Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.44.1

एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
के पूर्वं प्राहरंस्तत्र कुरवःक पाण्डवा नु किम् ॥ ६.४४.१ ॥

如此,我方与对方之军列成阵势时,那里究竟是俱卢人还是般度人先发动攻击?

6.44.2

भ्रातृभिः सहितो राजन्पुत्रो दुःशासनस्तव ।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ ६.४४.२ ॥

大王,您的儿子难敌之弟难降与众兄弟一同,以毗湿摩居前,率军前进。

6.44.3

तथैव पाण्डवाः सर्वे भीमसेनपुरोगमाः ।
भीष्मेण युद्धमिच्छन्तः प्रययुर्हृष्टमानसाः ॥ ६.४४.३ ॥

同样,以毗摩森那为首的般度诸子,怀着欢喜之心,渴望与毗湿摩交战,向前进发。

6.44.4

क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।
भेरीमृदङ्गमुरजा हयकुञ्जरनिःस्वनाः ॥ ६.४४.४ ॥

狮吼、"基拉基拉"的尖啸、锯形螺号与牛角号、鼓、灵鼓与大鼓,以及马与象的嘶鸣。

6.44.5

उभयोःक सेनयोर्ह्यासंस्ततस्तेऽस्मान्समाद्रवन् ।
वयं तान्प्रतिर्दन्तस्तदाऽऽसीत्तुमुलं महत् ॥ ६.४४.५ ॥

两军之中,他们向我们冲来,我们迎击抵抗,那时便发生了巨大的喧嚣。

6.44.6

महान्त्यनीकानि महासमुच्छ्रये ।
समागमे पाण्डवधार्तराष्ट्रयोः।
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः ।
प्रकम्पितानीव वनानि वायुना ॥ ६.४४.६ ॥

在般度诸子与持国之子的那场大会战中,大军被螺号与灵鼓之声震得颤抖,犹如狂风中摇动的森林。

6.44.7

नरेन्द्र नागाश्वरताकुलाना-
मभ्यागतानामशिवे मुहूर्ते।
बभूव घोषस्तुमुलश्चमूनां ।
वातोद्धुतानामिव सागराणाम् ॥ ६.४४.७ ॥

人主啊!在不吉的时刻,象、马、车充塞的大军前来,便响起如同被风激荡的大海般的喧嚣巨响。

6.44.8

तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे ।
भीमसेनो महाबाहुः प्राणदद्गोवृषो यथा ॥ ६.४४.८ ॥

当那令人毛骨悚然的喧嚣声响起时,大臂的毗摩森那如公牛般吼叫起来。

6.44.9

शङ्खदुन्दुभिनिर्घोषं वारणानां च बृंहितम् ।
सिंहनादं च सैन्यानां भीससेनरवोऽभ्यभूत् ॥ ६.४४.९ ॥

海螺与鼓的轰鸣、象的嘶吼、军队的狮吼,全被毗摩森那的呼声压倒。

6.44.10

हयानां हेषमाणानामनीकेषु सहस्रशः ।
सर्वानभ्यभवच्चब्दान्भीमस्य नदतः स्वनः ॥ ६.४४.१० ॥

军中数以千计的马嘶声压过了一切声响;而怒吼的毗摩之声则凌驾于它们之上。

6.44.11

तं श्रुत्वा निनदं तस्य सैन्यास्तव वितत्रसुः ।
जीमूतस्येव नदतः शक्राशनिसमस्वनम् ॥ ६.४४.११ ॥

听到他的吼声,您的大军惊恐战栗——如同雷云轰鸣,犹如因陀罗霹雳之声。

6.44.12

वाहनानि च सर्वाणि शकृन्मूत्रं प्रमुस्रुवुः ।
शब्देन तस्य वीरस्य सिंहस्येवेतरेक मृगाः ॥ ६.४४.१२ ॥

那英雄的吼声一响,所有的坐骑都排泄了粪便和尿液,就像其他鹿遇到狮吼时一样。

6.44.13

दर्शयन्घोरमात्मानं महाभ्रमिव नादयन् ।
विभीषयंस्तव सुतान्भीमसेनः समभ्ययात् ॥ ६.४४.१३ ॥

显露可怖的形象,如大云般轰鸣,惊吓你的儿子们,比摩娑那前进。

6.44.14

तमायान्तं महेष्वासं सोदर्याः पर्यवारयन् ।
छादयन्तः शरव्रातैर्मेघा इव दिवाकरम् ॥ ६.४४.१४ ॥

他的兄弟们包围了那位接近的大弓手,以箭雨遮蔽他,如乌云遮蔽太阳。

6.44.15

दुर्योधनश्च पुत्रस्ते दुर्मुखो दुःसहः शलः ।
दुःशासनश्चातिरथस्तथा दुर्मर्षणो नृपः ॥ ६.४४.१५ ॥

