासिनां क्वचित् ॥ ६.४२.१२ ॥
业果有三种:不善的、善的与混合的。不舍弃者死后承受它,而舍弃者则永不承受。
6.42.13
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणां ॥ ६.४२.१३ ॥
大臂者啊,请从我这里领会这五种因缘,它们是《数论》与《终结》所说的、成就一切业的原因。
6.42.14
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्केष्टा दैवं चैवात्र पञ्चमम् ॥ ६.४२.१४ ॥
所依之处、行为者、种种不同的工具、多样各别的努力,以及这里的第五者——天命。
6.42.15
शरीरवाङ्भनोभिर्यत्कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ ६.४२.१५ ॥
人以身、语、意所发起的任何行为,无论合理与否,这五者皆是其因。
6.42.16
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ ६.४२.१६ ॥
既然如此,若只见自己为作者,因智慧未成熟,那愚昧之人便看不见真相。
6.42.17
यस्य नाहंकृतो भवो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ ६.४२.१७ ॥
其心念不由我慢而生,其智不被染污者,即使杀害这些世界,也不杀,也不被缚。
6.42.18
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ ६.४२.१८ ॥
知识、所知与能知者,业之驱动为三种;工具、行为与作者,业之总集亦为三种。
6.42.19
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ ६.४२.१९ ॥
知、业与作者,也依德性之别而被宣说为三种。在论述德性的部分,请如实听我讲述它们。
6.42.20
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकं ॥ ६.४२.२० ॥
若人借此于一切众生中见到唯一不灭之实相,于分别者中见不分别者——应知此知识为悦性(萨埵)的。
6.42.21
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ ६.४२.२१ ॥
若知识于一切众生中将种种不同的状态各自分别视之——应知此知识为激性(罗阇)的。
6.42.22
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तासममुदाहृतम् ॥ ६.४२.२२ ॥
若知识全然执着于某一件事,好像那就是全部,无因无由,不知真实之义,且甚微小——这被宣说为暗性(答摩)的。
6.42.23
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्विकमुच्यते ॥ ६.४२.२३ ॥
依规而行、离执、无贪无瞋、不求果报者所作之业,被称为悦性的。
6.42.24
यत्तु कामेप्सुना कर्म ताहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ ६.४२.२४ ॥
为求欲乐、或出于我慢,极费辛劳而作之业,被宣说为激性的。
6.42.25
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ ६.४२.२५ ॥
出于迷惑、不顾后果、损失与伤害而开始的行为,称为暗性(tāmasa)。
6.42.26
मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते ॥ ६.४२.२६ ॥
无执着、不自负、具坚定与热忱、成败之间不动摇的行为者,称为善性(sāttvika)。
6.42.27
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ ६.४२.२७ ॥
有欲望、贪求行为之果、贪婪、天性好暴、不净、为喜悲所牵引的行为者,被称为激性(rājasa)。
6.42.28
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ ६.४२.२८ ॥
无节制、粗俗、固执、狡诈、欺骗、懒惰、沮丧且拖延的行为者,称为暗性(tāmasa)。
6.42.29
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श्रृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ ६.४२.२९ ॥
财富征服者啊,请听我按德性(guṇa)所说的智慧与坚定的三种区分,我将完整而分别地宣说。
6.42.30
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्विकी ॥ ६.४२.३० ॥
能知晓趣入与退出、应做与不应做、畏惧与无畏、束缚与解脱的智慧,帝利陀之子啊,这样的智慧便是善性的。
6.42.31
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ६.४२.३१ ॥
凡以此智不能正确分辨法与非法、应作与不应作,此智,阿周那,属于激情(罗阇)。
6.42.32
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ ६.४२.३२ ॥
被黑暗(惰性)所覆盖,以非法为法,并颠倒看待一切事物的智慧,阿周那,此智属于黑暗(答摩)。
6.42.33
धृत्या यया धारयते मनःप्रणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्विकी ॥ ६.४२.३३ ॥
以不偏离之瑜伽之坚定,持守心、息与诸根之作用,阿周那,此坚定属于善性(萨埵)。
6.42.34
यया तु धर्मकामार्धान्धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ ६.४२.३४ ॥
然而,因执著而渴望果报,以坚定持守法、欲与利,阿周那,此坚定属于激情(罗阇)。
