摩诃婆罗多 · 章 6.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.54.1
मम पुत्रसमादिष्टः कलिङ्गोः वाहिनीपतिः ।
कथमद्भुतकर्माणं भीमसेनं महाबलम् ॥ ६.५४.१ ॥
我儿所命令的羯陵军统帅,如何与行事奇妙、大力的毗摩森那交战?
6.54.2
चरन्तं गदया वीर दण्डहस्तमिवान्तकम् ।
योधयामास समरे कलिङ्गः सह सेनया ॥ ६.५४.२ ॥
勇士啊,羯陵与其军队在战场上与手持铁杵、如手持杖的死神般游走的毗摩森那交战。
6.54.3
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः ।
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ॥ ६.५४.३ ॥
诸王之主啊,你的儿子如此命令之后,那位大力者在大军的护卫下,朝毗摩的战车前进。
6.54.4
तामापतन्तीं महतीं कलिङ्गानां महाचमूम् ।
रथाश्वनागकलिलां प्रगृहीतमहायुधाम् ॥ ६.५४.४ ॥
那支庞大的羯陵大军,满载战车、战马与战象,高举巨大的兵器,向他们冲来。
6.54.5
भीमसेनः कलिङ्गानामार्च्छद्भारत वाहिनीम् ।
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः ॥ ६.५४.५ ॥
婆罗多啊,毗摩森那攻击羯陵之军,也攻击与车底人一同前来的鞞卡利摩与尼沙陀。
6.54.6
ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह ।
आससाद रणे भीमं व्यूढानीकेषु चेदिषु ॥ ६.५४.६ ॥
此时,极为愤怒的室鲁多阿由,与国王鞞卡利摩一起,在战斗中于排列成阵的车底军中接近毗摩。
6.54.7
रथैरनेकसाहस्रैः कलिङ्गानां नराधिप ।
अयुतेन गजानां च निषादैःक सह केतुमान् ॥ ६.५४.७ ॥
人主啊!与羯陵伽的数千辆战车、一万头象以及尼沙达人一同,罗摩之子(案:指)盖图曼前进。
6.54.8
भिमसेनं रणे राजन्समन्तात्पर्यवारयत् ।
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः ॥ ६.५४.८ ॥
大王!在战斗中,追随毗摩森那足迹的车底、鱼族与迦卢沙人从四面包围了毗摩森那。
6.54.9
अभ्यधावन्त समरे निषादान्सह राजभिः ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ ६.५४.९ ॥
战斗中,他们与诸王一同冲向尼沙达人。于是,一场可怕、令人恐惧的战斗开始了。
6.54.10
न प्राजानन्त योधाः स्वान्परस्परजिघांसया ।
घोरमासीत्ततो युद्धं भीमस्य सहसा परैः ॥ ६.५४.१० ॥
因彼此渴望杀戮,战士们甚至认不出自己人。于是,毗摩与敌人之间突然爆发了可怕的战斗。
6.54.11
यथेन्द्रस्य महाराज महत्या दैत्यसेनया ।
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत ॥ ६.५४.११ ॥
大王啊!正如因陀罗与其庞大的阿修罗军队交战一般,婆罗多啊!那支军队作战时也是如此。
6.54.12
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः ।
अन्योन्यं स्म तदा योधा विकर्षन्तो विशांपते ॥ ६.५४.१२ ॥
巨大的声音响起,如大海咆哮一般。人民之主啊!那时,战士们互相拉扯着厮杀。
6.54.13
महीं चक्रुश्चितां सर्वां शशलोहितसन्निभाम् ।
योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया ॥ ६.५४.१३ ॥
他们用堆积的尸体覆盖了整片大地,那片土地红得如同兔血;出于杀戮的欲望,他们连自己人和敌人都认不出了。
6.54.14
स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः ।
विमर्दः सुमहानासीदल्पानां बहुभिः सह ॥ ६.५४.१४ ॥
连自己人也被那些极难战胜的英雄抓住;少数人与众多人之间爆发了激烈的厮杀。
6.54.15
कलिङ्गैः सह चैदीनां निषादैश्च विशांपते ।
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः ॥ ६.५४.१५ ॥
人主啊!与羯陵伽、遮提及尼沙陀人一起,那些大力勇士竭尽所能地施展了英勇。
6.54.16