你的儿子难敌、恶口、难忍、沙罗,大车将杜沙赛那,以及国王恶忍也在其中。

6.44.16

विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
पुरुमित्रो जयो भोजः सौमदत्तिश्च वीर्यवान् ॥ ६.४४.१६ ॥

毗毗桑底、质勒森那、大车将毗迦尔纳、补卢弥多罗、胜、婆阇,以及勇猛的苏摩达多之子。

6.44.17

महाचापानि धुन्वन्तो मेघा इव सविद्युतः ।
आददानाश्च नाराचान्निर्मुक्ताशीविषोपमान् ॥ ६.४४.१७ ॥

挥舞大弓,如乌云闪电;取出那如放出的毒蛇般的那罗遮箭。

6.44.18

अथ ते द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ ६.४४.१८ ॥

随后,德罗波蒂之子、大车将苏跋特罗、无拘、偕天,以及婆利沙多之子德里斯塔迪由姆那也上前。

6.44.19

धार्तराष्ट्रान्प्रतिययुरर्दयन्तः शितैः शरैः ।
वज्रैरिव महावेगैः शिखराणि धराभृताम् ॥ ६.४४.१९ ॥

他们以利箭折磨般冲向持国之子,如同巨大速度的霹雳击打山峰之巅。

6.44.20

तस्मिन्प्रथमसंग्रामे भीमज्यातलनिःस्वने ।
तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ ६.४४.२० ॥

在那第一场战斗中,在手掌拍击弓弦发出的可怕声响之中,无论是你的人还是敌人,没有一人背转身去。

6.44.21

लाघवं द्रोणशिष्याणामपश्यं भरतर्षभ ।
निमित्तवेधिनां चैव शरानुत्सृजतां भृशम् ॥ ६.४४.२१ ॥

婆罗多族之雄啊!我看见德罗纳弟子的敏捷,他们善于命中目标,不停地射出箭矢。

6.44.22

नोपशाम्यति निर्घोषो धनुषां कूजतां तथा ।
विनिश्चेरुः शरा दीप्ताज्योतींषीव नभस्तलात् ॥ ६.४४.२२ ॥

弓的轰鸣与弦的嗡响并未平息,燃烧的箭矢如光芒般从天空飞出。

6.44.23

सर्वे त्वन्ये महीपालाः प्रेक्षका इव भारत ।
ददृशुर्दर्शनीयं तं भीमं ज्ञातिसमागमम् ॥ ६.४४.२३ ॥

婆罗多啊,其余诸王如同旁观者,注视着那场可怖而壮观的亲族相会。

6.44.24

ततस्ते जातसंरम्भाः परस्परकृतागसः ।
अन्योन्यस्पर्धया राजन्व्यायच्छन्त महारथाः ॥ ६.४४.२४ ॥

于是他们怒火中烧,彼此有过节,国王啊!那些大车战士在相互争竞中拉开了弓弦。

6.44.25

कुरुपाण्डवसेने ते हस्त्यश्वरथसंकुले ।
शुशुभाते रणेऽतीव पटे चित्रार्पिते इव ॥ ६.४४.२५ ॥

库鲁与般度的军队,充满象、马与战车,在那战场上极其耀眼,宛如绘制在布帛上的图画。

6.44.26

ततस्ते पार्थिवाः सर्वे प्रगृहीतशरासनाः ।
सहसैन्याः समापेतुः पुत्रस्य तव शासनात् ॥ ६.४४.२६ ॥

于是,在你儿子的命令下,所有那些举起弓的国王与他们的军队一同向前冲去。

6.44.27

युधिष्ठिरेण चदिष्टाः पार्थिवास्ते सहस्रशः ।
विनदन्तः समापेतुः पुत्रस्य तव वाहिनीम् ॥ ६.४४.२७ ॥

那些成千上万的国王受坚战之命,怒吼着一同冲向你儿子的军队。

6.44.28

उभयोः सेनयोस्तीव्रः सैन्यानां स समागमः ।
अन्तर्धीयत चादित्यः सैन्येन रजसा वृतः ॥ ६.४४.२८ ॥

两军发生了那场激烈的冲突,太阳被军队扬起的尘土遮蔽而隐没了。

6.44.29

प्रयुद्धानां प्रभग्नानां पुनरावर्तिनामपि ।
नात्र स्वेषां परेषां वा विशेषः समदृश्यत ॥ ६.४४.२९ ॥

在作战者、败退者和再度返回者之中,这里无法分辨己方与敌人的区别。

6.44.30

तस्मिस्तु तुमुले युद्धे वर्तमाने महाभये ।
अति सर्वाण्यनीकानि पिता तेऽभिव्यरोचत ॥ ६.४४.३० ॥

在那场可怖而喧嚣、令人极度恐惧的战斗进行之时,你的父亲选择了超越一切的阵形来部署军队。