摩诃婆罗多 · 章 6.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.52.1
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च ।
कथं प्रहरतां श्रेष्ठाः संप्रहारं प्रचक्रिरे ॥ ६.५२.१ ॥
如此,当我方与敌方的军队都布成阵列时,那些善于攻击的最优秀者是如何展开交战的?
6.52.2
तथा व्यूढेष्वनीकेषु सन्नद्धरुचिरध्वजाः ।
तावकाः पाण्डवैः सार्धं यथाऽयुध्यन्त तच्छृणु।
अपारमिव संदृश्य सागरप्रतिमं बलम् ॥ ६.५२.२ ॥
同样,当军队布阵完毕,你方身披铠甲、旗帜鲜明的战士与般度诸子如何交战,请听我说。望见那如大海般无边的军队——
6.52.3
तेषां मध्ये स्थितो राजन्पुत्रो दुर्योधनस्तव ।
अब्रवीत्तावकान्सर्वान्युद्ध्यध्वमिति दंशिताः ॥ ६.५२.३ ॥
君王啊,站在他们中间的你的儿子难敌,对所有披甲而跃跃欲试的部下说:“战斗吧!”
6.52.4
ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।
पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ ६.५२.४ ॥
他们心怀残酷,舍弃生命,人人高举旗帜,向般度诸子冲去。
6.52.5
ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ।
तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥ ६.५२.५ ॥
于是一场令人毛骨悚然的混乱大战爆发了,你方与敌方的战车与象军彼此交错。
6.52.6
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजिताःक ।
सन्निपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥ ६.५२.६ ॥
车兵射出的金羽利箭,磨得锋利,箭头从不钝挫,纷纷落在象与马身上。
6.52.7
तथा प्रवृत्ते संग्रामे धनुरुद्यम्य दंशितः ।
अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥ ६.५२.७ ॥
战斗如此开始,身披铠甲、举起弓的大臂勇士毗湿摩,以可怕的勇力冲了上去。
6.52.8
सौभद्रे भीमसेने च सात्यकौ च महारथे ।
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ॥ ६.५२.८ ॥
他朝向萨乌跋德罗(阿毗曼尤)、毗摩森、大车士萨提亚基、凯开耶、毗罗吒,以及普利沙塔之子达利什塔笈摩而去。
6.52.9
एतेषु नरवीरेषु चेदिमत्स्येषु चाभिभूः ।
ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥ ६.५२.९ ॥
在这些人中雄杰、在车底人与鱼人之中,不可战胜的老年库鲁祖父降下了箭雨。
6.52.10
अभिद्यत ततो व्यूहस्तस्मिन्वीरसमागमे ।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ ६.५२.१० ॥
于是在英雄的相遇中,阵形被打破,所有军队之间出现了巨大的混乱。
6.52.11
सादिनो ध्वजिनश्चैव हतप्रवरवाजिनः ।
विप्रद्रुतरथानीकाः समपद्यन्त पाण्डवाः ॥ ६.५२.११ ॥
骑兵与旗手,其上等良马已被杀死,车阵四散溃逃,般度之子们陷入了这样的境地。
6.52.12
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम् ।
वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥ ६.५२.१२ ॥
然而人中虎阿周那见到大车士毗湿摩,怒气冲冲地对筏尔施尼之后(克里希那)说:"驾车去祖父所在之处。"
6.52.13
एष भीष्मः सुसंक्रुद्धो वार्ष्णेय मम वाहिनीम् ।
नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥ ६.५२.१३ ॥
瓦尔什尼的后裔啊,这位极度愤怒、一心为难敌谋利的毗湿摩,必定会摧毁我的军队。
6.52.14
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन ।
धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥ ६.५२.१४ ॥
Janārdana啊,这里有德罗纳、克里巴、沙利耶和毗卡尔纳,还有以难敌为首聚集在一起的持国之子们。
