摩诃婆罗多 · 章 6.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.45.1
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशांपते ।
प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥ ६.४५.१ ॥
在那可怕之日的上午,哦人民之主,一场极其惨烈的战斗开始了,国王们的身体被斩裂。
6.45.2
कुरूणां सृञ्जयानां च जिगीषूणां परस्परम् ।
सिंहानामिव संह्रादो दिवमुर्वी च नादयन् ॥ ६.४५.२ ॥
俱卢与娑闍耶人彼此渴望取胜,如狮吼般咆哮,使天空与大地都为之震鸣。
6.45.3
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह ।
जझिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥ ६.४५.३ ॥
欢呼之声与拍掌、螺号之声一同响起,而互相应和的英雄们的狮吼也回荡开来。
6.45.4
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ ।
पत्तीनां पादशब्दश्च वाजिनां च महास्वनः ॥ ६.४५.४ ॥
哦,婆罗多族中的雄牛,弓弦击打护臂之声、步兵的脚步声与战马的巨大嘶鸣也一同响起。
6.45.5
तोत्राङ्कुशनिपातश्च आयुधानां च निःस्वनः ।
घण्टाशब्दश्च नागानामन्योन्यमभिधावताम् ॥ ६.४५.५ ॥
驱象钩与鞭子的击打声、兵器的铿锵声,以及相互冲杀的象群身上铃铛的响声,一同回荡开来。
6.45.6
तस्मिन्समुदिते शब्दे तुगुले रोमहर्षणे ।
बभूव रथनिर्घोषः पर्जन्यनिनदोपमःक ॥ ६.४५.६ ॥
在那震耳欲聋、令人毛骨悚然的喧嚣之中,战车的隆隆声如雨云的雷鸣般响起。
6.45.7
ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ ६.४५.७ ॥
他们坚定了残酷的心,完全舍弃了性命,所有人高举旗帜冲向般度之子。
6.45.8
अथ शान्तनवो राजन्नभ्यधावद्धनञ्जयम् ।
प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥ ६.४५.८ ॥
于是,大王,ship·Śantanu之子毗湿摩手持战场上如死神之杖般可怖的弓,冲向持财者(阿周那)。
6.45.9
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् ।
अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥ ६.४५.९ ॥
阿周那也手持闻名于世的甘狄拔弓,光彩照人,在战阵前列冲向恒河之子。
6.45.10
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ ।
गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥ ६.४५.१० ॥
这两只库鲁族的虎,彼此都想置对方于死地;然而,强大的恒河之子虽在战场上射伤了般度之子,却未能使他动摇。
6.45.11
तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ।
सात्यकिस्तु महेष्वासः कृतवर्माणमभ्यात् ॥ ६.४५.११ ॥
同样,大王,般度之子也未能在战斗中使毗湿摩动摇。而大弓手萨提亚基则攻击了克里达瓦尔曼。
6.45.12
तयोः समभयवद्युद्धं तुमुलं रोमहर्षणम् ।
सात्यकिः कृतवर्माणं कृतवार्मा च सात्यकिम् ॥ ६.४५.१२ ॥
二人之间展开了喧嚣而令人毛骨悚然的激战:萨提亚基对克里达瓦尔曼,克里达瓦尔曼对萨提亚基。
6.45.13
आनर्च्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ।
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ ॥ ६.४५.१३ ॥
二人以猛烈的箭相互射伤;这两位大力者浑身插满箭矢,依然闪耀。
6.45.14
वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ।
अभिमन्युर्महेष्वासं बृहद्बलमयोधयत् ॥ ६.४५.१४ ॥
如春天里开满花朵的两棵金苏树,阿毗曼尤与大弓手勃哈德拔罗战斗。
6.45.15
ततः कोसलराजाऽसावभिमन्योर्विशांपते ।
