摩诃婆罗多 · 章 6.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.58.1
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे ।
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥ ६.५८.१ ॥
于是那些愤怒的国王在战场上看见法尔古那,便以数千辆战车从四面将他包围。
6.58.2
अथैनं रथबृन्देन कोष्ठकीकृत्य भारत ।
शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥ ६.५८.२ ॥
然后,婆罗多啊,他们以众多战车将他围成仓廪般,用成千上万的箭从四面阻挡他。
6.58.3
शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैः सह ।
प्रासान्परश्वथांश्चैव मुद्गरान्मुसलानपि ॥ ६.५८.३ ॥
闪亮锋利的长矛与铁棒,连同铁杵、投枪、战斧、铁锤,甚至木杵。
6.58.4
चिक्षिषुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ।
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ॥ ६.५८.४ ॥
他们愤怒地想在战斗中袭击法尔古那的战车;那如雨般的兵器就像一大群蝗虫。
6.58.5
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ।
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् ॥ ६.५८.५ ॥
般度之子以饰金的箭从四面阻挡他们;在那里,看到比博嘎苏超越常人的敏捷。
6.58.6
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
साधुसाध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥ ६.५८.६ ॥
天神、檀那婆、乾闼婆、毗舍遮、蛇神与罗刹,连声喊着“善哉,善哉!”,向法尔古那致敬,啊,诸王之王。
6.58.7
सात्यकिश्चाभिमन्युश्च महत्या सेकनया वृतौ ।
गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान् ॥ ६.५८.७ ॥
萨提亚基与阿毗曼尤被大量箭雨所围,在战场上突然冲向勇猛的犍陀罗人和娑婆罗人。
6.58.8
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् ।
तिशलश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥ ६.५८.८ ॥
那里,愤怒的娑婆罗人在战斗中以三叉矛及各式兵器怒砍了毗湿尼族(萨提亚基)的上好战车。
6.58.9
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे ।
अभिमन्यो रथं तूर्णमारुरोह परंतपः ॥ ६.५८.९ ॥
然而可怖的战斗正在进行时,萨提亚基弃下自己的战车,迅速登上了令敌人受炙烤的阿毗曼尤的战车。
6.58.10
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् ।
व्यधमेतां शितैस्तूर्णं शरैःक सन्नतपर्वभिः ॥ ६.५८.१० ॥
二人同乘一辆战车,迅速以锋利、节弯的箭射穿了苏巴拉之子(沙恭尼)的军队。
6.58.11
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् ।
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ ६.५८.११ ॥
德罗纳与毗湿摩在战斗中奋力作战,以饰有鹤羽的锐利箭矢开始摧毁法王的军队。
6.58.12
ततो धर्मसुतोक राजा माद्रीपुत्रौ च पाण्डवौ ।
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥ ६.५८.१२ ॥
于是法王之子(即般遮罗的王)与摩德利之二子般度族人,在众军注视之下,冲向德罗纳的阵列。
6.58.13
तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् ।
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥ ६.५८.१३ ॥
那里发生了一场极其宏大、喧嚣而令人毛骨悚然的战斗,犹如往昔天神与阿修罗之间那场可怕的战争。
6.58.14
कुर्वाणौ सुमहत्कर्म भीमसेनघटोत्कचौ ।
दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत् ॥ ६.५८.१४ ॥
正当毗摩娑那与迦托迦奇建立大功之时,难敌上前拦住了他们两人。
6.58.15
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम् ।
अतीत्य पीतरं युद्धे यदयुध्यत भारत ॥ ६.५८.१५ ॥
婆罗多之子啊,我们在那里看到了希丁巴之子令人惊叹的勇力,他在战斗中超过了他的父亲。
6.58.16
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम् ।
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥ ६.५८.१६ ॥
然而愤怒的毗摩娑那以箭射穿了不能容忍的难敌的心,那般笑着,这位般度之子所为。
6.58.17
ततो दुर्योधननो राजा प्रहारवरपीडितः ।
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ ६.५८.१७ ॥
于是,难敌王被那强烈的一击所伤,坐倒在战车的底板上,昏厥过去。
6.58.18
तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः ।
अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत ॥ ६.५८.१८ ॥
他的御者发现他已昏迷,便急忙将他载离战场;大王啊,于是军队溃散了。
6.58.19
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः ।
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥ ६.५८.१९ ॥
于是,毗摩以利箭射击四面奔逃的俱卢军队,从后面紧追不舍。
6.58.20
पार्षतश्च रथश्रोष्ठो धर्मपुत्रश्च पाण्डवः ।
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ॥ ६.५८.२० ॥
颇梨沙多之子与车士中的翘楚、持法之子般度子,在德罗纳注视、恒河之子毗湿摩注视之下攻击了那支军队。
6.58.21
जघ्नतुर्विशिकैस्तीक्ष्णैः परानीकविनाशनैः ।
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे ॥ ६.५८.२१ ॥
两人以摧毁敌军的利箭攻击;战斗中,你儿子的那支军队开始溃逃。
6.58.22
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ।
वार्यमाणं च भीष्मेण द्रोणेन च महात्मना ॥ ६.५८.२२ ॥
大车士毗湿摩与德罗纳不能阻止它;尽管被毗湿摩和高尚的德罗纳所阻拦。
6.58.23
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः ।
ततो रथसहस्रेषु विद्रवत्सु ततस्ततःक ॥ ६.५८.२३ ॥
