摩诃婆罗多 · 章 6.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.49.1
श्वेते सेनापतौ तात संग्रमे निहते परैः ।
किमकुर्वन्महेष्वासाः पाञ्चालाः पाण्डवैः सह ॥ ६.४९.१ ॥
亲爱的孩子,白色统帅在战斗中被敌人杀死后,大弓箭手般遮罗人与般度之子们一起做了什么?
6.49.2
सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् ।
तदर्थं यततां चापि परेषां प्रपलायिनाम् ॥ ६.४९.२ ॥
听闻白色统帅在战斗中被击倒,那些为此而努力的敌人,以及逃跑的人,又做了什么?
6.49.3
मनः प्रीणाति मे वाक्यं जयं संजय श्रृण्वतः ।
प्रत्युपायं चिन्तयन्तः सञ्जनाः प्रस्रवन्ति मे ॥ ६.४९.३ ॥
桑闪耶啊,听闻胜利之言使我心欢喜;然而那些善人思量对策时,却使我泪水流淌。
6.49.4
स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा ।
कृतं वैरं सदा तेन पितुः पुत्रेण धीमता ॥ ६.४९.४ ॥
那位英雄,忠诚而年老的库卢之主,始终怀着敌意,如同智慧的儿子承继父亲的仇恨。
6.49.5
तस्योद्वेगभयाच्चापि संश्रितः पाण्डवान्पुरा ।
सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति ॥ ६.४९.५ ॥
因为他的惶恐与恐惧,他先前曾投奔般度之子;如今他舍弃了全部军队,依托一座堡垒而驻守。
6.49.6
पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च ।
सपत्नान्सततं बाधन्नार्यवृत्तिमनुष्ठितः ॥ ६.४९.६ ॥
他凭借般度之子的威势,在险要之地安居,并不断侵扰敌人,行为卑劣不堪。
6.49.7
आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः ।
ततो युधिष्ठिरे भक्तः कथं सञ्जय सूदितः ॥ ६.४९.७ ॥
持国说:桑耆耶啊,真令人惊异,那心术恶劣、往昔一向忠于坚战的人,怎么会被杀死呢?
6.49.8
प्रक्षिप्तः संमतः क्षुद्रः पुत्रो मे पुरुषाधमः ।
न युद्धं रोचयेद्भीष्मो न चाचार्यः कथंचन ॥ ६.४९.८ ॥
持国说:我的儿子,卑劣而是人中最下贱者,虽被摒弃却仍受尊重;毗湿摩和师尊无论如何都不赞成这场战争。
6.49.9
न कृपो न च गान्धारी नाहं सञ्जय रोचये ।
न वासुदेवो वार्ष्णेयो धर्मराजश्च पाण्डवः ॥ ६.४९.९ ॥
持国说:桑耆耶啊,克利巴、甘陀利,还有我,都不赞成此事;瓦苏提婆(黑天)和般度族的法王坚战也不赞成。
6.49.10
न भीमो नार्जुनश्चैव न यमौ पुरुषर्षभौ ।
वार्यमाणो मया नित्यं गान्धार्या विदुरेण च ॥ ६.४९.१० ॥
持国说:怖军、阿周那,以及人中雄牛般的双生子(无种与偕天),也都不赞成。尽管我、甘陀利和维杜罗一直在阻止他,
6.49.11
जामदग्न्येन रामेण व्यासेन च महात्मना ।
दुर्योधनो युध्यमानो नित्यमेव हि सञ्जय ॥ ६.४९.११ ॥
持国说:即使有耶摩陀那之子罗摩(持斧罗摩)和大心仙人毗耶娑劝阻,桑耆耶啊,难敌也始终与他们相争。
6.49.12
कर्णस्य मतमास्थाय सौबलस्य च पापकृत् ।
दुःशासनस्य च तथा पाण्डवान्नान्वचिन्तयत् ॥ ६.४९.१२ ॥
持国说:遵从迦尔纳的意见、苏波罗之子沙恭尼的意见,以及难降的意见,这作恶的人竟从未考虑过般度五子。
6.49.13
तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु सञ्जय ।
श्वेतस्य च विनाशेन भीष्मस्य विजयेन च ॥ ६.४९.१३ ॥
桑闍耶啊,我想他因白者的毁灭和毗湿摩的胜利而遭遇了可怕的灾难。
6.49.14
संक्रुद्धः कृष्णसहितः पार्थः किमकरोद्युधि ।
अर्जुनाद्धि भयं भूयस्तन्मे तात न शाम्यति ॥ ६.४९.१४ ॥
与克里希那同行的愤怒的普利塔之子在战斗中做了什么?孩子啊,我对阿周那的恐惧仍未平息。
6.49.15
स हि शूरश्च कौन्तेयः क्षिप्रकारी धनंजयः ।
मन्ये शरैः शरीराणि शत्रूणां प्रमथिष्यति ॥ ६.४९.१५ ॥
那英勇的昆提之子、行动迅捷的达难阇耶,我想他会用箭摧毁敌人的躯体。
6.49.16
ऐन्द्रिमिन्द्रानुजसमं महेन्द्रसदृशं बले ।
अमोघक्रोधसंकल्पं दृष्ट्वा वः किमभून्मनः ॥ ६.४९.१६ ॥
与因陀罗之弟相等,力量如大因陀罗,其怒与决心从不落空,你们见到他时,心中如何?
6.49.17
तथैव वेदविच्छूरो ज्वलनार्कसमद्युतिः ।
इन्द्रास्त्रविदमेयात्मा प्रपतन्समितिंजयः ॥ ६.४९.१७ ॥
同样,他是吠陀的通晓者,英雄,光辉如火与太阳,精通因陀罗的神兵,心量无限,冲锋陷阵,在战斗中获胜。
6.49.18
वज्रसंस्पर्शरूपाणामस्त्राणां च प्रयोजकः ।
सखङ्गाक्षेपहस्तस्तु घोषं चक्रे महारथः ॥ ६.४९.१८ ॥
这位大车士使用形如金刚触感的神兵,手中挥舞利剑,发出了吼声。
6.49.19
स सञ्जय महाप्राज्ञो द्रुपदस्यात्मजो बली ।
धृष्टद्युम्नः किमकरोच्छ्वेते युधि निपातिते ॥ ६.४९.१९ ॥
桑闍耶啊,德魯帕達之子、大智且有力的猛光,在白軍於戰場倒下時做了什麼?
6.49.20
पुरा चैवापराधेन वधेन च चमूपतेः ।
मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम् ॥ ६.४९.२० ॥
我想,先前因統帥的過錯與被殺,偉大的般度五子之心燃起了怒火。
6.49.21
तेषां क्रोधं चिन्तयंस्तु अहःसु च निशासु च ।
न शान्तिमधिगच्छामि दुर्योदनकृतेन हि ।
कथं चाभून्महायुद्धं सर्वमाचक्ष्व सञ्जय ॥ ६.४९.२१ ॥
日夜思念他們的憤怒,我無法安寧,因為這是難敵所造成的。桑闍耶啊,這場大戰是如何發生的?請把一切告訴我。
6.49.22
श्रृणु राजन्स्थिरो भूत्वा तवापनयनो महान् ।
न च दुर्योधने दोषमिमामाधातुमर्हसि ॥ ६.४९.२२ ॥
大王,請堅定地聽:這是你的大過失。你不該把這罪過加在難敵身上。
6.49.23
गतोदके सेतुबन्धो यादृक्तादृङ्भतिस्तव ।
संदीप्ते भवने यद्वत्कूपस्य खननं तथा ॥ ६.४९.२३ ॥
就像水已流走才築堤,房屋已燃才掘井,你的考慮也是徒勞的。
6.49.24
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे ।
तावकानां परेषां च पुनर्युद्धमवर्तत ॥ ६.४९.२४ ॥
那可怕的一天上午已過去大半,你方與敵方之間的戰鬥又重新開始。
6.49.25
श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम् ।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ ६.४९.२५ ॥
见毗罗吒的统帅白天已被杀死,又见沙利耶与顺军(Kṛtavarman)同在,岿然屹立——
6.49.26
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ।
स विस्फार्य महच्चापं शक्रचापोपमं बली ॥ ६.४९.२६ ॥
商迦因愤怒而燃烧,如同浇以酥油的祭火;那勇猛者张开了巨大的弓,如同因陀罗之弓(彩虹)。
6.49.27
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं युधि ।
महता रथसङ्घेन समन्तात्परिरक्षितः ॥ ६.४९.२७ ॥
他想要在战斗中杀死摩德罗国王沙利耶,便向他冲去,四面被大量战车护卫着。
6.49.28
सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ।
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ॥ ६.४९.२८ ॥
他放出如雨的箭,朝沙利耶的战车前进;见他以发狂大象般的威势冲来——
6.49.29
तावकानां रथाः सप्त समन्तात्पर्यवारयन् ।
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ ६.४९.२९ ॥
您一方的七位车战勇士从四面包围了摩德罗国王,想要保护这位已陷入死亡之齿之间的人。
6.49.30
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः ।
तथा रुक्मरथो राजन्पुत्रः शल्यस्य मानितः ॥ ६.४९.३० ॥
憍萨罗的大力王、摩揭陀的胜军,还有,大王啊,受人尊敬的沙利耶之子——鲁迦罗陀——
6.49.31
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणःक ।
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥ ६.४९.३१ ॥
阿完底的两位王子毗湄陀与阿奴毗湄陀,甘菩阇王苏达叉那,以及布利诃特刹特拉之子、信度王胜车。
6.49.32
नानाधातुविचित्राणि कार्मुकाणि महात्मनाम् ।
विस्फारितान्यदृश्यन्त तोयदेष्विव विद्युतः ॥ ६.४९.३२ ॥
诸大人的弓以多种金属装饰得五彩斑斓,拉开时如云中闪电般耀眼。
6.49.33
ते तु बाणमयं वर्षं शङ्खमूर्ध्निं न्यपातयन् ।
निदाघान्तेऽनिलोद्धृता मेघा इव नगे जलम् ॥ ६.४९.३३ ॥
他们向商佉头上倾泻箭雨,如同夏末被风吹起的云向山上倾洒雨水。
6.49.34
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः ।
धनूंषि तेषामाच्छिद्य ननर्द पृतनापतिः ॥ ६.४९.३४ ॥
于是怒气冲冲的大弓箭手、军队统帅,以七支锋利的阔头箭斩断他们的弓,并大声吼叫。
6.49.35
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा ।
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥ ६.४९.३५ ॥
于是大臂的毗湿摩如雨云般咆哮,持起一张高如棕榈的大弓,在战场上向商佉冲去。
6.49.36
तमुद्यन्तमुदीक्ष्याथ महेष्वासं महाबलम् ।
संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ ६.४९.३६ ॥
看到那位大弓箭手、大力者起身冲来,般度之军十分恐惧,如船只被强风撞击一般。
6.49.37
ततोऽर्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः ।
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥ ६.४९.३७ ॥
于是阿周那急忙走到商佉的前面,心想:“今天必须保护他不受毗湿摩伤害。”于是战斗开始了。
6.49.38
हाहाकारो महानासीद्योधानां युधि युध्यताम् ।
तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः ॥ ६.४९.३८ ॥
战斗中的武士们发出巨大的哀叹声。“光辉与光辉相融”,他们因此陷入惊异。
6.49.39
अथ शल्यो गदापाणिरवतीर्य महारथात् ।
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥ ६.४९.३९ ॥
于是沙利耶手持鉄锤,从大战车上跳下,击杀了商佉的四匹马,婆罗多族之牛啊。
6.49.40
स हताश्वाद्रथात्तूर्णं खङ्गमादाय विद्रुतः ।
बीभत्सोश्च रथं प्राप्य पुनः शान्तिमविन्दत ॥ ६.४९.४० ॥
马匹被杀后,他手持剑从战车上迅速逃走,到达毗跋蹉(阿周那)的战车后,又重新获得了安宁。
6.49.41
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः ।
यैरन्तरीक्षं भूमिश्च सर्वतः समवस्तृता ॥ ६.४९.४१ ॥
于是从毗湿摩的战车上,有羽箭迅速飞起,天空与大地四面八方都被覆盖。
6.49.42
पञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् ।
भीष्मः प्रहरतां श्रेष्ठः पातयामास पत्रिभिः ॥ ६.४९.४२ ॥
击者中最优秀的毗湿摩,用箭射倒了般遮罗、摩蹉、家迦耶和普罗跋德拉迦。
6.49.43
उत्सृज्य समरे राजन्पाण्डवं सव्यसाचिनम् ।
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ॥ ६.४९.४३ ॥
啊,国王!他离开战场上的般度之子萨维亚萨钦(阿周那),冲向被军队包围的般遮罗王德鲁帕达。
6.49.44
प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून् ।
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये ॥ ६.४९.४४ ॥
啊,国王!他向他所爱的亲属(德鲁帕达)射出无数箭矢,如同冬季末尾被火烧毁的森林。
6.49.45
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह ।
अत्यतिष्ठद्रणे भीष्मो विधूम इव पावकः ॥ ६.४९.४५ ॥
德鲁帕达的军队显得被箭焚毁;而在战斗中,毗湿摩如同无烟之火般屹立。
6.49.46
मध्यन्दिने यथाऽऽदित्यं तपन्तमिव तेजसा ।
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥ ६.४९.४६ ॥
如同正午以光芒灼烧的太阳,般度一方的战士无法直视毗湿摩。
6.49.47
वीक्षांचक्रुः समंतात्ते पाण्डवा भयपीडिताः ।
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ ६.४९.४७ ॥
般度之子们被恐惧所困,四处张望,却找不到保护者,犹如被寒冷折磨的牛群。
6.49.48
सा तु यौधिष्ठिरी सेना गाङ्गेयशरपीडिता ।
सिंहेनेव विनिर्भिन्ना शुक्ला गौरिव गोपतेः ॥ ६.४९.४८ ॥
那支被恒河之子(毗湿摩)之箭折磨的般度长子的军队,如同牧主的白牛被狮子撕裂一般四散崩溃。
6.49.49
हते विप्रुद्रुते सैन्ये निरुत्साहे विमर्दिते ।
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥ ६.४९.४९ ॥
军队被杀、溃散、失去斗志并被践踏之时,般度军中响起了巨大的哀号之声,婆罗多啊。
6.49.50
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ ६.४९.५० ॥
于是,常以圆形张弓的山塘之子毗湿摩,射出尖端燃烧的箭,如同毒蛇。
6.49.51
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।
जघान पाण्डवरथानादिश्यादिश्य भारत ॥ ६.४९.५१ ॥
以箭使四方化为一条通道,坚守誓愿,他不断瞄准每一方向,击杀般度之子的战车,婆罗多啊。
6.49.52
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः ।
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन ॥ ६.४९.५२ ॥
当各方军队皆被击溃、践踏,太阳已落下时,便什么也分辨不出了。
6.49.53
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे ।
अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥ ६.४९.५३ ॥
在大战中见毗湿摩猛烈地冲杀,普利塔之子便让军队撤退,婆罗多族中的雄牛啊。