भीमसेनं परित्यज्य संन्यवर्तनक्त चेदयः ।
सर्वैः कलिङ्गैरासन्नः सन्निवृत्तेषु चेदिषु ॥ ६.५४.१६ ॥
遮提人抛弃了毗摩娑那而撤退;遮提人撤退后,所有羯陵伽人逼近并发动了攻击。
6.54.17
स्वबाहुबलमस्थाय अभ्यवर्षन्त पाण्डवम् ।
न चचाल रथोपस्थाद्भीमसेनो महाबलः ॥ ६.५४.१७ ॥
他们依仗自己臂膀的力量,向般度之子倾泻箭雨;然而大力的毗摩娑那连车座都没有挪动分毫。
6.54.18
शितैरवाकिरद्बाणैः कलिङ्गानां वरूथिनीम् ।
कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः ॥ ६.५४.१८ ॥
他以利箭遮蔽了羯陵伽的军队;然而那位羯陵伽的大弓箭手,以及他的儿子大车战士……
6.54.19
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः ।
ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः ॥ ६.५४.१९ ॥
名为舍克罗提婆者以箭射击般度之子(毗摩)。于是臂力强大的毗摩挥动他那华美的弓。
6.54.20
योधयामास कालिङ्गं स्वबाहुबलमाश्रितः ।
शक्रदेवस्तु समरे विसृजन्सायकान्बहून् ॥ ६.५४.२० ॥
他依仗自身臂力,与羯陵伽勇士交战。而舍克罗提婆在战场上射出了许多箭。
6.54.21
अश्वाञ्जघान समरे भीमसेनस्य सायकैः ।
तं दृष्ट्वा विरथं तत्र भीमसेनमरिन्दमम् ॥ ६.५४.२१ ॥
他在战斗中以箭射杀了毗摩军的马匹。见到失去战车的、能制伏敌人的毗摩军——
6.54.22
शक्रदेवोऽभिदुद्राव शरैरवकिरञ्सितैः ।
भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः ॥ ६.५४.२२ ॥
舍克罗提婆以利箭如雨般倾泻,冲向毗摩。啊,诸王之主!强大的舍克罗提婆对着毗摩——
6.54.23
ववर्ष शरवर्षाणि तपान्ते जलदो यथा ।
हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः ॥ ६.५४.२३ ॥
如同暑季末的云降雨,他倾泻箭雨。然而马匹已死,立于战车上的大力毗摩军——
6.54.24
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम् ।
स तया निहतो राजन्कालिङ्गतनयो रथात् ॥ ६.५४.२४ ॥
他朝舍克罗提婆投掷一柄全由钢铁铸成的铁杵。啊,国王!羯陵伽王之子便被这铁杵从战车上击杀。
6.54.25
विरथः सह सूतेन जगाम धरणीतलम् ।
कहतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः ॥ ६.५४.२५ ॥
他失去战车,与御者一同走下大地。看见自己的儿子被杀,这位羯陵伽之主。
6.54.26
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः ।
अयुतेन गजानां च निषादैः परिवारितः।
ततो भीमो महावेगां त्यक्त्वा गुर्वी महागदां ॥ ६.५४.२६ ॥
数千辆战车阻挡了毗摩的四方;他被一万头象和象夫包围,于是毗摩弃掉了他沉重而迅猛的大棍。
6.54.27
निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम् ।
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ ॥ ६.५४.२७ ॥
他拿起可怕的剑,想要做一件可怕的事;还有,国王啊,人中雄牛啊,那无与伦比的牛皮盾。
6.54.28
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम् ।
कालिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य च ॥ ६.५४.२८ ॥
那盾牌上以金制的星形与半月形装饰。于是羯陵伽王愤怒地拭净弓弦,
6.54.29
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम् ।
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः ॥ ६.५४.२९ ॥
他拿起一支可怕的箭,如同蛇毒,那人民之主渴望杀戮,将它射向毗摩森那。
6.54.30
तमापतन्तं वेगेन प्रेरितं निशितं शरम् ।
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना ॥ ६.५४.३० ॥
