摩诃婆罗多 · 章 6.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.5.1
नदीनां पर्वतानां च नामधेयानि संजय ।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥ ६.५.१ ॥
桑闍耶啊,请说出河流、山岳、国土的名称,以及依托大地而居的其他人的名称。
6.5.2
प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः ।
निखिलेन समाचक्ष्व काननानि च संजय ॥ ६.५.२ ॥
知晓度量的桑闍耶啊,请完整地描述我大地四方的广度,以及其中的森林。
6.5.3
पञ्चेमानि महाराज महाभूतानि संग्रहात् ।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥ ६.५.३ ॥
大王啊,简要而言,这便是五大元素;凡在世间存在的一切,智者说都与之相同。
6.5.4
भूमिरापस्तथा वायुरग्निराकाशमेव च ।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥ ६.५.४ ॥
地、水、风、火,以及虚空;这些依次各具更多的性质,其中地居首位。
6.5.5
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिःक ॥ ६.५.५ ॥
声、触、色、味,第五是香:这些便是地的性质,为知晓真理的仙人所说。
6.5.6
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते ।
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।
शब्दः स्पर्शश्च वायौ द्वौ अकाशे शब्द एव तु ॥ ६.५.६ ॥
大王啊,水有四种性质,其中没有香;声、触、色是火的三种性质;风有声与触两种;虚空则唯有声。
6.5.7
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु ।
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ॥ ६.५.७ ॥
大王啊,这五种性质存在于五大元素之中,存在于一切世界之中,众生依之而立。
6.5.8
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ॥ ६.५.८ ॥
当它们互不胜过、趋于平衡之时。
6.5.9
यदा तु विषमीभावमाविशन्ति परस्परम् ।
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥ ६.५.९ ॥
然而当它们相互陷入失衡之时,有身众生便与身体一同以种种形态显现,别无他途。
6.5.10
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः ।
सर्वाम्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥ ६.५.१० ॥
依次毁灭,依次生起;一切无量——这便是它们的主宰之形。
6.5.11
तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ६.५.११ ॥
处处可见由五大元素构成的成分;人们以推理将其宣说为证据。
6.5.12
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ।
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥ ६.५.१२ ॥
确有不可思议之法,不应以推理去证成之。超越自性者,即是不可思议的标志。
6.5.13
सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन ।
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥ ६.५.१३ ॥
库鲁之喜啊,我现在将描述苏达尔沙那岛。大王啊,这个圆形的岛屿如车轮般矗立。
6.5.14
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥ ६.५.१४ ॥
它被河流网络所覆盖,有如云朵般的山脉、形状各异的城市以及宜人的地区。
6.5.15
वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् ।
लवणेन समुद्रेण समन्तात्परिवारितः ॥ ६.५.१५ ॥
它拥有财富与五谷,树木开花结果;咸海从四面八方环绕着它。
6.5.16
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः ।
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥ ६.५.१६ ॥
正如人在镜中看见自己的面容,苏达尔沙那岛也显现于月轮之中。
6.5.17
द्विरशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् ।
द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान्।
सर्वौषधिसमापन्नः पर्वतैः परिवारितः ॥ ६.५.१७ ॥
其次是两倍大的普拉克沙岛;再两倍大的是广大的沙尔玛利岛;其两倍的是毕波罗岛,再两倍的是广大的吉舍岛。它拥有一切草药,被群山环绕。
6.5.18
आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते ।
ततोऽन्य उच्यते चायमेनं संक्षेपतः श्रृणु ॥ ६.५.१८ ॥
其次应知其他水域;其余的简略地说。接着又说另一处——请简要听来。