摩诃婆罗多 · 章 6.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.57.1
ततो व्यूढेष्वनीकेषु तावकेषु परेषु च ।
धनञ्जयो रथानीकमवधीत्तव भारत ॥ ६.५७.१ ॥
此时,己方与敌方的军队皆已列阵,达南遮耶摧毁了你方的战车大军,婆罗多啊。
6.57.2
शरैरथिरथो युद्धे दारयन्रथयूथपान् ।
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ॥ ६.५७.२ ॥
在战斗中,这位大战车勇士以箭矢射穿了战车统领;被普利塔之子所杀的他们,如同在劫末被时间(迦罗)所毁。
6.57.3
धार्तराष्ट्रा रणे यत्नात्पाण्डवान्प्रत्ययोधयन् ।
प्रार्थयाना यशो दीप्तां मृत्युं कृत्वा निवर्तनम् ॥ ६.५७.३ ॥
持国之子们在战斗中竭力与般度之子们交战,渴求光辉的荣誉,以死亡本身作为归途。
6.57.4
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।
बभञ्जुर्बहुशो राजंस्ते चासञ्जन्त संयुगे ॥ ६.५७.४ ॥
大王啊,他们一心一意,多次冲破般度之子的军队,并在战斗中坚守不退。
6.57.5
द्रवद्भिरथभग्नैश्च परिवर्तद्भिरेव च ।
पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन ॥ ६.५७.५ ॥
在奔逃者、战车破碎者和回身搏战者之中,般度之子与俱卢之子已无从分辨。
6.57.6
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् ।
न दिशः प्रदिशो वापि जज्ञिरेऽत्र समागताः ॥ ६.५७.६ ॥
地上扬起的尘土升腾,遮蔽了太阳;聚集于此的人们竟分不清方位,也分不清次方。
6.57.7
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे ।
अवर्तत तदा युद्धं तत्र तत्र विशांपते ॥ ६.५७.७ ॥
那时在战斗中,凭推测、标记以及姓名与族系辨认,战斗在各处进行,民之主啊。
6.57.8
न व्यूहो भिद्यते तत्र कौरवाणां कथञ्चन ।
रक्षितः सत्यसन्धेन भारद्वाजेन संयुगे ॥ ६.५७.८ ॥
那里,俱卢族的阵形无论如何都没有被打破,因为守护它的是言而有信的婆罗堕遮之子。
6.57.9
तथैव पाण्डवानां च रक्षितः सव्यसाचिना ।
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥ ६.५७.९ ॥
同样,般度族的大阵由左右开弓的阿周那守护,又由毗摩善加护卫,因而未被打破。
6.57.10
सेनाग्रादपि निष्पत्य प्रायुध्यंस्तत्र मानवाः ।
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥ ६.५७.१० ॥
甚至从军队的前锋中走出,人们在那里猛烈作战;国王啊,两军的战车与象兵交织在一起。
6.57.11
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे ।
ऋष्टिभिर्विमलाभिश्च प्रासैरपि च संयुगे ॥ ६.५७.११ ॥
在大战中,骑兵击倒骑兵;在战斗中,他们被明亮的长矛与投枪击落。
6.57.12
रथी रथिनमासाद्य शरैः कनकभूषणैःक ।
पातयामास समरे तस्मिन्नतिभयंकरे ॥ ६.५७.१२ ॥
一名车将走近另一名车将,在那场极其可怖的战斗中用饰有黄金的箭将他射倒。
6.57.13
गजारोहा गजारोहान्नाराचशरतोमरैः ।
संसक्तान्पातयामासुस्तव तेषां च सर्वशः ॥ ६.५७.१३ ॥
象兵以铁箭、箭矢和投枪射倒象兵;彼此纠缠的他们,在你方与敌方各处皆如此倒下。
6.57.14
कश्चिदुत्पत्य समरे वस्वारणमास्थितः ।
केशपक्षे परामृश्य जहार समरे शिरः ॥ ६.५७.१४ ॥
有人跃入战场,立于“婆苏-阿罗那”(象战)之中,抓住对方的头发,在战斗中割下了他的头颅。
6.57.15
अन्ये द्विरददन्ताग्रनिर्भिन्नहृदया रणे ।
वेमुश्च रुधिरं वीरा निःश्वसन्तः समन्ततः ॥ ६.५७.१५ ॥
另一些英雄在战斗中被象牙尖刺穿心脏,四面八方呕吐着鲜血,深深地喘息着。
6.57.16
कश्चित्करिविषाणस्थो वीरो रणविशारदाः ।
प्रावेपच्छक्तिनिर्भिन्नो गजशिक्षास्त्रवेदिना ॥ ६.५७.१६ ॥
一名站在象牙上的英雄,善战,被一位精通象战兵器的人之枪矛刺中,颤抖起来。
6.57.17
पत्तिमङ्घा रणे पक्तीन्भिमन्दिपालपरश्वथैः ।
न्यतापतयन्त संहृष्टाः परस्परकृतागसः ॥ ६.५७.१७ ॥
步兵在战斗中以投枪、短矛和战斧扑向队列;他们欢欣鼓舞,彼此都有过错,纷纷倒下。
6.57.18
रथी च समरे राजन्नासाद्य गजयूथपम् ।
स गजं पातयामास गजी च रथिनां वरम् ॥ ६.५७.१८ ॥
大王!战斗中,一名车兵接近象群之主,击倒了那头象;一名象兵则击倒了车兵中的最勇者。
6.57.19
रथिनं च हयारोहः प्रासेन भरतर्षभ ।
पातयामास समरे रथी च हयसादिनम् ॥ ६.५७.१९ ॥
婆罗多的雄牛啊!骑马者以长矛击倒了战车武士;战车武士也在战斗中击倒了骑马者。
6.57.20
पदाती रथिनं सङ्ख्ये रथी चापि पदातिनम् ।
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥ ६.५७.२० ॥
步兵在战斗中以锋利的武器击倒了战车武士,战车武士也击倒了步兵,两军之中皆然。
6.57.21
गजारोहा हयारोहान्पातयांचक्रिरे तदा ।
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥ ६.५७.२१ ॥
那时,乘象者击倒了骑马者,骑马者也击倒了象上的人;那情景仿佛奇异之事。
6.57.22
गजारोहवरैश्चापि तत्रतत्र पदातयः ।
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥ ६.५७.२२ ॥
到处可见步兵被最优秀的乘象者击倒,而乘象武士也被他们击倒。
6.57.23
पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः ।
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ ६.५७.२३ ॥
只见步兵方阵被骑兵击倒,骑兵方阵被步兵击倒,成百上千地倒下。
6.57.24
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा ।
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥ ६.५७.२४ ॥
那里散落着被抛掷的旗帜、弓、投枪、长矛、棍棒、铁杵和震颤的兵器。
6.57.25
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि ।
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥ ६.५७.२५ ॥
还有长矛、彩饰铠甲、棍棒、象钩、明亮的剑,以及金羽的箭(战场上堆满了这些)。
6.57.26
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥ ६.५७.२६ ॥
婆罗多族中最优秀的人啊,大地仿佛装饰着花环,覆盖着贵重的马披、鞍毯和毡毯,闪闪发光。
6.57.27
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ ६.५७.२७ ॥
在那场大战中,倒下的人、马和象的尸体使大地变得无法通行,成为血肉泥沼。
6.57.28
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।
दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ॥ ६.५७.२८ ॥
大地的尘土被战场之血洒湿而平息,诸方皆变得清明,人主啊。
6.57.29
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
चिह्नभूतानि जगतो विनाशार्थाय भारत ॥ ६.५७.२९ ॥
婆罗多啊,四面八方升起无数无头的躯干,成为世界毁灭的征兆。
6.57.30
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे ।
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥ ६.५७.३० ॥
在那场极为可怖、极为惨烈的战斗进行之时,四处可见奔跑的战车武士。
6.57.31
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः ।
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः ॥ ६.५७.३१ ॥
于是毗湿摩、德罗纳、信度王胜车、补噜弥多罗、胜、钵阇以及沙利耶,连同沙恭尼一起(参战)。
6.57.32
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः ।
पाण्डवानामनीकानि बभञ्जुःस्म पुनःपुनः ॥ ६.५७.३२ ॥
这些在战场上难以抵挡、勇猛如狮子的人,一再冲垮了般度之子的军队。
6.57.33
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।
सात्यकिश्चेकितानश्च द्रोपदेयाश्च भारत ॥ ६.५७.३३ ॥
同样,毗摩森那、罗刹伽托特迦、萨提亚基、埃基塔纳,以及德罗波蒂的儿子们,婆罗多啊,(也都在战斗)。
6.57.34
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः ।
द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥ ६.५७.३४ ॥
他们在战斗中驱逐了与诸王会合的你的部下和你的儿子们,正如诸天神驱逐檀那婆一样。
6.57.35
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।
रक्तोक्षिता घोररूपा विरेर्जुर्दानवा इव ॥ ६.५७.३५ ॥
那些刹帝利中的雄牛在战场上互相击杀,血迹斑斑,形貌可怖,像檀那婆一样闪耀。
6.57.36
विनिर्जित्य रिपून्वीरा सेकनयोरुभयोरपि ।
व्यदृस्यन्त महामात्रा ग्रहा इव नभस्तले ॥ ६.५७.३६ ॥
战胜敌人的英雄们,即战场双方的大车将,看上去如同天空中的行星。
6.57.37
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव ।
अभ्ययात्पाण्डवं युद्धे राक्षसं च घटोत्कचम् ॥ ६.५७.३७ ॥
于是你的儿子难敌率千辆战车,在战斗中向般度之子和罗刹瞿陀迦奔去。
6.57.38
तथैव पाण्डवाः सर्वे महत्या सेनया सह ।
द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिन्दमौ ॥ ६.५७.३८ ॥
同样,所有般度之子率领庞大的军队,迎战正在奋力作战的两位制敌者德罗纳和毗湿摩。
6.57.39
किरीटी च ययौ क्रुद्धः समन्तात्पार्थिवोत्तमान् ।
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥ ६.५७.३९ ॥
金冠者(阿周那)愤怒地从四面向诸位最杰出的国王进发;阿周那之子与萨谛奇则冲向沙恭尼的军队。
6.57.40
ततः प्रववृते भूयः संग्रामो रोमहर्षणः ।
तावकानां परेषां च समरे विजयैषिणाम् ॥ ६.५७.४० ॥
于是战斗再次开始,令人毛骨悚然,你方与敌方的人都渴望胜利。