Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.59

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.59.1

प्रतिज्ञाते ततस्तस्मिन्युद्धे भीष्मेण दारुणे ।
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः ॥ ६.५९.१ ॥

当毗湿摩在那场可怕的战斗中发下誓言后,我的儿子深感悲痛,尤其愤怒,

6.59.2

भीष्मः किमकरोत्तत्र पाण्डवेयेषु भारत ।
पितामहे वा पञ्चालास्तन्ममाचक्ष्व सञ्जय ॥ ६.५९.२ ॥

婆罗多啊,毗湿摩在那里对般度之子做了什么?或者祖父与潘查拉人做了什么?桑闪耶,请告诉我。

6.59.3

गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत ।
पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे ॥ ६.५९.३ ॥

婆罗多啊,那一天上午大部分已经过去,太阳位于西方时,

6.59.4

जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्ससु ।
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ॥ ६.५९.४ ॥

当那些高尚的般度之子获胜而欢欣时,你的父亲提婆跋多(毗湿摩),通晓一切法的特殊义理者,向前进发。

6.59.5

अभ्ययाञ्जवनैरश्वैः पाण्डवानामनीकिनीम् ।
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः ॥ ६.५९.५ ॥

他驾着疾马向般度之子的军队推进,四面都有庞大的军队和你的儿子们护卫。

6.59.6

प्रावर्तत ततो युद्धं तुमुलं रोमहर्षणम् ।
अस्माकं पाण्डवैः सार्धमनायात्तव भारत ॥ ६.५९.६ ॥

于是,我方与般度之子之间爆发了一场喧嚣、令人毛骨悚然的激战;婆罗多啊,你方的人毫无节制地战斗。

6.59.7

घनुषां कूजतां तत्र तलानां चाभिहन्यताम् ।
महान्समभवच्छब्दो गिरीणामिव दीर्यताम् ॥ ६.५९.७ ॥

那里弓弦鸣响,手掌拍击之声大作,犹如群山崩裂。

6.59.8

तिष्ठ स्थितोऽस्मि विद्ध्यैनं निवर्तस्व स्थिरो भव ।
स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः ॥ ६.५९.८ ॥

“站住,我就在这里!认清他,回身,坚定些。”“我很坚定,打吧!”这样的呼声四面八方都能听到。

6.59.9

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च ।
शिलानामिव शैलेषु पतितानामभूद्ध्वनिः ॥ ६.५९.९ ॥

金甲、冠冕和旗幡上坠落之声,如同巨石落在山峰上。

6.59.10

पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः ।
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः ॥ ६.५९.१० ॥

落下的头颅与饰以珠宝的手臂触及大地后,成百上千地抽搐翻滚。

6.59.11

हृतोत्तमाह्गाः केचित्तु तथैवोद्यतकार्मुकाः ।
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाःक ॥ ६.५९.११ ॥

有些人头颅已被斩去,但那些男子中的俊杰依然举着弓、握着兵器挺立着。

6.59.12

प्रावर्तत महावेगा नदी रुधिरवाहिनी ।
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा ॥ ६.५९.१२ ॥

一条湍急而浩大的河流开始奔涌,载着鲜血,以象尸为岩石,可怖而满是血肉泥泞。

6.59.13

वरश्वनरनागानां शरीरप्रभवा तदा ।
परलोकार्णवमुखी गृध्रगोमायुमोदिनी ॥ ६.५९.१३ ॥

那时,由优良的马、人和象的尸体所生的河流,河口面向彼岸世界的大海,使秃鹫和豺狼欢喜。

6.59.14

न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप ।
यथा तव सुतानां च पाण्डवानां च भारत ॥ ६.५९.१४ ॥

大王啊,你的儿子们与般度子孙之间的这样的战斗,我从未见过,也从未听说,婆罗多啊。

6.59.15

नासीद्रथपथस्तत्र यौधैर्युधि निपातितैः ।
गजैश्च पतितैर्नीलैर्गिरिश्रृङ्गैनिरवावृतः ॥ ६.५९.१५ ॥

战车的道路已经不存在,被战死的武士和倒下的如山峰般黑色的大象完全覆盖。

6.59.16

विकीर्णैः कवचैश्चित्रैः शिरस्त्रणैश्च मारिष ।
शुशुभे तद्राणस्थानं शरदीव नभस्तलम् ॥ ६.५९.१६ ॥

尊者啊,那战场上散落着色彩斑斓的铠甲和头盔,闪耀如同秋天的天空。

6.59.17

विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः ।
अभीताः समरे शत्रूनभ्यधावन्त दर्पिताः ॥ ६.५९.१७ ॥

有些人被箭射穿,拖着肠子,仍无所畏惧、骄傲地在战斗中冲向敌人。

6.59.18

तात भ्रातः सखे बन्धो वयस्य मम मातुल ।
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे ॥ ६.५९.१८ ॥

“父亲啊!兄弟啊!朋友啊!亲人啊!伴侣啊!我的舅父啊!不要抛弃我!”战场上倒下的其他人这样哭喊着。

6.59.19

अथाभ्येहि त्वमागच्छ किं भीतोसि क्व यास्यसि ।
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः ॥ ६.५९.१९ ॥

现在上前来吧!你为何害怕,要逃往何处?我在战场上屹立,不要惧怕——其他人这样高声呼喊。

6.59.20

तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमीच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ ६.५९.२० ॥

那里,山塔努之子毗湿摩,总是将弓拉成圆形,射出尖端燃烧的箭,如同毒蛇。

6.59.21

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः ।
जघान पाण्डवरथानादिश्य भारतर्षभ ॥ ६.५९.२१ ॥

他以箭将四方化为一条道路,坚守誓愿,婆罗多之雄啊,他瞄准般度之子的战车将其击毁。

6.59.22

स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम् ।
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते ॥ ६.५९.२२ ॥

他在车厢上翻飞舞动,显示手上的敏捷,大王啊,他时隐时现,如同旋转的火轮。

6.59.23

तमेकं समरे शूरं पाण्डवाः सृञ्जयैः सह ।
अनेकशतसाहस्रं समपश्यन्त लाघवात् ॥ ६.५९.२३ ॥

在战场上,般度之子与斯林佳耶人因他的迅捷,将这一位英雄看作成百上千。

6.59.24

मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे ।
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः ॥ ६.५९.२४ ॥

那里的人们以为毗湿摩如同幻化而成;在东方看见他,又在西方也看见他。

6.59.25

उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो ।
एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत ॥ ६.५९.२५ ॥

啊,君主,在北方、又在南方如此看见他之后,那位英雄、恒河之子,就这样在战场上被人看见了。

6.59.26

न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम् ।
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून् ॥ ६.५९.२६ ॥

般度之子中无人能如此看清他;他们只看见许多从毗湿摩弓上射出的箭矢。

6.59.27

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम् ।
व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु ॥ ६.५९.२७ ॥

他在战场上建立功绩、歼灭军队,许多各式各样的人在那场战斗中大声哀号。

6.59.28

अमानुषेण रूपेण चरन्तं पितरं तव ।
शलभा इव राजानः पतन्ति विधिचोदिताः ॥ ६.५९.२८ ॥

在您的父亲——那以非人形态行走的人——面前,被命运驱使的国王们像飞蛾一样纷纷倒下。

6.59.29

भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः ।
न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे ॥ ६.५९.२९ ॥

毗湿摩之火在震怒中为了毁灭而成千上万地燃烧;在战斗中,毗湿摩的任何一支箭都没有白费。

6.59.30

नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः ।
भिनत्त्येकेन बाणेन सुमुखेन पतत्रिणा ॥ ६.५९.३० ॥

由于人、象、马的身体众多,他用一支尖端精美、带羽的箭就刺穿了轻装的战士。

6.59.31

गजं कंकटसन्नद्धं वज्रेणेव शिलोच्चयम् ।
द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि ॥ ६.५९.३१ ॥

他击倒披着铠网的大象,如雷电击碎巨石堆;又击倒两三名紧靠一起、身披甲胄的象兵。

6.59.32

नाराचेन सुमुक्तेन निजघान पिता तव ।
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन ॥ ६.५९.३२ ॥

你的父亲以精准射出的铁箭将他们击杀;凡在战场上迎面而来的人,无论是谁,那位人中之虎的毗湿摩都将其杀死。

6.59.33

मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते ।
एवं सा धर्मराजस्य वध्यमाना महाचमूः ॥ ६.५९.३३ ॥

我看到他片刻,他倒在地上可见。正义之王的那支大军就这样被屠杀着。

6.59.34

भीष्मेणातुलवीर्येण व्यशीर्यत संहस्रधा ।
प्राकम्पत महासेना शरवर्षेण तापिता ॥ ६.५९.३४ ॥

无与伦比的勇力者毗湿摩将其击碎成千片;大军被箭雨灼烧,颤抖不已。

6.59.35

पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः ।
यतमानाऽपि ते वीरा द्रवमाणान्महारथान् ॥ ६.५९.३५ ॥

当瓦苏提婆、普利塔之子和式坎丁观看之时,那些英雄虽然竭力,也无法阻止逃遁的大车战士。

6.59.36

नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ।
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ॥ ६.५९.३६ ॥

他们无法阻挡被毗湿摩之箭折磨的人;那支大军正被一位勇力堪比大因陀罗之人屠杀。

6.59.37

अभज्यत महाराज न च द्वौ सह धावतः ।
आविद्धरनागाश्वं पतितध्वजकूबरम् ॥ ६.५९.३७ ॥

大王啊,那支军队溃散了;连两个人都无法一同奔逃。象与马中箭倒下,旗帜与车辕散落在地。

6.59.38

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ।
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ॥ ६.५९.३८ ॥

般度之子的军队陷入惊呼而失去知觉,被击倒;此处父杀子,子也同样杀父。

6.59.39

प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ।
विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः ॥ ६.५९.३९ ॥

一位朋友被天命之力所驱使,呼唤他亲爱的朋友;般度之子的其他士兵则脱下了铠甲。

6.59.40

विनुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत ।
तद्गोकुलमिवोद्धान्तमुद्धान्तरथयूथपम् ॥ ६.५९.४० ॥

婆罗多啊,只见士兵披散着头发奔逃;那支军队如惊散的牛群一般四散,连车队的首领也被冲散。

6.59.41

ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ।
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ॥ ६.५९.४१ ॥

那时,般度之子的军队在痛苦的哀号中可见;看到那支正在溃散的军队,耶达瓦的欢喜者(黑天)……

6.59.42

उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ।
असं स कालः संप्राप्तः पार्थ पस्तेऽभिकाङ्क्षितः ॥ ६.५९.४२ ॥

他(黑天)勒住良车,对凶猛的般若(阿周那)说:“般若啊,你所期盼的那个时刻现在已经到来……”

6.59.43

प्रहरस्व नरव्याघ्र न चेन्मोहाद्विमुह्यसे ।
यत्त्वया कथितं वीर पुरा राज्ञां समागमे । ॥ ६.५९.४३ ॥

人中之虎啊,若你未因迷惑而昏乱,便出击吧。英雄啊,去完成你昔日在诸王集会上所宣之言吧。

6.59.44

भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥ ६.५९.४४ ॥

以毗湿摩和德罗纳为首的持国之子的一切战士,连同其随从,凡在战中与我交锋者,我都将杀之。

6.59.45

इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम ।
बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः ॥ ६.५९.४५ ॥

故此,贡蒂之子、降伏敌人者啊,请践行那句真实之言。比跋特苏啊,看吧,你自己的军队正在四处溃散。

6.59.46

द्रवतश्च महीपालान्पश्य यौधिष्ठिरे बले ।
दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम् ॥ ६.५९.४६ ॥

看那些在坚战军中奔逃的诸王吧;因为他们在战场上看见毗湿摩,宛如张口的死神,因而逃散。

6.59.47

भयार्ताः प्रपलायन्ते सिंहात्क्षुद्रमृगा इव ।
एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः ॥ ६.५९.४७ ॥

他们因恐惧而惊慌,如小鹿遇见狮子般奔逃。被如此告知后,财主(阿周那)回答了婆苏提婆(克里希那)。

6.59.48

नोदयाश्वान्यतो भीष्मो विगाहे तद्वलार्णवम् ।
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥ ६.५९.४८ ॥

把马驾向毗湿摩所在之处吧。我将投入那军队之海。我要击倒那不可战胜的、年迈的库鲁祖父。

6.59.49

ततोऽश्वान्रजतप्रकख्यान्नोदयामास माधवः ।
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव ॥ ६.५९.४९ ॥

于是摩陀婆驱策如白银般闪亮的马匹,驶向毗湿摩的战车所在之处,大王啊,那战车如太阳般难以直视。

6.59.50

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥ ६.५९.५० ॥

于是坚战的大军再次回转,看见力臂强大的阿周那在战场上向毗湿摩冲去。

6.59.51

ततो भीष्मःक कुरुश्रेष्ठ सिंहवद्विनदन्मुहुः ।
धनञ्जयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ ६.५९.५१ ॥

于是,俱卢之最,毗湿摩如狮子般反复咆哮,迅速以箭雨遮覆了财主的战车。

6.59.52

क्षणेन स रथस्तस्य सहयः कसहसारथिः ।
शरवर्षेण महता संछन्नो न प्रकाशते ॥ ६.५९.५२ ॥

转瞬之间,他的战车连同马匹、旗帜和御者都被大量箭雨覆盖,不再可见。

6.59.53

वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान् ।
चोदयामास तानश्वान्विभिन्नान्भीष्मसायकैः ॥ ६.५९.५३ ॥

然而婆苏提婆(克里希那)毫不慌乱,保持镇定,坚定地驱策那些被毗湿摩的箭所射穿的马匹。

6.59.54

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्वा त्रिभिः शरैः ॥ ६.५९.५४ ॥

于是阿周那拿起发出如云雷般声响的神弓,以三支箭斩断毗湿摩的弓并将其击落。

6.59.55

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ ६.५९.५५ ॥

那被折断了弓的俱卢子孙又取了另一把大弓;在眨眼之间,你的父亲便为它上了弦。

6.59.56

विचकर्ष ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥ ६.५९.५६ ॥

于是他用双臂拉开了那发出如云雷般轰鸣的弓;阿周那愤怒之下,也将那把弓斩断了。

6.59.57

तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ।
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन ॥ ६.५९.५७ ॥

珊塔努之子赞叹他的敏捷:“善哉,普利塔之子!善哉,大臂者!善哉,般度之子!”

6.59.58

त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय ।
प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह ॥ ६.५९.५८ ॥

“财富征服者啊,这伟大的功绩正适合你。孩子,我非常高兴;现在与我交战吧。”

6.59.59

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः ।
मुमोच समरे वीरः शरान्पार्थरथं प्रति ॥ ६.५९.५९ ॥

这样赞美了普利塔之子之后,那位英雄又拿起另一把大弓,在战斗中向阿周那的战车射出箭矢。

6.59.60

अदर्शयद्वासुदेवो हययाने परं बलम् ।
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्व्यचरल्लुघु ॥ ६.५९.६० ॥

婆苏提婆在马车中展现了他至高的力量;使他的箭矢落空,他迅速地绕圈移动。

6.59.61

तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ ।
विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत ॥ ६.५९.६१ ॥

于是毗湿摩以锐利的箭矢牢牢射中毗湿奴之子黑天与财富者(阿周那)的全身,婆罗多啊。

6.59.62

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लेखनाङ्क्तितौ ॥ ६.५९.६२ ॥

这两只人中猛虎被毗湿摩的箭所伤,闪耀着光芒,宛如两头怒吼的公牛,身上留着牛角抵触的痕迹。

6.59.63

पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः ।
कृष्णयोर्युधि संरब्धो भीष्माः प्राच्छादयद्दिशः ।
पार्थोऽपि समरे क्रुद्धो भीष्मस्यावारयद्दिशः ॥ ६.५९.६३ ॥

愤怒至极的毗湿摩又在战场上以数十万箭矢遮蔽两位黑天的所有方向。愤怒的普利塔之子在战斗中也阻挡了毗湿摩的方位。

6.59.64

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः ।
मुहुरभ्यर्दयन्भीष्मः प्रहस्य स्वनवत्तदा ॥ ६.५९.६४ ॥

愤怒的毗湿摩以锐利的箭使瓦尔什涅耶(黑天)颤抖。他反复逼迫,随即大笑并咆哮。

6.59.65

ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम् ।
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम् ॥ ६.५९.६५ ॥

于是大臂的黑天看到战场上毗湿摩的勇武,又观察到普利塔之子在战斗中的温和之态,

6.59.66

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ।
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ॥ ६.५९.६६ ॥

看见毗湿摩在战场上不停地射出箭雨,抵达两军中央,灼灼如太阳。

6.59.67

वारन्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ।
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ॥ ६.५९.६७ ॥

毗湿摩击杀般杜之子军中的上等战车武士与士兵,造成如劫末般的毁灭,身处坚战的军中。

6.59.68

अमृष्यमाणो भगवान्केशवः परवीरहा ।
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम् ॥ ६.५९.६८ ॥

薄伽梵克沙瓦不能忍受,乃是击杀敌方英雄者,心量无限,心想:坚战的军中已无力量。

6.59.69

एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान् ।
किं नु पाण्डुसुतान्युद्धे सबलान्सपदानुगान् ॥ ६.५९.६९ ॥

毗湿摩在战场上一日之内便能毁灭天神与阿修罗,那么在战争中,他怎会不毁灭般杜之子及其军队和步兵随从呢?

6.59.70

द्रवते च महासैन्यं पाण्डवस्य महात्मनः ।
एते च कौरवास्तूर्णं प्रभग्नान्वीक्ष्य सोमकान् ॥ ६.५९.७० ॥

大心的般达瓦的大军正在溃逃;而这些俱卢人见索摩迦军迅速溃败,便欢欣鼓舞。

6.59.71

प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम् ।
सोहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः ