Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 6.51

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.51.1

क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव ।
रक्षमाणं महाघोरं पार्थेनामिततेजसा ॥ ६.५१.१ ॥

そのとき、あなたの息子は、無限の威光を持つパールタ(アルジュナ)が守る、打ち破りがたく極めて恐ろしいクラウンチャ陣形を見た。

6.51.2

आचार्यमुपसंगम्य कृपं शल्यं च पार्थिव ।
सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च ॥ ६.५१.२ ॥

王よ、師(ドローナ)のもとへ、クリパとシャリヤのもとへ、ソマダッタの息子(ブーリシュラヴァス)とヴィカルナのもとへ、そしてアシュヴァッターマンのもとへも近づいた。

6.51.3

दुःशाकसनादीन्भ्रातॄंश्च सर्वनेव च भारत ।
अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान् ॥ ६.५१.३ ॥

バラタの子孫よ、弟のドゥフシャーサナらのもとへ、そして皆のもとへ、また戦いのために集まった他の多くの勇士たちのもとへ。

6.51.4

प्राहेदं वचनं काले हर्षयंस्तनयस्तव ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ६.५१.४ ॥

ちょうどよい時に、あなたの息子は彼らを鼓舞しつつ、この言葉を告げた。「あなたがたは皆、様々な武器を手にし、戦いに長じている。」

6.51.5

एकैकशः समर्था हि यूयं सर्वे महारथाः ।
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः ॥ ६.५१.५ ॥

あなたがた一人ひとりが大戦車兵であり、戦場でパーンドゥの息子たちを軍勢もろとも討つことができる。まして団結すればなおさらだ。

6.51.6

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम् ॥ ६.५१.६ ॥

ビーシュマに守られる我らの軍勢は不十分であり、ビーマに守られる彼らの軍勢は十分である。

6.51.7

संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा ।
आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा ॥ ६.५१.७ ॥

サṃスターナ族、シューラセーナ族、ヴェートリカ族、クククラ族、そしてアーロチャカ族、トリガルタ族、マドラカ族、ヤヴァナ族もまた。

6.51.8

शत्रुंजयेन सहितास्तथा दुःशासनेन च ।
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः ॥ ६.५१.८ ॥

シャトルンジャヤ、ドゥフシャーサナ、英雄ヴィカルナ、そしてナンダとウパナンダとともに。

6.51.9

चित्रसेनेन सहिताः सहिताः पारिभद्रकैः ।
भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः ॥ ६.५१.९ ॥

チトラセーナおよびパーリバドラカとともに、軍を前に立て、ビーシュマを守れ。

6.51.10

ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष ।
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम् ॥ ६.५१.१० ॥

そのとき、尊き方よ、ビーシュマ、ドローナ、そしてあなたの息子たちは、パーンダヴァを阻む大陣を組んだ。

6.51.11

भीष्मः सैन्येन महता समनन्तात्परिवारितः ।
ययौ प्रकर्षन्महतीं वाहिनीं सरराडिव ॥ ६.५१.११ ॥

四方を大軍に囲まれたビーシュマは、川の王なる大海のように、巨大な軍勢を率いて進んだ。

6.51.12

तमन्वायान्महेष्वासो भारद्वाजः प्रतापवान् ।
कुन्तलैश्च दशार्णैश्च मागधैश्च विशांपते ॥ ६.५१.१२ ॥

人民の主よ、大弓の名手であり威勢ある バーラドヴァージャ(ドローナ)が、クンタラ族、ダシャールナ族、マーガダ族とともに彼の後に続いた。

6.51.13

विदमर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि ।
सहिताः सर्वसैन्येन भीष्ममहावशोभिनम् ॥ ६.५१.१३ ॥

ヴィダルバ、メーカラ、カルナプラーヴァラナの人々もまた全軍と合流し、大戦で輝くビーシュマを取り囲んだ。

6.51.14

गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः ।
शकुनिश्च स्वसैन्येन भीष्ममाहवशोभिनम् ॥ ६.५१.१४ ॥