6.42.35
यथा स्वप्नं भयं शोकं विषादं भदेमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ ६.४२.३५ ॥
愚钝之人由之而不舍弃睡眠、恐惧、忧愁、沮丧与昏醉,阿周那,此坚定属于黑暗(答摩)。
6.42.36
सुखं त्विदानीं त्रिविधं श्रुणु मे भारतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ६.४२.३६ ॥
现在,婆罗多之雄,请听我说三种乐:凭修习而喜乐,并达至苦之终结者。
6.42.37
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ ६.४२.३७ ॥
那种起初如毒、最终如甘露的快乐,被称为善性(sāttvika),它生于自我智慧的清明。
6.42.38
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपभम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ६.४२.३८ ॥
那种由感官与其对象接触而生、起初如甘露、最终如毒的快乐,被认为是激情(rājasa)的。
6.42.39
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्ताभसमुदाहृतम् ॥ ६.४२.३९ ॥
那种无论起初还是其后都迷惑自我、生于睡眠、懒惰与放逸的快乐,被称为黑暗(tāmasa)的。
6.42.40
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेमिः स्यात्रिभिर्गुणैः ॥ ६.४२.४० ॥
无论在大地、天界,还是诸神之中,都没有哪一个存在能够脱离这由自然所生的三种性质。
6.42.41
ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ६.४२.४१ ॥
征服敌人者啊,婆罗门、刹帝利、吠舍和首陀罗的职责,是依照各自本性所生的性质而分配的。
6.42.42
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ ६.४२.४२ ॥
平静、克制、苦行、清净、忍耐、正直、智慧、辨识以及对经典的信仰——这些是婆罗门的职责,生于其本性。
6.42.43
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ६.४२.४३ ॥
勇武、光彩、坚定、技艺、战场不退、布施与君主之风——这些是刹帝利由其本性所生的职责。
6.42.44
कृषिगोरक्ष्यरभावश्च क्षात्रं कर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ६.४२.४४ ॥
耕作、牧养牛群以及吠舍的职业,是由本性所生的职责;服务之事也是首陀罗由本性所生的职责。
6.42.45
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरत्तः सिद्धिं यथा विन्दति तच्छृणु ॥ ६.४२.४५ ॥
人若专心于各自的职责,便能获得圆满。请听:安于自身职责的人如何获得那圆满。
6.42.46
यतः प्रवृत्तिर्भूतानां योन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवःक ॥ ६.४२.४६ ॥
众生的活动由他而生,这一切都由他遍布。人以自己的职责崇拜他,便获得圆满。
6.42.47
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् ॥ ६.४२.४७ ॥
自己的职责,即使做得不尽完美,也胜过他人职责做得很好。依本性所定而行事的人,不会招致罪过。
6.42.48
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ६.४२.४८ ॥
贡蒂之子啊,即使有缺陷,也不应舍弃与生俱来的职责;因为一切事业都被某种过失所笼罩,如同火被烟雾所笼罩。
6.42.49
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ ६.४२.४९ ॥
心智无所执著、自我已被征服、无欲无求的人,通过弃绝而获得无行为的至高成就。
6.42.50
सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नेति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ६.४२.५० ॥
孔提之子啊,请从我这里简要听取:成就者如何达到梵,这便是智慧的至高根基。
6.42.51
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ६.४२.५१ ॥
以清净的智慧自持,以坚定制伏自我,舍弃以声音为首的诸境,去除爱憎,
6.42.52
विविक्तसेवी लध्वाशी यतकाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ६.४२.५२ ॥
居于幽静,少食,言语、身体、心意皆受约束,常专注于禅定瑜伽,并恒常依托离欲,
6.42.53
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ६.४२.५३ ॥
舍弃我慢、力量、骄傲、欲望、愤怒与占有,离于“我所”而寂静,便堪为梵性。
6.42.54
ब्रह्मभूतः प्रसन्नात्मा न शोचतिक न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्तभक्तिं लभते पराम् ॥ ६.४२.५४ ॥
成为梵者,心地澄明,不忧不求;对一切众生平等,便获得对我的至高虔敬。
6.42.55
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ ६.४२.५५ ॥
他以虔信真正认识我,我有多大,我实际是什么;然后,真正认识了我,他随即便进入我之中。
6.42.56
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ६.४२.५६ ॥
即使始终行持一切行为,依托于我,凭借我的恩典,他便达到永恒不灭的境界。
6.42.57
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥ ६.४२.५७ ॥
以心将一切行为舍于我,以我为至上,依靠觉悟之瑜伽,常使心意专注于我。
6.42.58
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ ६.४२.५८ ॥
以心专注于我,凭我的恩典,你将度过一切困难;但若因自我而不听从,你将毁灭。
6.42.59
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ६.४२.५९ ॥
若你依赖自我而想“我不作战”,你的这个决定是虚妄的;你自己的本性将驱使你。
6.42.60
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ॥ ६.४२.६० ॥
贡蒂之子啊,你被由自身本性所生的自身行为所束缚,你因迷惑而不愿做的事,你也会身不由己地去做。
6.42.61
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६.४२.६१ ॥
阿周那啊,主居于一切众生心中,以幻力使一切如置于机器上的众生流转。
6.42.62
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतं ॥ ६.४२.६२ ॥
婆罗多啊,全心全意皈依他;凭他的恩典,你将获得至高的寂静与永恒之所。
6.42.63
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६.४२.६३ ॥
我已将这比秘密更秘密的智慧如此讲给你;请充分思量,然后随你的意愿去做。
6.42.64
सर्वगुह्यतमं भूयः श्रृणु मे परमं वचः ।
इष्टेऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६.४२.६४ ॥
请再听我至高无上的话,它是一切秘密中最秘密的;你确实深得我心,所以我要告诉你有益的话。
6.42.65
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६.४२.६५ ॥
将心专注于我,成为我的信徒,向我献祭,向我礼拜;你必定会来到我这里,我真实地向你承诺,因为你深得我心。
6.42.66
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६.४२.६६ ॥
舍弃一切法,唯独皈依于我;我将使你脱离一切罪业,不要忧伤。
6.42.67
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६.४२.६७ ॥
此言绝不可对不修苦行者、不虔信者、不愿听闻者,或诽谤我者说。
6.42.68
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ६.४२.६८ ॥
凡在我的信徒中宣说此至高秘密、对我怀有至高虔信者,必定无疑地来到我这里。
6.42.69
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६.४२.६९ ॥
世人之中,无人比他更能使我欢喜;大地之上,也无他人比他更为我所珍爱。
6.42.70
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ६.४२.७० ॥
凡研习我们这段合乎法义的对话者,我将因他的智慧祭祀而受其供奉,这是我的看法。
6.42.71
श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः ।
सोपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणां ॥ ६.४२.७१ ॥
若有人怀着信心、不生嫉妒而听闻此言,他也将得解脱,到达行善者的吉祥世界。
6.42.72
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनंजय ॥ ६.४२.७२ ॥
普利塔之子啊,你是否以专一的心听了此言?征服财富者啊,你由无明而生的迷惑是否已经消除?
6.42.73
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत ।
स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ ६.४२.७३ ॥
阿周那说:无失者啊!蒙你恩典,我的迷惑已除,记忆已复。疑惑尽去,我坚定而立;我将依你的话去做。
6.42.74
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ ६.४२.७४ ॥
我就这样听到了婆薮提婆与大德的般遮罗之间这场奇妙而令人毛骨悚然的对话。
6.42.75
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ६.४२.७५ ॥
蒙毗耶娑之恩,我亲耳从瑜伽之主黑天本人口中直接听闻这至高的秘密瑜伽。
6.42.76
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुवयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ६.४२.७६ ॥
大王啊!我一再忆起这场奇妙而神圣的克沙瓦与阿周那的对话,便一再欢喜。
6.42.77
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥ ६.४२.७७ ॥
大王啊!我一再忆起哈里那极其奇妙的形相,心中大为惊异,也一再欢喜。
6.42.78
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ६.४२.७८ ॥
瑜伽之主黑天在哪里,执弓的般遮罗在哪里,那里便有吉祥、胜利、威势与坚定的正道——这是我的看法。