摩诃婆罗多 · 章 6.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.53.1
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः ।
उभौ समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ॥ ६.५३.१ ॥
大弓箭手德罗纳与般遮罗王子、弗栗沙之子猛光,二人皆欲交战,他们是如何相遇的?声爱啊,请告诉我。
6.53.2
दिष्टमेव परं मन्ये पौरुषादिति मे मतिः ।
यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ॥ ६.५३.२ ॥
我认为命运胜过人力,因为在战场上,山塔努之子毗湿摩未能胜过般度之子。
6.53.3
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् ।
स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा ॥ ६.५३.३ ॥
毗湿摩在战场上若是愤怒,便能毁灭一切动与不动的世界。声爱啊,那他凭借自己的威力,为何在战场上未能胜过般度之子?
6.53.4
श्रृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् ।
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ ६.५३.४ ॥
大王,请镇定地听我说。这场战斗极其惨烈。即使诸神与因陀罗同在,也无法战胜般度之子。
6.53.5
द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमविध्यत ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ ६.५३.५ ॥
德罗纳以利箭射中猛光,并以阔刃箭将其御者从车座上射落。
6.53.6
तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः ।
पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष ॥ ६.५३.६ ॥
同样,先生,他怒不可遏,以四支上好的箭射伤了猛光的四匹马。
6.53.7
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः ।
विव्याध प्रहसन्वीरस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ६.५३.७ ॥
于是英雄德律什塔德尤姆那笑着用九十支利箭射穿德罗纳,并说道:「站住,站住!」
6.53.8
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् ।
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ॥ ६.५३.८ ॥
于是灵魂无量、威力强大的婆罗堕遮之子(德罗纳)用箭将愤怒的德律什塔德尤姆那遮蔽。
6.53.9
आददे च शरं घोरं पार्षतान्तचिकीर्षकया ।
शक्राशनिसमस्पर्शं कालदण्डमिवापरम् ॥ ६.५३.९ ॥
他想要结束普利沙塔之子的性命,于是取出一支可怕的箭,其触感如因陀罗的金刚杵,仿佛另一根死神之杖。
6.53.10
हाहाकारो महानासीत्सर्वसैन्येषु भारत ।
तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे ॥ ६.५३.१० ॥
婆罗多的后裔啊!看见婆罗堕遮之子在战斗中搭上那支箭,所有军队中都爆发出巨大的惊呼。
6.53.11
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् ।
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥ ६.५३.११ ॥
在那里,我们目睹了德律什塔德尤姆那英勇的奇迹:那位英雄独自立于战场,如山岳般岿然不动。
6.53.12
तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः ।
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥ ६.५३.१२ ॥
他斩断了那支燃烧着、可怕的、如同自己死亡般逼来的箭,并向婆罗堕遮之子倾泻箭雨。
6.53.13
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह ।
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ ६.५३.१३ ॥
于是所有般遮罗人与般度诸子一同高声喊叫,见到德里湿陀衍那做出的这一极其艰难之举。
6.53.14
ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् ।
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥ ६.५३.१४ ॥
于是那渴望杀死德罗纳的勇士,投出了一支速度极快、以黄金和青玉装饰的标枪。
6.53.15
तामापतन्तीं सहसा शक्तिं कनकभूषिताम् ।
त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव ॥ ६.५३.१५ ॥
那支饰以黄金、突然扑来的标枪,婆罗堕迦之子在战斗中仿佛含笑般将其斩为三段。
6.53.16
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतपवान् ।
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वरः ॥ ६.५३.१६ ॥
看到标枪被摧毁,光辉威猛的德里湿陀衍那,哦人主,向德罗纳倾泻箭雨。
6.53.17
शरवर्षं ततस्तत्तु सन्निवार्य महायशाः ।
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥ ६.५३.१७ ॥
德罗纳将那箭雨全部挡下之后,这位大名鼎鼎的人,把德鲁波陀之子的弓从中间斩断。
6.53.18
स च्छिन्नधन्वा समरे गदां गुर्वी महायशाः ।
द्रोणाय प्रेषयामास गिरिसारमयीं बली ॥ ६.५३.१८ ॥
他的弓在战斗中被斩断后,这位强大而名声显赫的勇士向德罗纳投出一柄由山岩精铁制成的沉重铁锤。
6.53.19
सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया ।
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ॥ ६.५३.१९ ॥
那根以极大力量投出的狼牙棒,怀着杀死德罗纳的意图飞去。我们在那里目睹了婆罗堕阇(德罗纳)非凡的勇武。
6.53.20
लाघवाद्व्यंसयामास गदां हेमविभूषिताम् ।