ध्वजं चिच्छेद समरे सारथिं च व्यपातयत् ॥ ६.४५.१५ ॥
于是,人主啊,憍萨罗王在战斗中斩断了阿毗曼尤的旗帜,并击倒了他的御者。
6.45.16
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ ।
बृहद्बलं महाराज विव्याध नवभिः शरैः ॥ ६.४५.१६ ॥
大王啊,当他战车的御者被击倒后,愤怒的苏跋陀罗之子以九支箭射穿了勃哈德拔罗。
6.45.17
अथापराभ्यां भल्लाभ्यां शिताभ्यामरिमर्दनः ।
ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥ ६.४५.१७ ॥
然后,摧毁敌人者以另外两支锐利的薄剑箭,一支斩断旗帜,一支射中御者的脚跟。
6.45.18
अन्योन्यं च शरैः क्रुद्धौ ततक्षाते परस्परम् ।
मानिनं समरे दृप्तं कृतवैरं महारथम् ॥ ६.४५.१८ ॥
二人愤怒,以箭相互射伤;这位骄傲自负、与对方有旧怨的大车战士,在战斗中。
6.45.19
भीमसेनस्तव सुतं दुर्योधनमयोधयत् ।
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ ॥ ६.४५.१९ ॥
毗摩先那与你的儿子难敌交战。他二人是人中之虎,俱瞻族之首,大力无比。
6.45.20
अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ।
तौ वीक्ष्य तु महात्मानौ कृतिनौ चित्रयोधिनौ ॥ ६.४५.२० ॥
在战场上,二人彼此箭如雨下。众人见那两位大德、精巧而神奇的战士——
6.45.21
विस्मयः सर्वभूतानां समपद्यत भारत ।
दुःशासनस्तु नकुलं प्रत्युद्याय महाबलम् ॥ ६.४५.२१ ॥
婆罗多啊,一切众生都感到惊异。难降向大力的无尽进攻。
6.45.22
अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ।
तस्य माद्रीसुतः केतुं सशरं च शरासनम् ॥ ६.४५.२२ ॥
他以许多锋利、穿透要害的箭射中对方。然后玛德利之子射中其旗帜与带箭之弓——
6.45.23
चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ ६.४५.२३ ॥
他以锋利的箭将其斩断,仿佛在笑,婆罗多啊;随后又以二十五支小箭射中他。
6.45.24
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे ।
तुरङ्गांश्चिच्छिदे बाणैर्ध्वजं चैवाभ्यपातयत् ॥ ६.४५.२४ ॥
你那不可战胜的儿子在那场大战中,以箭斩杀了无尽的马匹,也将其旗帜射落。
6.45.25
दुर्मुखः सहदेवं च प्रत्युद्याय महाबलम् ।
विव्याध शरवर्षेण यतमानं महाहवे ॥ ६.४५.२५ ॥
杜尔穆卡冲上前迎战大力的萨哈德瓦,在大战中以箭雨击打正在奋战的他。
6.45.26
सहदेवस्ततो वीरो दुर्मुखस्य महारणे ।
शरेण भृतशीक्ष्णेन पातयामास सारथिम् ॥ ६.४५.२६ ॥
于是英雄萨哈德瓦在大战中以磨得锋利的利箭射倒了杜尔穆卡的御者。
6.45.27
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ ।
त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥ ६.४५.२७ ॥
二人沉醉于战斗,彼此接近,都想以牙还牙,用可怕的箭矢彼此恐吓。
6.45.28
युधिष्टिरः स्वयं राजा मद्रराजानमभ्ययात् ।
तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥ ६.४५.२८ ॥
国王坚战亲自前往迎战摩德罗国王,而摩德罗之主,啊尊者,将他的弓一分为二。
6.45.29
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः ।
अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥ ६.४५.२९ ॥
于是昆提之子坚战抛开断弓,另取一张迅捷而极为强劲的弓。
6.45.30
ततो मद्रेश्वरं राजा शरैः सन्नतपर्वभिः ।
छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ६.४५.३० ॥
于是愤怒的国王以带弯节的箭矢覆盖了摩德罗之主,并说:“站住,站住!”