6.52.15
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना ।
सोऽहं भीष्मं वधिष्यामि सैन्यहेतोर्जनार्दन ॥ ६.५२.१५ ॥
在坚定的射手保护下,他们将杀死般遮罗人;因此,Janārdana啊,为了军队,我将杀死毗湿摩。
6.52.16
तमब्रवीद्वासुदेवो यत्तो भव धनंजय ।
एष त्वां प्रापयिष्यामि पितामहरथं प्रति ॥ ६.५२.१६ ॥
瓦苏提婆对他说:“准备好,Dhanaṃjaya;我将把你带到祖父的战车前。”
6.52.17
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम् ।
प्रापयामास भीष्मस्य रथं प्रति जनेश्वर ॥ ६.५२.१७ ॥
说完这些,人主啊,沙吾利便将那辆举世闻名的战车驶向毗湿摩的战车。
6.52.18
चलद्बहुपातकेन बलाकावर्णवाजिना ।
समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥ ६.५२.१८ ॥
飘扬着许多旗幡,驾着鹭鸶色的骏马,高高竖起着巨大可怖、咆哮的猴子旗帜。
6.52.19
महता मेघनादेन रथेनामिततेजसा ।
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः ॥ ६.५२.१९ ॥
这位光辉无量的般度之子,乘着如雷云般轰鸣的大战车,正在歼灭俱卢军和舒罗森人。
6.52.20
प्रायाच्छरणदः शीघ्रं सुहृदां हर्षवर्धनः ।
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ॥ ६.५२.२० ॥
施予庇护、增添朋友喜悦的(克里希那)迅速前进;迎向那疾速冲来的(阿周那),如同发情的象。
6.52.21
त्रसयनतं रणे शूरान्मर्दयन्तं च सायकैः ।
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः ।
सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ॥ ६.५२.२१ ॥
面对那在战场上使英雄们恐惧、以箭摧毁他们的阿周那,参与保护的有信度族首领以及东方、索维罗与柯迦耶诸王;莎ntanu之子毗湿摩突然挺身迎战阿周那。
6.52.22
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात् ।
द्रोणवैकर्तनाभ्यां वा रथी संयातुमर्हति ॥ ६.५२.२२ ॥
除了俱卢族的祖父毗湿摩,还有谁能与持甘提婆弓的阿周那交战?或者除了德罗纳与迦尔纳?
6.52.23
ततो भीष्मो महाराज सर्वलोकमहारथः ।
अर्जुनं सप्ततसप्तत्या नाराचानां समाचिनोत् ॥ ६.५२.२३ ॥
大王啊,那位雄踞三界的大战车勇士毗湿摩,便以四百九十支铁箭,每次七十支,将阿周那覆盖。
6.52.24
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः ।
दुर्योधनश्रतुःषष्ट्या शल्यश्च नवभिः शरैः ॥ ६.५२.२४ ॥
德罗纳以二十五支箭,克里巴以五十支,难敌以六十四支,沙利耶以九支箭射击阿周那。
6.52.25
सैन्धवो नवभिश्चैव शकुनिश्चापि पञ्चभिः ।
विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥ ६.५२.२५ ॥
信度王以九箭,沙古尼亦以五箭,毗迦尔纳以十支阔头箭,大王啊,刺伤了般度之子。
6.52.26
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः ।
न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥ ६.५२.२६ ॥
被那些利箭从四面射中,这位大弓手、大臂者并未动摇,犹如山岳被劈裂而不动。
6.52.27
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः ।
द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥ ६.५२.२७ ॥
那位人中虎以二十五箭射中毗湿摩,以九箭射中克利帕,以六十箭射中德罗纳,以三箭射中毗迦尔纳。
6.52.28
शल्यं चैव त्रिभिर्बाणै राजानं चैव पञ्चभिः ।
प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥ ६.५२.२८ ॥
以三箭射沙利耶,以五箭射国王,无量心的基利延(阿周那)反击,婆罗多之牛啊。
6.52.29
