Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.56.1

प्रभातायां च शर्वर्यां भीष्मः शान्तनस्तदा ।
अनीकान्यनुसंयाने व्यादिदेशाय भारत ॥ ६.५६.१ ॥

黎明时分,夜已过去,檀努之子毗湿摩于是下令军队出发,婆罗多啊。

6.56.2

गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा ।
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः । ॥ ६.५६.२ ॥

于是檀努之子、俱卢族的祖父毗湿摩,渴望你的儿子们获胜,布下了名为迦鲁达的大阵。

6.56.3

गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव ।
चक्षुषी च भरज्वाजः कृतवर्मा च सात्वतः ॥ ६.५६.३ ॥

迦鲁达的喉头处,正是你的父亲提婆跋多(毗湿摩)本人;双眼处是跋罗堕遮(德罗纳)和悉多族的迦塔伐门。

6.56.4

अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ ।
त्रैगर्त्तैरथ कैकेयैर्वाटधानैश्च संयुगे ॥ ६.५६.४ ॥

两位声名显赫的阿湿嚩摩和克利巴位于头部;与三界族、迦伽耶族和瓦陀陀那族一起作战。

6.56.5

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष ।
मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये ॥ ६.५६.५ ॥

婆利输罗婆斯、沙罗、沙利耶和跋伽陀多,啊,尊者;还有摩德罗族、信度-娑维罗族,以及在那里的般遮那陀族。

6.56.6

जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः ।
पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ॥ ६.५६.६ ॥

他们与胜车一起布置在颈部;背部是国王难敌,被他的兄弟和随从所环绕。

6.56.7

विन्दानुविन्दावावन्त्यौ काम्भोजश्च शकैः सह ।
पच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥ ६.५६.७ ॥

Vinda与Anuvinda两位阿版提人,以及甘博阇王与塞人一同,还有所有的 Śūrasena人,都位于后方,大王啊。

6.56.8

मागधाश्च कलिङ्गाश्च दासेरकगणैः सह ।
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ॥ ६.५६.८ ॥

摩揭陀人与羯陵伽人,与达萨与伊拉卡的军队一同,抵达阵列的右翼,披甲而立。

6.56.9

काकरुशा विकुञ्चाश्च मुण्डाः कुण्डीवृषास्तथा ।
बृहद्वलेन सहिता वामं पार्श्वमवस्थिताः ॥ ६.५६.९ ॥

迦迦如舍人、毗昆查人、蒙陀人,以及同样的昆迪伐沙人,与大力王一同,驻守于左翼。

6.56.10

व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः ।
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ॥ ६.५६.१० ॥

见彼军已列阵,灭敌者萨维亚萨钦(阿周那)与德里什塔德尤姆那一同,在战斗中布下了反阵。

6.56.11

अर्धचन्द्रेण व्यूहेन व्यूहन्तमतिदारुणम् ।
दक्षिणं शृङ्गमास्वय भिमसेनो व्यरोचत ॥ ६.५६.११ ॥

以可怖的半月阵排兵布阵,毗摩先那占据右角,光彩夺目。

6.56.12

नानासंस्त्रौपसंषत्रैर्नानादेश्यैर्नृपैर्वृतः ।
तदन्येव विराटश्च द्रुपदश्च महारथः ॥ ६.५६.१२ ॥

被来自诸国、持各种兵器的诸王所围绕,毗罗吒与大车士德鲁帕达也同样在那里。

6.56.13

तदनन्तरमेवासीन्नीलो नीलायुधैः सह ।
नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः ॥ ६.५६.१३ ॥

紧接着站立的是尼罗与持黑色兵器的战士们,尼罗之后是大力的德里斯塔刻图。

6.56.14

चेदिकाशिकरूपेश्च पौरवैरपि संवृतः ।
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः ॥ ६.५६.१४ ॥

被遮尼与迦尸军队以及补卢族所环绕,德里斯塔迅那与湿乾丁,以及般遮罗人与普罗跋陀罗人站立在那里。

6.56.15

मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ।
तत्रैव धर्मराजोऽपि गजानीकेन संवृतः । ॥ ६.५६.१५ ॥

婆罗多啊,他们在庞大军队的中央列阵待战;那里,法王也被象军所围绕而立。

6.56.16

ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ।
अभिमन्युस्ततः शूर इरावांश्च ततः परम् ॥ ६.५६.१६ ॥

大王啊,接着是萨提亚基与德劳巴蒂的五个儿子;然后是英雄阿毗曼纽,之后是伊罗婆。

6.56.17

भैमसेनिस्ततो राजन्केकयाश्च महारथाः ।
एते सर्वे महाराज वामं पार्श्वमुपाश्रिताः ॥ ६.५६.१७ ॥

大王啊,接着是婆罗塞那之子与迦伽亚的大车战士们;大王啊,他们都依靠左翼而立。

6.56.18

सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ।
तत्रानुरथिनां श्रेष्ठो वामश्रृङ्गे व्यवस्थितः।
एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ॥ ६.५६.१८ ॥

那位守护整个世界、以遮那陀那为守护者的人,车战之中最杰出者,就站在左角之上;如此,般度子孙布下了一个对抗那大阵的反阵。

6.56.19

वधार्थं तव पुत्रामां तत्पक्षे ये च सङ्गताः ।
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ॥ ६.५६.१९ ॥

为杀戮你的儿子们以及聚集在他们一方的人,于是战斗爆发了,战车与战象相互纠缠。

6.56.20

तावकानां परेषां च निघ्नतामितरेतरम् ।
हयौघाश्च रथौघाश्व तत्र तत्र विशांपते ॥ ६.५६.२० ॥

你的人与敌人互相攻击,马群与战车群四处奔走,人君啊。

6.56.21

संपतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम् ।
धावतां च रथोघानां निघ्नतां च पृथक् पृथक् ॥ ६.५६.२१ ॥

他们冲锋向前,互相攻击,清晰可见;在奔驰的战车群中,以及各自单独攻击的人中。

6.56.22

बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ।
दिवस्पृङ्वरवीराणां निघ्नतामितरेतरम् ।
संप्रहारे सुतुमुले तव तेषां च भारत ॥ ६.५६.२२ ॥

鼓声与喧嚣混杂,直冲云霄,英勇的战士们相互攻击;在那激烈的交锋中,婆罗多啊,在你的人与他们之间。