6.45.31
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत ।
तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् ॥ ६.४५.३१ ॥
于是德里什塔迅瑪向德罗纳冲去,婆罗多啊。德罗纳对他极为愤怒,射出了一支夺命的坚韧之箭。
6.45.32
त्रिधा चिच्छेद समरे पाञ्चाल्यस्य तु कार्मुकम् ।
शरं चैव महाघोरं कालदण्डमिवापरम् ॥ ६.४५.३२ ॥
战斗中,他将般遮罗王子的弓斩为三段,又斩断另一支极其可怖、如同死神之杖的箭。
6.45.33
प्रेषयामास समरे सोऽस्य काये न्यमञ्जत ।
अथान्यद्धनुरादाय सायकांश्च चतुर्दश ॥ ६.४५.३३ ॥
战斗中他射出的箭深深扎入其身。随后他另取一张弓,射出十四支箭。
6.45.34
द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ।
तावन्योन्यं सुसंक्रुद्धौ चक्रतुः शुभृशं रणम् ॥ ६.४५.३४ ॥
德鲁波陀之子也在战斗中反击德罗纳。二人互相极为愤怒,展开了异常激烈的战斗。
6.45.35
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि ।
प्रत्युद्ययौ महाराज तिष्ठतिष्ठेति चाब्रवीत् ॥ ६.४५.३५ ॥
战斗中,商克迅猛地冲向索摩达蒂,罗波沙也在战斗中向他扑去。大王啊,他喊道:“站住,站住!”
6.45.36
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् ।
समदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥ ६.४५.३६ ॥
那位英雄在战斗中刺穿了他的右臂;而索摩达塔之子索摩达蒂则击中商克的锁骨处。
6.45.37
तयोस्तदभवद्युद्धं घोररूपं विशांपते ।
दृप्तयोः समरे पूर्वं वृत्रवासवयोरिव ॥ ६.४५.३७ ॥
二人之间爆发了可怕的战斗,人主啊,如同往昔骄傲的弗栗多与婆薮之间的战斗。
6.45.38
बाह्लीकं तु रणे क्रुद्ध क्रुद्धरूपो विशांपते ।
अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥ ६.४५.३८ ॥
于是,灵魂无量、形貌狂怒的大车勇士德里什塔克图,在战场上冲向愤怒的巴赫利迦,人主啊。
6.45.39
बाह्लीकस्तु रणे राजन्धृष्टकेतुममर्षणः ।
शरैर्बहुभिरानर्च्छत्सिंहनादमथानदत् ॥ ६.४५.३९ ॥
于是,在战场上不能忍耐的巴赫利迦,王啊,以许多箭射击德里什塔克图,并发出狮吼。
6.45.40
चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः ।
विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥ ६.४५.४० ॥
而车底国王极度愤怒,在战斗中迅速以九支箭射穿了巴赫利迦,如同发狂的象撞击另一头发狂的象。
6.45.41
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च पुनः पुनः ।
समीयतुः सुसंक्रुद्धावङ्गारवबुधाविव ॥ ६.४५.४१ ॥
二人在战场上愤怒,反复咆哮,极度恼怒地相遇,如同两块燃烧的炭火相撞。
6.45.42
राक्षसं रौद्रकर्माणं क्रूरकर्मा घटोत्कचः ।
अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥ ६.४५.४२ ॥
行事残酷的迦托迦恰率军向行事可怖的罗刹阿兰布沙进发,如同因陀罗在战场上前进。
6.45.43
घटोत्कचस्ततः क्रुद्धो राक्षसं तं महाबलम् ।
नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥ ६.४५.४३ ॥
于是愤怒的迦陀迦查以九十支利箭射穿了那位大力罗刹,婆罗多啊。
6.45.44
अलम्बुसस्तु समरे भैमसेनिं महाबलम् ।
बहुधा दारयामास शरैः सन्नतपर्वभिः ॥ ६.४५.४४ ॥