ガーンダーラ、シンドゥとサウヴィーラ、シビ、そしてヴァサーティ、さらにシャクニが自軍を率いて、戦いで輝くビーシュマのそばに立った。

6.51.15

ततो दुर्योधनो राजा सहितः सर्वसोदरैः ।
अश्वातर्केर्विकर्णैश्च तथा चाम्बष्ठकोसलैः ॥ ६.५१.१५ ॥

そこで王ドゥルヨーダナは全ての兄弟とともに、アシュヴァータルカ、ヴィカルナ、そしてアンバシュタとコーサラの人々と共に進み出た。

6.51.16

दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः ।
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम् ॥ ६.५१.१६ ॥

喜び勇んで、ダラダ、サカ、そしてクシュドラカとマーラヴァの人々とともに、スバラの子シャクニの軍を守った。

6.51.17

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिषः ।
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन् ॥ ६.५१.१७ ॥

ブーリシュラヴァス、シャラ、シャリャ、バガダッタ、尊き者マーリシャ、アヴァンティのヴィンダとアヌヴィンダが左翼を守った。

6.51.18

सौमदत्तिः सुशर्मा च काम्भोजश्च सुदक्षिणः ।
श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिताः ॥ ६.५१.१८ ॥

ソーマダッタの子、スシャルマン、カンボージャのスダクシナ、シュルターユスとアチュターユスが右翼に陣取った。

6.51.19

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
महत्या सेनया सार्धं सेनापृष्टे व्यवस्थिताः ॥ ६.५१.१९ ॥

アシュヴァッターマン、クリパ、サートヴァタ族のクリタヴァルマンは大軍とともに軍の後背に布陣していた。

6.51.20

पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः ।
केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ ६.५१.२० ॥

その軍の後衛を守る者は、様々な地方の人の王たちであった。ケトゥマーン、ヴァスダーナ、そしてカーシャの子アビブーである。

6.51.21

ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत ।
दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांस्तथोन्नदन् ॥ ६.५१.२१ ॥

そして、バーラタよ、あなたの者たちは皆喜び勇んで戦いのために法螺貝を吹き鳴らし、獅子吼をあげた。

6.51.22

तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ ६.५१.२२ ॥

彼らの歓声を聞き、クル族の老祖父は威勢よく高らかに獅子吼をあげ、法螺貝を吹き鳴らした。

6.51.23

ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः ।
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ ६.५१.२३ ॥

そして敵方によって法螺貝、大太鼓、小太鼓、そしてさまざまな太鼓が打ち鳴らされ、その音は轟きわたった。

6.51.24

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ ॥ ६.५१.२४ ॥

すると、白馬に引かれた大きな戦車に立つ二人は、金と宝石で飾られた優れた法螺貝を吹き鳴らした。

6.51.25

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ ६.५१.२५ ॥

フリシーケーシャは パーンチャジャンニャを、ダナンジャヤは デーヴァダッタを、恐るべき行いのヴリコーダラは パウンドラという大法螺貝を吹いた。

6.51.26

अन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ ६.५१.२६ ॥

王、クンティーの子ユディシュティラはアナンタヴィジャヤを、ナクラとサハデーヴァはスgames ゴーシャとマニプシュパカを吹いた。

6.51.27

काशिराजश्च शैब्यश्च शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥ ६.५१.२७ ॥

カーシーの王、シャイビヤ、大戦車兵シカンディン、ドリシュタデュムナ、ヴィラータ、そして大戦車兵サーティヤキ。

6.51.28

पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः ।
सर्वे दध्युर्महाशङ्खान्सिंहनादांश्च नेदिरे ॥ ६.५१.२८ ॥

パーンチャーラの大弓使いたちとドラウパディーの五人の息子たちは皆、大法螺貝を吹き鳴らし、獅子のように吠えた。

6.51.29

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ ६.५१.२९ ॥

英雄たちが響かせたその大音響は、天と地を轟かせる騒がしい響きとなった。

6.51.30

एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः ।
पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम् ॥ ६.५१.३० ॥

このように、大王よ、喜び勇んだクル族とパーンダヴァ族は、再び戦いのために互いを燃え立たせつつ相まみえた。