那支飞速而来的利箭,国王啊,毗摩森那以宽阔的剑将它一劈为二。
6.54.31
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम् ।
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे ॥ ६.५४.३१ ॥
他欢喜地大声呼喊,使军队惊恐。随后,愤怒的羯陵伽王在战斗中向毗摩色那冲去。
6.54.32
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान् ।
तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः ॥ ६.५४.३२ ॥
他迅速掷出十四支磨砺于石上的长矛;然而大臂的般度之子在它们到达之前,就在空中将其截住。
6.54.33
चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना ।
नित्यत्य तु रणे भीमस्तोमरान्वै चतुर्दश ॥ ६.५४.३३ ॥
大王,毗摩不慌不忙,立即以他的良剑在战斗中斩断了那十四支长矛。
6.54.34
भानुमन्तं ततो भीमः प्राद्रवत्पुरुषर्षभः ।
भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन् ॥ ६.५४.३४ ॥
于是人中之牛毗摩冲向婆奴摩特;婆奴摩特则以箭雨遮蔽毗摩,
6.54.35
ननाद बलवन्नादं नादयानो नभस्तलम् ।
न च तं ममृषे भीमः सिंहनादं महाहवे ॥ ६.५४.३५ ॥
毗摩猛烈咆哮,使天空回响;然而在这场大战中,毗摩不能容忍那狮吼。
6.54.36
ततः शब्देन महता विननाद महास्वनः ।
तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी ॥ ६.५४.३६ ॥
于是毗摩以巨大的声响猛烈咆哮;那咆哮令羯陵伽的军队惊恐万分。
6.54.37
न भीमं समरे मेने मानुषं भरतर्षभ ।
ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम् ॥ ६.५४.३७ ॥
婆罗多族的雄牛啊,他们在战场上并不把毗摩看作普通人。于是臂力强大的毗摩发出巨大的吼声。
6.54.38
सासिर्वेगवदाप्लुत्य दन्ताभ्यां वारणोत्तमम् ।
आरुरोह ततो मध्यं नागराजस्य मारिष ॥ ६.५४.३८ ॥
他手持利剑,迅速跃起,抓住那头最好的象的獠牙,攀上了它;然后,尊敬的人啊,他到达了象王的中部。
6.54.39
ततो मुमोच कालिङ्गः शक्तिं तामकरोद्द्वीधा ।
खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत् ॥ ६.५४.३९ ॥
于是羯陵伽勇士投出一支长矛,他用宽剑将其从中劈成两段,接着又从中间斩断了婆奴曼。
6.54.40
सोऽन्तरायुधिनं हत्वा राजपुत्रमरिन्दमः ।
गुरुभारसहे स्कन्धे नागस्यासिमपातयत् ॥ ६.५४.४० ॥
这位降伏敌人的勇士杀死了使用另一种武器的王子,然后用剑击打那头能承受沉重负荷的象的肩膀。
6.54.41
छिन्नस्कन्धः स विनदन्पपात गजयूथपः ।
आरुगणः सिन्धुवेगन सानुमानिव पर्वतः ॥ ६.५४.४१ ॥
那头被砍断肩膀的象群之王怒吼着倒下,恰如有峰顶的山在信度河的急流冲击下崩塌。
6.54.42
ततस्तस्मादप्लुत्य गजाद्भारत भारतः ।
खङ्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः ॥ ६.५४.४२ ॥
于是,婆罗多的后裔啊,他从那头象上跳下,手持利剑,心无畏惧,披甲精良的婆罗多(毗摩)站立于地面。
6.54.43
स चचार बहून्मार्गानभितः पातयन्गजान् ।
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत ॥ ६.५४.४३ ॥
他在许多道路上奔走,四面八方击倒象群,四处可见,宛如旋转的火轮。
6.54.44
अश्वबृन्देषु नागेषु रथानीकेषु चाभिभूः ।
पदातीनां च सङ्घेषु विनिघ्नञ्शोणितोक्षितः। ॥ ६.५४.४४ ॥
在马群、象群、车阵和步兵群中他克敌制胜,不断击杀,浑身沾满鲜血。
6.54.45
श्येनवद्व्यचरद्भीमो रणेऽरिषु बलोत्कटः ।
छिन्दंस्तेषाकं शरीराणि शिरांसि च महाबलः ॥ ६.५४.४५ ॥
毕摩以力量凶猛,在战场上如鹰隼般穿行于敌人之间,斩断他们的身体与头颅,这位大力者。
6.54.46