然而阿兰布沙在战中以多种方式、以带弯节的箭射穿了毗摩森之子这位大力者。
6.45.45
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ ।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ ६.४५.४५ ॥
于是这二人被箭所伤,在战中闪耀,如同提婆与阿修罗之战中那大力的钵罗与帝释天闪耀一般。
6.45.46
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली ।
अश्वत्थामा ततः क्रुद्दः शिखण्डिनमुपस्थितम् ॥ ६.४५.४६ ॥
大王啊,有力的尸建底在战中向德罗纳之子进发。于是愤怒的马嘶子攻击了迎面而来的尸建底。
6.45.47
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा ह्यकम्पयत् ।
शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥ ६.४५.४७ ॥
他以极锋利的铁箭深深射穿了对方,使其颤抖。大王啊,随后尸建底也击中了德罗纳之子。
6.45.48
सायकेन सुपीतेन तीक्ष्णेन निशितेन च ।
तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥ ६.४५.४८ ॥
二人以精磨、锐利、尖锐的箭,在战中用多种箭互相攻击。
6.45.49
भगदत्तं रणे शूरं विराटो वाहिनीपतिः ।
अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥ ६.४५.४९ ॥
大王啊,在战场上,统帅毗罗吒急速冲向勇士婆伽陀,于是战斗开始了。
6.45.50
विराटो भगदत्तं तु शरवर्षण भारत ।
अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् ॥ ६.४५.५० ॥
婆罗多啊,极度愤怒的毗罗吒向婆伽陀射下箭雨,如云层向山岳降雨。
6.45.51
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् ।
छादयामास समरे मेघः सूर्यमिवोदितम् ॥ ६.४५.५१ ॥
于是婆伽陀迅速在战斗中遮蔽了国王毗罗吒,如云遮蔽升起的太阳。
6.45.52
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ ।
तं कृपः शरवर्षेण च्छादयामास भारत ॥ ६.४५.५२ ॥
沙罗德瓦特之子慈悲者向迦柯耶王子广大刹帝利进攻;婆罗多啊,慈悲者以箭雨遮蔽了他。
6.45.53
गौतमं कैकयः क्रुद्धः शरवृष्ट्याऽभ्यपूरयत् ।
तावन्योन्यं हयान्हत्वा धनुश्छित्वा च भारत ॥ ६.४५.५३ ॥
愤怒的迦柯耶以箭雨充斥了乔达摩(慈悲者);婆罗多啊,二人互相杀死对方的马、斩断了弓,
6.45.54
विरथावसियुद्धाय समीयतुरमर्षणौ ।
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥ ६.४५.५४ ॥
二人失去战车、互不退让,便以剑决战;他们的战斗变得形态可怖、极其惨烈。
6.45.55
द्रुपदस्तु ततो राजन्सैन्धवं वै जयद्रथम् ।
अभ्युद्ययौ हृष्टरूपो हृष्टरूपं परंतपः ॥ ६.४५.५५ ॥
大王啊,于是折磨敌人的德鲁帕达面带喜色,向信度王胜车进发。
6.45.56
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः ।
ताजयामास समरे स च तं प्रत्यबिध्यत ॥ ६.४५.५६ ॥
于是信度王在战斗中用三支箭射伤德鲁帕达,德鲁帕达也反射了他。
6.45.57
तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ।
ईक्षणप्रीतिजननं शुक्राङ्गरकयोरिव ॥ ६.४५.५७ ॥
他们二人的战斗,形状可怖,极为惨烈,就像金星与火星之战那样,令人眼目愉悦。
6.45.58
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् ।
अभ्ययाञ्जवनैरश्वैस्ततो युद्धमवर्तत ॥ ६.४५.५८ ॥
你的儿子毗迦尔纳驱快马冲向大力的苏多索摩,于是战斗开始了。
6.45.59