व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम् ॥ ६.५३.२० ॥
他凭借敏捷将那根饰以黄金的狼牙棒格开,格开之后,又将它投向波沙塔之子(德里斯塔敦牟那)。
6.53.21
भल्लान्सुनिशितान्पीतातान्रुक्मपुङ्खान्सुदारुणान् ।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ ६.५३.२१ ॥
那些极其锋利、黄色、带金色箭羽、极为可怖的钩箭,穿透了他的铠甲,在战场上饮尽了他的鲜血。
6.53.22
अथान्यद्धनुरादाय धृष्टद्युम्नो महारथः ।
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ॥ ६.५३.२२ ॥
于是大车勇士德里斯塔敦牟那另取一张弓,在战场上勇敢上前,以五支箭射中了德罗纳。
6.53.23
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ ।
वसन्तसमये राजन्पुष्पिताविव किंशुकौ ॥ ६.५३.२३ ॥
那两位人中雄牛,浑身沾满鲜血,大王啊,闪耀如同春天盛开的金苏木树。
6.53.24
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे ।
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ॥ ६.५३.२४ ॥
于是,大王啊,德罗纳愤怒起来,在军阵前方勇猛推进,再次斩断了德鲁帕达之子的弓。
6.53.25
अथैनं छिन्नधन्वानं शरैः सन्नतपर्वभिः ।
अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥ ६.५३.२५ ॥
于是无量心的德罗纳用弯曲关节的箭矢向断弓者倾泻而下,如乌云向山峦降雨。
6.53.26
सारथिं चास्य भल्लेन रथनीजादपातयत् ।
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ ६.५३.२६ ॥
他又用一支钵罗箭将其御者从车座上射落;随后以四支锐箭射倒了他的四匹马。
6.53.27
पातयामास समरे सिंहनादं ननाद च ।
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥ ६.५३.२७ ॥
他在战斗中将其击倒,并如狮子般吼叫;随后又用一支钵罗箭斩断了他手中的弓。
6.53.28
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवारोहत्स्व्यापयन्पौरुषं महत् ॥ ६.५३.२८ ॥
他弓已断,无车,马与御者皆被杀,手持铁杵下车,保持着他伟大的勇气。
6.53.29
तामस्य विशिस्वैस्तूर्णं पातयामास भारत ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ ६.५३.२९ ॥
婆罗多之子啊,他用利箭迅速射落了那(铁杵);对于未曾下车之人而言,这似乎是奇异的。
6.53.30
ततः स विपुलं चर्म शतचन्द्रं च भानुमत् ।
खङ्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥ ६.५३.३० ॥
于是这位强壮、臂膀优美的勇士拿起了一面宽大、饰有百月、光芒四射的盾牌,以及一把宽大的神圣利剑。
6.53.31
अभिदुद्राव वेगेन द्रोणस्य वधाकाङ्क्षया ।
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥ ६.५३.३१ ॥
他急欲杀死德罗纳,迅猛地扑了上去,如同林中寻食的狮子扑向发狂的大象。
6.53.32
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ।
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥ ६.५३.३२ ॥
在那里,我们目睹了婆罗堕阇之子的非凡勇力、敏捷、运用武器的技艺,以及他双臂的力量,婆罗多之子啊。
6.53.33
यदेनं शरवर्षेण वारयामास पार्षतम् ।
न शशाक ततो गन्तुं बलवानपि संयुगे ॥ ६.५३.३३ ॥
因为他以箭雨阻挡了弗栗沙塔之子,所以这位强大的人在战斗中无法前进。
6.53.34
निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः ।
न्यावारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत् ॥ ६.५३.३४ ॥
尽管被德罗纳阻挡,大车将德里什塔德尤姆纳却如熟练的战士一般,用盾牌挡开了那些箭雨。
6.53.35
ततो भीमो महाबाहुः सहसाऽभ्यपतद्बली ।
साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ ६.५३.३५ ॥
于是臂力强大、威猛的怖军突然冲上前去,在战斗中援助伟大的弗栗沙塔之子。
6.53.36
स द्रोमं निशितैर्बाणै राजन्विव्याध सप्तभिः ।
पार्षतं च रथं तूर्णं स्वकमारोहयत्तदा ॥ ६.५३.३६ ॥
国王啊,他以七支锐利的箭射穿了德罗纳,随即将弗栗沙塔之子扶上了自己的战车。
6.53.37
ततो दुर्योधनो राजन्कलिङ्गं समचोदयत् ।
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥ ६.५३.३७ ॥
于是,大王啊,难敌派遣与庞大军队会合的羯陵伽人,去保护婆罗堕阁之子(德罗纳)。
6.53.38
ततः सा महती सेन कलिङ्गानां जनेश्वर ।
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥ ६.५३.३८ ॥
于是,人主啊,依你儿子的命令,羯陵伽人的那支大军迅速向毗摩进发。
6.53.39
पाञ्चाल्यमथ संत्यज्य द्रोणोऽपि रथिनां वरः ।
विराटद्रुपदौ वृद्धौ वारयामास संयुगे ॥ ६.५३.३९ ॥
随后,德罗纳舍弃了般遮罗军,这位车战勇士之最,在战斗中阻止了年迈的毗罗吒与德鲁帕达。
6.53.40
धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात् ।
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ ६.५३.४० ॥
猛光在战斗中也向法王(坚战)进发。随后,一场喧嚣、令人毛骨悚然的激战爆发了。
6.53.41
कलिङ्गानां च समरे भीष्मस्य च महात्मनः ।
जगतः प्रक्षयकरं घोररूपं भयावहम् ॥ ६.५३.४१ ॥
羯陵伽人与大慧毗湿摩之间的那场战斗,形貌可怖,足以毁灭世界,令人恐惧。