खङघ्गेकन शितधारेण संयुगे गजयोधिनाम् ।
पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः ॥ ६.५४.४६ ॥
战场上,一名步卒手持利刃,独自在象兵之间愤怒奋战,增加敌人的恐惧。
6.54.47
संमाहयामास स तान्कालान्तकयमोपमः ।
मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन् ॥ ६.५४.४७ ॥
他像死神与阎摩一样使他们迷乱;那些昏乱的人在战场上吼叫着向他冲去。
6.54.48
सासिमुत्तमवेगेन विचरन्तं महारणे ।
निकृत्य रथिनां चाजौ रथेषाश्च युगानि च ॥ ६.५४.४८ ॥
他手持利剑,以极快的速度穿行于大战之中,砍断了车士们的车杆与轭木。
6.54.49
जघान रथिनश्चापि बलवान्रिपुमर्दनः ।
भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत ॥ ६.५४.४९ ॥
强大的敌人粉碎者毗摩森那也击杀了车战武士;人们看见他在许多道路上奔驰。
6.54.50
भ्रान्तमाविद्धमुद्भ्रान्तमाप्लुतं प्रसृतं प्लुतम् ।
संपातं समुदीर्णं च दर्शयामास पाण्डवः ॥ ६.५४.५० ॥
般度之子展示了回旋、刺击、旋转、跳跃、前进、腾跃、俯冲与冲锋。
6.54.51
केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना ।
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ॥ ६.५४.५१ ॥
一些人被伟大的般度之子的利剑斩断;要害被刺穿,他们惨叫着失去生命倒下。
6.54.52
छइन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथाऽपरे ।
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः । ॥ ६.५४.५२ ॥
婆罗多啊,其他大象的象牙尖和鼻子折断、额顶破裂,失去了驭者,便践踏自己的军队。
6.54.53
निपेतुरुर्व्यां च तथा विनदन्तो महारवान् ।
छिन्नांश्च तोमरान्राजन्महामात्रशिरांसि च ॥ ६.५४.५३ ॥
大王啊,大象发出巨吼倒在地上;断裂的投枪和象夫的头颅也落下。
6.54.54
परिस्तोमान्विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः ।
ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा ॥ ६.५४.५४ ॥
那里散落着华丽的象衣、金光闪耀的象鞍带、颈饰、长矛、旗幡和尸体。
6.54.55
तूणीरानथ यन्त्राणि धनूंषि च ।
भिन्दिपालानि शुभ्राणि तोत्राणि चाङ्कुशैः सह ॥ ६.५४.५५ ॥
箭袋、战争器械、弓,明亮的投枪,以及连同象钩的鞭子。
6.54.56
घण्टाश्च विविधा राजन्हेमगर्भान्त्सरूनपि ।
पततः पातितांश्चैव पश्यामः सह सादिभिः ॥ ६.५४.५६ ॥
大王啊,我们看到各式铃铛、内藏黄金的柱子,还有倒下和被打倒的象连同它们的骑手。
6.54.57
छिन्नगात्रावरकरैर्निहतैश्चाप वारणैः ।
आसीद्भूमिःक समास्तीर्णा पतितैर्भूधरैरिव ॥ ६.५४.५७ ॥
大地上铺满了被杀的象,它们的肢体和护甲被斩断,宛如倒塌的山岳。
6.54.58
विमृद्यैवं महानागान्ममर्दाश्वान्महाबलः ।
अश्वारोहवरांश्चैव पातयामास संयुगे ॥ ६.५४.५८ ॥
这样,这位大力者碾碎了巨象,践踏了马匹,并在战斗中击倒了最优秀的骑手。
6.54.59
तद्धोरमभवद्युद्धं तस्य तेषां च भारत ।
खलीनान्यथ योक्राणि कक्ष्याश्च कनकोज्ज्वलाः ॥ ६.५४.५९ ॥
婆罗多之子啊,他与他们的那场战斗变得可怖;缰绳、轭与镶金闪耀的肚带。
6.54.60
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः ।
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च ॥ ६.५४.६० ॥
装饰披挂、长矛、贵重的投矛、铠甲、盾牌与彩色的覆布。
6.54.61
तत्रतत्रापविद्धआनि व्यदृश्यन्त महाहवे ।
प्रासैर्यन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा ॥ ६.५४.६१ ॥