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः ।
सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥ ६.४५.५९ ॥
毗迦尔纳以箭射中苏多索摩,却不能使他动摇;苏多索摩也射中了毗迦尔纳,那情景仿佛奇迹一般。
6.45.60
सुशर्माणं नरव्याघ्रश्चेकितानो महारथः ।
अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी ॥ ६.४५.६० ॥
大车将者车启丹那,人中猛虎,极为愤怒,为了般度诸子而勇猛地冲向苏舍尔曼。
6.45.61
शुशर्मा तु महाराज चेकितानं महारथम् ।
महता शरवर्षेण वारयामास संयुगे ॥ ६.४५.६१ ॥
大王啊,苏舍尔摩在战斗中以密集的箭雨阻挡了大车战士车奇坦那。
6.45.62
चेकितानोऽपि संरब्धः सुशर्माणां महाहवे ।
प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥ ६.४५.६२ ॥
车奇坦那也怒气冲冲,在那场大战中以箭矢遮蔽苏舍尔摩,如大云遮蔽山峰。
6.45.63
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी ।
अभ्यद्रवत राजेन्द्र मत्तः सिंह इव द्विपम् ॥ ६.४५.६३ ॥
诸王之王啊,勇猛的沙古尼攻击勇武的普拉提文德耶,如同发狂的狮子扑向大象。
6.45.64
यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः ।
व्यदारयत संग्रामे मघवानिव दानवम् ॥ ६.४५.६४ ॥
युधिष्ठिर之子怒气冲冲,以利箭在战中射穿了苏跋罗(沙古尼),如同因陀罗击碎檀那婆。
6.45.65
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे ।
व्यदारयन्महाप्राज्ञः शरैः सन्नतपर्वभिः ॥ ६.४५.६५ ॥
然而大智慧的沙古尼在战斗中,以弯节之箭撕裂了反击的普拉提文德耶。
6.45.66
सुदक्षिणं तु राजेन्द्र काम्भोजानां महारथम् ।
श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥ ६.४५.६६ ॥
诸王之王啊,勇武的舒鲁塔卡尔曼在战斗中攻击了甘波遮人的大车战士苏达克希纳。
6.45.67
सुदक्षिणस्तु समरे साहदेविं महारथम् ।
विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥ ६.४५.६७ ॥
在战斗中,苏达克希纳射穿了大车士萨哈德维,然而他如摩纳伽山一般丝毫不动。
6.45.68
श्रुतकर्मा ततः क्रुद्धः काम्भोजानां महारथम् ।
शरैर्बहुभिरानर्च्छद्दारयन्निव सर्वशः ॥ ६.४५.६८ ॥
于是愤怒的室如迦尔摩从四面以许多箭射击迦姆波闍的大车士,仿佛要将他撕裂。
6.45.69
इरावानथ संक्रुद्धः श्रुतायुषमरिन्दमम् ।
प्रत्युद्ययौ रणे यत्तो यत्तरूपं परंतपः ॥ ६.४५.६९ ॥
于是愤怒的伊罗湾在战场上准备就绪,向降敌者室如阿尤斯挺进,他是折磨敌人的人。
6.45.70
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः ।
ननाद बलवान्नादं तत्सैन्यं प्रत्यपूरयत् ॥ ६.४५.७० ॥
阿周那之子大车士在战斗中杀死了他的马匹,并发出强烈的吼声;那吼声充满了整支军队。
6.45.71
श्रुतायुस्तु ततः क्रुद्धः फाल्गुनेः समरे हयान् ।
निजघान गदाग्रेण ततो युद्धमवर्तत ॥ ६.४५.७१ ॥
于是愤怒的室如陀斯以狼牙棒的尖端在战斗中击杀了法尔古尼(阿周那)的马匹,战斗便更加激烈了。
6.45.72
विन्दानिविन्दावावन्त्यौ कुन्तिभोजं महारथम् ।
ससेनं ससुतं वीरं संससञ्जतुराहवे ॥ ६.४५.७२ ॥
阿万提的两位王子文达与阿努文达在战斗中向大车士昆提菩阇发起进攻,连同他的军队和儿子一起。
6.45.73