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः ।
सौभद्रो द्रौपदेयाश्च परिवव्रुर्धनंजयम् ॥ ६.५२.२९ ॥
萨提亚基、毗罗吒、德里斯塔笃姆那、普里沙塔之子、苏跋陀罗之子及德罗波蒂之子,包围了财富征服者。
6.52.30
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम् ।
अभ्यवर्तत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥ ६.५२.३० ॥
于是般遮罗王子与苏摩迦人会合,向伟大的弓手德罗纳进发,他是甘伽之子(毗湿摩)所钟爱的。
6.52.31
भीष्मस्तु रथिनां श्रेष्ठो राजन्विव्याध पाण्डवम् ।
अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त पाण्डवाः ॥ ६.५२.३१ ॥
车战勇士中最优秀的毗湿摩啊,大王,以八十支锐利的箭射穿了般杜之子,于是般度诸子呼喊起来。
6.52.32
तेषां तु निनदं श्रुत्वा सहितानां प्रहृष्टवत् ।
प्रविवेश ततो मध्यं नरसिंहः प्रतापवान् ॥ ६.५२.३२ ॥
听到他们的呼喊,仿佛欢喜,威武的人中狮子便冲入了聚集者的中央。
6.52.33
तेषां महारथानां स मध्यं प्राप्य धनंजयः ।
चिक्रीड धनुषा राजँल्लक्षं कृत्वा महारथान् ॥ ६.५२.३३ ॥
财富征服者到达那些大车将的中央,大王啊,以大车将为靶子,用弓进行了一场射击游戏。
6.52.34
क्षत्रियाणां शिरांस्युग्रैः कृन्तञ्शस्त्रैर्महारथः ।
शून्यान्कृत्वा रथोपस्थान्व्यचरत्फल्गुनस्तदा । ॥ ६.५२.३४ ॥
用凶猛的武器斩下刹帝利的头颅,使战车的座位空无一人,那时大车将拨勒古那便四处行进。
6.52.35
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः ।
पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥ ६.५२.३५ ॥
那时,人主难敌见自己的军队在战斗中被般度之子所压迫,便对毗湿摩说道。
6.52.36
एष पाण्डुसुतस्तात कृष्णेन सहितो बली ।
यततां सर्वसैन्यानां मूलं नः परिकृन्तति।
त्वयि जीवति गाङ्गेय द्रोणे च रथिनां वरे ॥ ६.५२.३६ ॥
这位与黑天同行的强大般度之子,正在斩断我方一切作战军队的根基。啊,恒河之子,只要你还活着,而车战勇士中最优秀的德罗纳也还在——
6.52.37
त्वत्कृते चैव कर्णोऽपि न्यस्तशस्त्रो विशांपते ।
न युध्यति रणे पार्थान्हितकामः सदा मम।
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः ॥ ६.५२.३७ ॥
为了你,迦尔纳也放下了武器,人主啊。他出于愿我好的心意,在战场上从不与普利塔之子作战。所以,恒河之子啊,请设法让法尔古那(阿周那)被杀。
6.52.38
एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ।
धिक् क्षात्रं धर्ममित्युक्त्वा प्रायात्पार्थं रथं प्रति ॥ ६.५२.३८ ॥
如此被说之后,国王啊,你的父亲提婆跋罗多说:“刹帝利之法可耻!”便向普利塔之子的战车走去。
6.52.39
उभौ श्वेतहयौ राजन्संसक्तौ प्रेक्ष्य पार्थिवाः ।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च मारिषत ॥ ६.५२.३९ ॥
国王啊,诸王见那两位白马之车相互纠缠,便大声发出狮吼,并吹响海螺,主啊。
6.52.40
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः ।
परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥ ६.५२.४० ॥
德罗纳之子、难敌,以及你的儿子毗迦尔纳,主啊,在战场上围绕毗湿摩站立,准备战斗。
6.52.41
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम् ।
स्थिता युद्धाय महते ततो युद्धमवर्तत ॥ ६.५२.४१ ॥
同样,所有般度之子围绕财富征服者(阿周那)站立,准备大战;于是战斗开始了。
6.52.42
गाङ्गेयस्तु रणे पार्थमानर्च्छन्नवभिः शरैः ।
तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मभेदिभिः ॥ ६.५२.४२ ॥
然而恒河之子(毗湿摩)在战斗中以九支箭射中普利塔之子(阿周那);阿周那以十支穿透要害的箭还击。
6.52.43
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।
अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥ ६.५२.४३ ॥
于是以善于战斗而自傲的般度之子阿周那,用千支善发之箭遮断了毗湿摩的四方。
6.52.44
शरजालं ततस्तत्तु शरजालेन मारिष ।
वारयामास पार्थस्य भीष्मः शान्तनवस्तदा ॥ ६.५२.४४ ॥
主君啊,那时享努之子毗湿摩以自己的箭网,挡住了那张来自普利塔之子的箭网。
6.52.45
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ ।
निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥ ६.५२.४५ ॥
二人皆大欢喜,皆喜爱战斗,无分高下地交战,各自求以牙还牙。
6.52.46
भीष्मचापविमुक्तानि शरजालानि शङ्घशः ।
शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैःक ॥ ६.५२.४६ ॥
毗湿摩弓上射出的箭网,成百上千地被阿周那的箭矢击碎,纷纷坠落。
6.52.47
तथैवार्जुनमुक्तानि शरजालानि सर्वशः ।
गाङ्गेयशरनुन्नानि प्रापतन्त महीतले ॥ ६.५२.४७ ॥
同样,阿周那所射的箭网,被甘伽之子从四面八方的箭矢击中,纷纷坠落于大地。
6.52.48
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः ।
भीष्मोपि समरे पार्थं विव्याध निशितैः शरैः । ॥ ६.५२.४८ ॥
阿周那以二十五支利箭射中毗湿摩,毗湿摩也在战斗中以锐利之箭射穿了普利塔之子。
6.52.49
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ ।
रथेषां रथचक्रे च चिक्रीडतुररिन्दमौ ॥ ६.५२.४९ ॥
二人互相射中对方的马匹,以及两面极为强大的旗帜和众车士的车轮,这两位降伏敌人者如同游戏般地交锋。
6.52.50
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः ।
वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥ ६.५२.५० ॥
于是,大王啊,愤怒的毗湿摩——攻击者中的最优者——用三支箭射中了筏素提婆(克里希纳)的胸膛中央。
6.52.51
भीष्मचापच्युतैस्तैस्तु निर्विद्धो मधुसूदनः ।
विरराज रणे राजन्सपुष्प इव किंशुकः ॥ ६.५२.५१ ॥
被毗湿摩之弓射出的那些箭所贯穿的摩杜苏陀那,大王啊,在战场上闪耀,如同开满花的金苏卡树。
6.52.52
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम् ।
सारथिं कुरुवृद्धस्य निर्बिभेद शितैः शरैः ॥ ६.५२.५२ ॥
于是阿周那见摩陀婆受伤,极为愤怒,用利箭射穿了库鲁长者(毗湿摩)的御者。
6.52.53
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति ।
न शक्नुतां तदाऽन्योन्यमभिसन्धातुमाहवे ॥ ६.५२.५३ ॥
那两位英雄虽都力求对方死亡,但在战斗中当时却无法瞄准彼此、互相击中。
6.52.54
तौ मण्डलानि चित्राणि गतत्प्रत्यागतानि च ।
अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥ ६.५२.५४ ॥
凭借御者的技艺与敏捷,二人以多种方式展示了前进后退、回旋盘绕的奇妙车阵运动。
6.52.55
अन्तरं च प्रहारेषु तर्कयन्तौ परस्परम् ।
राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥ ६.५२.५५ ॥
两人在攻击之间寻找空隙,彼此注视。大王啊,他们站在中间的路径上,一次又一次地停留。
6.52.56
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं च चक्रतुः ।
तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥ ६.५२.५६ ॥
两人吹响混合着狮吼的海螺声;那两位大车将也同样发出弓弦的嗡鸣。
6.52.57
तयोः शङ्खनिनादेन रथनेमिस्वनेन च ।
दारिता सहसा भूमिश्चकम्पे च ननाद च ॥ ६.५२.५७ ॥
随着他们的海螺声和战车轮辋的隆隆声,大地骤然仿佛裂开,颤抖并轰鸣起来。
6.52.58
नोभयोरन्तरं कश्चिद्ददृशे भरतर्षभ ।
बलिनौ युद्धदुर्धर्षावन्योन्यसदृशावुभौ ॥ ६.५२.५८ ॥
婆罗多族的雄牛啊,二人之间看不出任何差别;两人都强大,在战斗中难以抵挡,彼此相当。
6.52.59
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः ।
तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरेक ॥ ६.५२.५९ ॥
那里,俱卢族仅凭标记便认出了毗湿摩;同样,般度之子也仅凭标记便认出了般若(阿周那)。
6.52.60
तयोर्नृवरयोर्दृष्ट्वा तादृशं तं पराक्रमम् ।
विस्कमयं सर्वभूतानि जग्मुर्भारतसंयुगे ॥ ६.५२.६० ॥
看见那两位人中俊杰如此的勇武,婆罗多之战中的一切众生都充满了惊异。
6.52.61
न तयोर्विवरं कश्चिद्रणे पश्यति भारत ।
धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥ ६.५२.६१ ॥
婆罗多啊,战场上没有人看出他们二人有任何破绽,正如安住于法者身上从来没有过失。
6.52.62
उभौ च शरजालेन तावदृश्यो बभूवतुः ।
प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥ ६.५२.६२ ॥
战斗中,二人都被箭网遮蔽而不见,随后很快又都显现出来。
6.52.63
तत्र देवाः सगन्धर्वाश्चारणाश्चर्षिभिः सह ।
अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥ ६.५२.६३ ॥
那时,诸神与乾闼婆、持明及仙人们看见二人的威勇,彼此交谈起来。
6.52.64
न शक्यौ युधि संरब्धौ जेतुमेतौ कथंचन ।
सदेवासुरगन्धर्वैर्लोकैरपि महारथौ ॥ ६.५२.६४ ॥
这两位在战斗中愤怒的大车将,无论如何都无法战胜,即使诸神、阿修罗、乾闼婆及一切世界联合起来也不能。
6.52.65
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम् ।
नैतादृशानि युद्धानि भविष्यन्ति कथंचन ॥ ६.५२.६५ ॥
此战在世间是一桩奇事,极其奇妙;这样的战斗今后绝不会再发生。
6.52.66
न हि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता ।
सधनुः सरथः साश्वः प्रवपन्सायकान्रणे ॥ ६.५२.६६ ॥
即便智慧的般度之子(阿周那)持弓、乘车、驾马,在战斗中倾泻箭雨,也无法在战场上战胜毗湿摩。
6.52.67
तथैव पाण्डवं युद्धे देवैरपि दुरासदम् ।
न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥ ६.५२.६७ ॥
同样,毗湿摩不敢在战场上战胜这位连诸神也难以抵挡的般度之子、弓箭手。
6.52.68
आलोकादपि युद्धं हि सममेतद्भविष्यति ।
इति स्म वाचोऽश्रूयन्त प्रोच्चरन्त्यकस्ततस्ततः।
गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशांपते ॥ ६.५२.६८ ॥
"仅凭观看,这场战斗也将势均力敌"——这样的话语四处传来,人们高声呼喊。啊,人主,在甘伽之子与阿周那的战斗中,充满赞颂的声音响起。
6.52.69
त्वदीयास्तु तदा योधाः पाण्डवेयाश्च भारत ।
अन्योन्यं समरे जघ्नुस्तयोस्तत्र समागमे ॥ ६.५२.६९ ॥
啊,婆罗多,那时你方的战士与般度子的战士在那次交锋中于战场上彼此击杀。
6.52.70
शितधारैस्तथा स्वङ्गैर्विमलैश्च परश्वधैः ।
शरैरन्यैश्च बहुभिः सस्त्रैर्नानाविधैरपि ॥ ६.५२.७० ॥
用锋利的刀刃、良好的剑、明亮的斧,以及箭矢和其他多种多样的武器。
6.52.71
उभयोः सेनयोः शूरा न्यकृन्तन्त परस्परम् ।
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे।
द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥ ६.५२.७१ ॥
两军的英雄彼此砍杀。在那场可怕而极为惨烈的战斗进行之时,啊,王者,德罗纳与般遮罗之子之间发生了一场大交锋。