在大战中,到处可见被投掷的长矛、奇妙的器械和明亮的兵器。
6.54.62
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव ।
आप्लुत्य रथिनः काश्चित्परामृश्य महाबलः ॥ ६.५४.६२ ॥
那位大力者跃上车战士,抓住一些人,使大地像铺满了五颜六色的花朵。
6.54.63
पातयामास खङ्गेन सध्वजानपि पाण्डवः ।
मुहुरुत्पततो दिक्षु धावतश्च यशस्विनःक ॥ ६.५४.६३ ॥
般度之子用剑连同旗幡一起砍倒了他们,那些在四方不断跳跃奔逃的名将也一并被击倒。
6.54.64
मार्गांश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः ।
स जघान पदा कांश्चिद्व्याक्षिप्यान्यानपोथयत् ॥ ६.५४.६४ ॥
人们在战场上惊叹于他奇妙的身法。他用脚踢倒一些人,又把另一些人甩开并踩碎。
6.54.65
खह्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन् ।
ऊरुवेगेन चाप्यन्यान्पातयामास भूतले ॥ ६.५४.६५ ॥
他用剑砍杀一些人,用吼声惊吓另一些人,又凭借双腿的猛力把其余的人击倒在地。
6.54.66
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः ।
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम् ॥ ६.५४.६६ ॥
其他人见到他,因恐惧而死去。如此,那支由迅捷勇猛的羯陵伽人组成的庞大军队(被消灭了)。
6.54.67
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत् ।
ततः कालिङ्गयैन्यानां प्रमुखे भरतर्षभ ॥ ६.५४.६७ ॥
在战场上包围毗湿摩,他们向毗摩森那冲去。于是,婆罗多之牛啊,在羯陵伽军的前列……
6.54.68
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात् ।
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः । ॥ ६.५४.६८ ॥
毗摩森那见到室鲁多育,便向他前进。羯陵伽王见他逼近,以九支箭……
6.54.69
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे ।
कलिङ्गबाणाभिहतस्तोत्रार्दित इव द्विपः ॥ ६.५४.६९ ॥
那位心志无量者击中毗摩森那的胸膛。毗摩森那被羯陵伽的箭射中,如同被象钩刺痛的大象。
6.54.70
भीमसेनः प्रजज्वाल क्रोदेनाग्निरिवैधितः ।
अथाशोकः समादाय रथं हेमपरिष्कृतम् ॥ ६.५४.७० ॥
毗摩森那因愤怒而燃烧,如同被点燃的火。于是阿输迦取了一辆饰以黄金的战车……
6.54.71
भीमं संपादयामास रथेन रथसारथिः ।
तामरुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः ॥ ६.५४.७१ ॥
御者将毗摩驾车送到那里。那位昆蒂之子、敌人的摧毁者迅速登上那辆战车……
6.54.72
कलिङ्गमभिदुद्राव तिष्ठितिष्ठेति चाब्रवीत् ।
ततः श्रुतायुर्बलावान्भीमाय निशिताञ्शरान् ॥ ६.५४.७२ ॥
他冲向羯陵伽王,说道:“站住,站住!”于是勇猛的室鲁多育向毗摩射出锐利的箭。
6.54.73
प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम् ।
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः ॥ ६.५४.७३ ॥
他大怒,展示手上的灵巧,用上好的弓射出九支锐利的箭。
6.54.74
समाहतो महाराज कलिङ्गेन महात्मना ।
संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः ॥ ६.५४.७४ ॥
大王啊,被高尚的羯陵伽击中后,婆罗摩大声呼喊,如同被棍棒击打的蛇。
6.54.75
क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः ।
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः ॥ ६.५४.७५ ॥
他大怒,用力拉开弓,力大者中最优秀的普利塔之子婆罗摩,以七支铁箭射杀了羯陵伽。
6.54.76
क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ ।
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम् ॥ ६.५४.७६ ॥
他以剃刀般锋利的箭,将羯陵伽两位大力的车御卫士萨提亚提婆和萨提亚送往阎摩的居所。
6.54.77
ततः पुनमेयात्मा नासचैर्निशितैस्त्रिभिः ।
केतुमन्तं रणे भीमोऽगमयद्यमसादनम् ॥ ६.५४.७७ ॥
随后,心志沉稳的婆罗摩在战斗中以三支锐利的鼻箭将俱图曼送往阎摩的居所。
6.54.78
ततः कलिङ्गाः सन्नद्धा भीमसेनममर्षणम् ।
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन् ॥ ६.५४.७८ ॥
随后,整装待发的羯陵伽刹帝利用数千支军队将不耐烦的婆罗摩那世那团团围住,阻挡了他。
6.54.79
ततः शक्तिगदाखङ्गतोमरर्ष्टिपरश्वथैः ।
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन् ॥ ६.५४.७९ ॥
于是羯陵伽人,大王,以投枪、棍棒、剑、长矛、标枪与斧钺,向怖军倾泻而下。
6.54.80
संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम् ।
गदामादाय तरसा संनिपत्य महाबलः ॥ ६.५४.८० ॥
那位大力者挡开了那腾起的可怕箭雨,迅速举起大棒,猛冲上前。
6.54.81
भीमः सप्तशतान्वीराननयद्यमसादनम् ।
पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः ॥ ६.५४.८१ ॥
怖军送了七百名勇士往阎摩之域,那摧敌者又送去了两千羯陵伽人。
6.54.82
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत् ।
एवं स तान्यनीकानि कलिङ्गानां पुनःपुनः ॥ ६.५४.८२ ॥
他将他们送往死亡之界,那景象仿佛奇迹。如此,他一次又一次地摧毁了羯陵伽人的那些军队。
6.54.83
बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम् ।
हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे ॥ ६.५४.८३ ॥
他在战场上见到大车将毗湿摩,便迅速冲破阵线;在战斗中,因般度之子的缘故,大象的骑手尽被杀死。
6.54.84
विप्रजग्मुरनीकेषु मेघा वातहता इव ।
मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः ॥ ६.५४.८४ ॥
在军阵之中他们四散奔逃,如同被风吹散的云朵;被箭所伤,他们咆哮着,践踏着自己的军队。
6.54.85
ततो भीमो महाबाहुः खङ्गहस्तो महाभुजःक ।
संप्रहृष्टो महाघोषं शङ्खं प्राध्मापयद्बली ॥ ६.५४.८५ ॥
于是大臂的毗摩手持利剑,心中大喜,以巨大的声响有力地吹响了海螺。
6.54.86
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत् ।
मोहश्चापि कलिङ्गानामाविवेश परंतप ॥ ६.५४.८६ ॥
它使所有羯陵伽军队的心一同震颤,迷惑也进入了羯陵伽人之中,啊,敌人的焚灭者。
6.54.87
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः ।
भीमेन समरे राजन्गजेन्द्रेणेव सर्वशः ॥ ६.५४.८७ ॥
啊,国王!战场上,军队和战车坐骑因毗摩而四面震颤,如同遭遇象王一般。
6.54.88
मार्गान्बहून्विचरता धावता च ततस्ततः ।
मुहुरुत्पतता चैव संमोहः समपद्यत ॥ ६.५४.८८ ॥
在多条道路上徘徊、四处奔逃、屡次跳起的人们之中,迷乱产生了。
6.54.89
भीमसेनभयत्रस्तं सैन्यं च समकम्पत ।
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः ॥ ६.५४.८९ ॥
被毗摩センa的恐惧吓得发抖的军队也一同震颤,如同大湖被鳄鱼搅动,无处容身。
6.54.90
त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा ।
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः ॥ ६.५४.९० ॥
当所有人都被行事奇异的毗摩吓倒时,那些转身回来的人又成群地四散奔逃。
6.54.91
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः ।
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः ॥ ६.५४.९१ ॥
在所有羯陵伽战士中,般度之子军队的统帅般遮罗王子对他的其他部队说:“作战吧。”
6.54.92
सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः ।
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः ॥ ६.५४.९२ ॥
闻听统帅之言,以湿金迪为首的部队与攻击的战车方阵一同直向毗摩猛扑而去。
6.54.93
धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः ।
महता मेघवर्णेन नागानीकेन पृष्ठतः ॥ ६.५४.९३ ॥
般度之子法王接纳了他们所有人,并以一支巨大的云色象军从后方给予支援。
6.54.94
एवं संनोद्य सर्वामि स्वान्यनीकानि पार्षतः ।
भीमसेनस्य जग्राह पार्ष्णि सत्पुरुषैर्वृतः ॥ ६.५४.९४ ॥
如此鼓舞了他所有其他部队之后,被善人所围绕的般遮罗王子接应了毗摩森的后背。
6.54.95
न हि पञ्चालराजस्य लोके कश्चन विद्यते ।
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः ॥ ६.५४.९५ ॥
实际上,在世间,除了毗摩与萨谛奇之外,没有任何人比般遮罗王更珍爱,甚至胜过生命。
6.54.96
सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः ।
भीमसेनं महाबाहुं पार्षतः परवीरहा ॥ ६.५४.९६ ॥
灭敌、杀敌英雄的般遮罗王子看见了在羯陵伽人中间驰骋的大臂毗摩森。
6.54.97
ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः ।
शङ्खं दध्मौ च समरे सिंहनादं ननाद च ॥ ६.५४.९७ ॥
大王啊,那焚烧敌人者欣喜地以多种方式吼叫。他在战场上吹响海螺,发出狮子般的吼声。
6.54.98
स च पारावताश्वस्य रथे हेमपरिष्कृते ।
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत् । ॥ ६.५४.९८ ॥
他的车子装饰着金饰,驾着鸽灰色的马,看见了考维陀罗旗,毗摩森那便得到了安慰。
6.54.99
धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम् ।
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात् ॥ ६.५४.९९ ॥
然而,无量心的德里斯塔德永那看见毗摩森那被羯陵伽人围攻,便在战斗中冲上前去保护他。
6.54.100
तौ दूरात्सात्यकिं दृष्ट्वा धृष्टद्युम्नवृकोदरौ ।
कलिङ्गान्समरे वीरौ योधयेतां मनस्विनौ । ॥ ६.५४.१०० ॥
那两位——德里斯塔德永那与狼腹——远远看见萨提亚基,便在战斗中与羯陵伽人交战,那两位心志高远的英雄。
6.54.101
स तत्र गत्वा शैनेयो जवेन जयतां वरः ।
पार्थपार्षतयोः पार्षिं जग्राह पुरुषर्षभः ॥ ६.५४.१०१ ॥
那位希尼之子,诸胜者中的最优者,人中之牛,迅速赶到那里,抓住了阿周那和帕尔沙塔的侧翼。
6.54.102
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः ।
आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत ॥ ६.५४.१०२ ॥
他完成了可怕的行动,举起弓,显现出凶猛的形象,望向羯陵伽人。
6.54.103
कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम् ।
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम् ॥ ६.५४.१०३ ॥
诞生于羯陵伽的一条肉与血泥泞之河,血流不息——婆罗多在那里使它奔流。
6.54.104
अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम् ।
तां संततार दुस्तारां भीमसेनो महाबलः ॥ ६.५४.१०४ ॥
在羯陵伽军与般度军之间的那条难以渡过的河流,大力的婆罗多人(毗摩森那)渡过了它。
6.54.105
भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप ।
कालोऽयं भीमरूपेण कलिङ्गैः कसह युध्यते ॥ ६.५४.१०५ ॥
大王,你的人见婆罗多人如此,便呼喊道:“这是以可怖之形出现的死神,正在与羯陵伽人作战!”
6.54.106
ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे ।
अभ्ययात्त्वरितो भीमं व्यूढानीकः समंततः ॥ ६.५४.१०६ ॥
于是,檀努之子毗湿摩在战场上听到那声吼叫,便将军队四面布成阵势,迅速向婆罗多人(毗摩)冲去。
6.54.107
तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥ ६.५४.१०७ ॥
萨提亚基、毗摩森那和补沙塔之子德里什塔笃姆那冲向他,冲向毗湿摩那饰以黄金的战车。
6.54.108
परिवार्य तु ते सर्वे गाङ्गेयं तरसा रणे ।
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्च्छुरोजसा ॥ ६.५४.१०८ ॥
然而他们全体迅速包围了恒河之子于战场,各以三支可怖之箭猛力射中毗湿摩。
6.54.109
प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव ।
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ॥ ६.५४.१०९ ॥
您的父亲提婆跋罗多以笔直飞行的箭,每人三支,反击了那些奋力作战的大弓箭手。
6.54.110
ततः शरसहस्रेण सन्निवार्य महारथान् ।
हयान्काञ्चनसन्नाहान्भीमस्य न्यहनच्छरैः ॥ ६.५४.११० ॥
随后,他以千支箭挡住了大车战士,并用箭射倒了身披金甲的毗摩的马匹。
6.54.111
हताश्वे स रथे तिष्ठन्भीमसेनः प्रतापवान् ।
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति ॥ ६.५४.१११ ॥
毗摩瑟那站在马匹已死的战车上,猛力将一支长矛掷向毗湿摩的战车。
6.54.112
अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव ।
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत ॥ ६.५४.११२ ॥
长矛尚未到达,您的父亲提婆跋罗多便在战斗中将其斩为三段,它碎落在地上。
6.54.113
ततः शैक्यायसीं गुर्वी प्रगृह्य बलवान्गदाम् ।
भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ ॥ ६.५४.११३ ॥
随后,人中之牛啊,大力的毗摩瑟那握起他沉重的钢制铁棒,迅速跃起。
6.54.114
सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया ।
गाङ्गेयसारथिं तूर्णं पातयामास सायकैः ॥ ६.५४.११४ ॥
随后,萨提亚基也想讨毗摩瑟那的欢心,迅速用箭射倒了毗湿摩的御者。
6.54.115
भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः ।
वातायमानैस्तैरश्वैरपनीतो रणाजिरात् ॥ ६.५४.११५ ॥
那御者被杀后,车将中的最优者毗湿摩被如风疾驰的马匹带离了战场。
6.54.116
भीमसेनस्ततो राजन्नपयाते महाव्रते ।
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः ॥ ६.५४.११६ ॥
大王啊,那时大誓者毗湿摩退去,怖军便如燃起的火焰一般炽烈,焚烧着干草。
6.54.117
स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत ।
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ ॥ ६.५४.११७ ॥
他杀尽所有羯陵伽人后,立于军中;婆罗多族之雄,你的人中无一敢于迎战他。
6.54.118
धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः ।
पश्यतां सर्वसैन्यानामपोवाहक यशस्विनम् ॥ ६.५४.११८ ॥
车将中的最优者法主(Dhṛṣṭadyumna)将那位名声显赫的勇士扶上自己的战车,在诸军注视之下将他带离。
6.54.119
संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ ।
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम् ॥ ६.५४.११९ ॥
大王,婆罗多族之雄,他受到般遮罗人与摩差人的敬重,拥抱了法主,然后走向萨提奇。
6.54.120
अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः ।
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः ॥ ६.५४.१२० ॥
于是,真勇的萨提奇,耶度族之虎,在法主注视下,对怖军说话,使他欢喜。
6.54.121
दिष्ट्या कालिङ्गराजश्च राजपुत्रश्च केतुमान ।
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः ॥ ६.५४.१२१ ॥
幸而羯陵伽王、王子盖图曼、释迦天、羯陵伽以及羯陵伽人在战场上被杀。
6.54.122
स्वबाहुबलवीर्येण नागाश्वरथसंकुलः ।
महापुरुषभूयिष्ठो धीरयोधनिषेवितः ॥ ६.५४.१२२ ॥
凭着自身臂力与勇武,充满象、马与战车,多有大勇士,为坚定的战士所围绕。
6.54.123
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया ।
एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिन्दम।
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम् ॥ ६.५४.१२३ ॥
你一人便摧毁了羯陵伽人的大阵。
6.54.124
ततः स्वरथमास्थाय पुनरेव महारथः ।
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत् ॥ ६.५४.१२४ ॥
随后,那位大车手再次登上自己的战车,愤怒地杀死你的士兵,并扑向怖军的军队。