तत्राद्भुतमपश्याम तयोर्घोरं पराक्रमम् ।
अयुध्येतां स्थिरौ भूत्वा महत्या सेनया सह ॥ ६.४५.७३ ॥
在那里我们看见了二人惊人而可怕的勇力;他们坚定不移,与大军一同作战。
6.45.74
अनुविन्दस्तु गदया कुन्तिभोजमताडयत् ।
कुन्तिभोजश्च तं तूर्णं शरव्रातैरवाकिरत् ॥ ६.४५.७४ ॥
阿奴温陀以铁杵击打军人王,军人王也迅速以箭雨将他覆盖。
6.45.75
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः ।
स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥ ६.४५.७५ ॥
军人王之子也以箭射中毗陀,毗陀也以箭还击;此事仿佛令人惊奇。
6.45.76
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष ।
ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥ ६.४५.७६ ॥
啊,尊者!迦迦耶的五兄弟与乾陀罗的五人,各率军队,在战场上彼此交战。
6.45.77
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् ।
उत्तरं योधयामास विव्याध निशितैः शरैः ॥ ६.४५.७७ ॥
你的儿子毗罗跋呼与毗罗吒之子、最优秀的车战勇士优多罗交战,并以锐利的箭射中了他。
6.45.78
उत्तरश्चापि तं वीरं विव्याध निशितैः शरैः ।
चेदिराट् समरे राजन्नुलूकं समभिद्रवत् ॥ ६.४५.७८ ॥
优多罗也以锐利的箭射中了那位英雄。啊,国王!车底之王在战斗中冲向乌鲁迦。
6.45.79
तथैव शरवर्षेण उलूकं समविद्ध्यत ।
उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥ ६.४५.७९ ॥
同样,他以箭雨深深射中乌卢迦;乌卢迦也以锐利的带羽箭射中了他。
6.45.80
तयोर्युद्धं समभवद्धोररूपं विशांते ।
दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ ॥ ६.४५.८० ॥
二人之间爆发了一场可怖的战斗,哦,人主。两人极度愤怒,彼此都不曾被对方战胜,互相撕扯。
6.45.81
एवं द्वन्द्वसहस्राणि रथवारणवाजिनाम् ।
पदातीनां च समरे तव तेषां च संकुले ॥ ६.४५.८१ ॥
如此,战场上战车武士、象骑、骑兵与步兵之间有数千场单挑,在你方与敌方的混战之中。
6.45.82
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन ॥ ६.४५.८२ ॥
那场战斗在片刻间似乎令人愉悦;然后,哦国王,人们仿佛发狂一般,什么也分辨不出。
6.45.83
गजो गजेन समरे रथिनं च रथी ययौ ।
अश्वोऽश्वं समभिप्रायात्पदातिश्च पदातिनम् ॥ ६.४५.८३ ॥
战场上,象遇象,车遇车;马奔向马,步兵冲向步兵。
6.45.84
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत ।
शूराणां समरे तत्र समासाद्येतरेतरम् ॥ ६.४५.८४ ॥
于是那场战斗变得极其难以抵挡且混乱;在战场上,英雄们彼此相遇,相互搏杀。
6.45.85
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः ।
प्रेक्षन्त तद्रणं घोरं देवासुरसमं भुवि ॥ ६.४५.८५ ॥
天界仙人、成就者与天乐神在那里聚集,观看大地上那场可怖的战斗,如同天神与阿修罗之战。
6.45.86
ततो दन्तिसहस्राणि र्थानां चापि मारिष ।
अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥ ६.४५.८६ ॥
于是,高贵者啊,成千上万的象、车、马群与步兵乱作一团,相互冲撞。
6.45.87
तत्रतत्र प्रदृश्यन्ते रथवारणपत्तयः ।
सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ॥ ६.४५.८७ ॥
人中虎啊,到处都能看到车兵、象兵、步卒与骑兵,一次又一次地厮杀。