那支军队在德罗纳与毗湿摩注视下溃逃;那时,数千辆战车四处奔逃……
6.58.24
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ।
सौबलीं समरे सेनां शातयेतां समन्ततः ॥ ६.५८.२४ ॥
萨乌跋陀罗与喜尼族的最勇者同乘一车,在战斗中从四面砍杀萨乌跋罗(沙恭尼)的军队。
6.58.25
शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ ।
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥ ६.५८.२५ ॥
那时,这二人——Śini之后与Kuru之雄——光辉照耀,如同新月之夜天空中的日与月。
6.58.26
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशांपते ।
ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥ ६.५८.२६ ॥
那时,愤怒的阿周那,人主啊,向你的军队倾下一阵箭雨,如乌云倾泻成流。
6.58.27
वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे ।
दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥ ६.५८.२७ ॥
那里,考拉瓦军队被Pārtha的箭射中,因绝望与恐惧而颤抖,逃走了。
6.58.28
द्रवतस्तान्समालक्ष्य भीष्मद्रोणौ महारथौ ।
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥ ६.५८.२८ ॥
看到他们逃跑,希望难敌好的大战车武士毗湿摩与德罗纳愤怒地阻止了他们。
6.58.29
ततो दुर्योधनो राजा समाश्वस्य विशांपते ।
न्यवर्तयत तत्सैन्यं द्रवमाणां समन्ततः ॥ ६.५८.२९ ॥
于是,人主啊,国王难敌安慰了他们,使那四面逃散的军队调转回来。
6.58.30
यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत ।
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः ॥ ६.५८.३० ॥
婆罗多啊,凡看见你儿子的人,无论在何处,那些大战车刹帝利便都调转回来。
6.58.31
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः ।
अन्योन्यस्पर्धया राजँल्लज्जया चावतस्थिरे ॥ ६.५८.३१ ॥
众人见其等退回,王啊,其余的人也因相互争胜和羞愧而停留不前。
6.58.32
पुनरावर्ततां तेषां वेग आसीद्विशांपते ।
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥ ६.५८.३२ ॥
众人再度返回的声势,人主啊,如同大海朝着月升之处涌起。
6.58.33
अन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः ।
अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ॥ ६.५८.३३ ॥
国王难敌见其等不返,便急忙走到山塔努之子毗湿摩那里,说了这番话。
6.58.34
पितामह निबोधेदं यत्त्वां वक्ष्यामि भारत ।
नानुरूपमहं मन्ये त्वयि जीवति कौरव ॥ ६.५८.३४ ॥
祖父啊,请听我要对您说的话。婆罗多之后、俱卢之子啊,只要您还活着,我认为这样做是不合适的。
6.58.35
द्रोणो चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृञ्जने ।
कृपे चैव महेष्वासे द्रवते यद्वरूथिनी ॥ ६.५८.३५ ॥
精通兵器中最为杰出的德罗纳,与他的儿子及亲友,还有大弓手克里帕——他们的军队正在溃逃。
6.58.36
न पाण्डवान्प्रतिलांस्तव मन्ये कथंचन ।
तथा द्रोणस्य सङ्ग्रमे द्रौमेश्चैव कृपस्य च ॥ ६.५८.३६ ॥
我认为您的人无论如何也抵挡不住般度之子们;同样,在战斗中,他们也抵挡不住德罗纳、德罗尼和克里帕。
6.58.37
अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह ।
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥ ६.५८.३७ ॥
祖父啊,般度之子的确值得您的恩惠。英雄啊,您为何忍受这支正被打垮的军队?
6.58.38
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे ।
न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ॥ ६.५८.३८ ॥
国王啊,在两军相遇之前,您就已经对我说过:我在战斗中不与般度五子、帕尔沙塔和萨谛奇交战。
6.58.39
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च ।
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥ ६.५८.३९ ॥
然而,他为你听了老师和克里巴的话,与迦尔纳一同,便立即思考该怎么办。
6.58.40
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे ।
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥ ६.५८.४० ॥
若你们二人在此战中不认为我应被舍弃,那么人中雄牛啊,就以与你们相称的勇武去作战吧。
6.58.41
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः ।
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥ ६.५८.४१ ॥
毗湿摩听了这些话,一再大笑,又因愤怒而转动双眼,对你的儿子说道。
6.58.42
बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः ।
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥ ६.५८.४२ ॥
国王啊,我已多次对你说过真实而有益的话:在战斗中,般度五子即使对诸天神与因陀罗(帝释天)联手也是不可战胜的。
6.58.43
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा ।
करिष्यामि यथाशक्ति पश्येदानीं सबान्धवः ॥ ६.५८.४३ ॥
今日我这年老、寿命将尽之人所能做的,我将依自己的力量去做。现在请与你的亲族一同观看。
6.58.44
अद्य पाण्डुसुतानेकः ससैन्यान्सह बन्धुभिः ।
सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः ॥ ६.५८.४४ ॥
今日我独自阻挡般度的诸子及其军队与亲族,使整个世界都看着。
6.58.45
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर ।
दध्मुः शङ्खान्मुदा युक्ता भेरीः संजघ्निरे भृशम् ॥ ६.५८.४५ ॥
人主啊,毗湿摩如此说后,你的诸子欢欣地吹响海螺,并猛烈敲击战鼓。
6.58.46
पाण्डवा हि ततो राजञ्श्रुत्वा तं निनदं महत् ।
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन् ॥ ६.५८.४६ ॥
大王啊,于是般度之子们听到那巨大的声响,吹响海螺,也敲响了战鼓与大鼓。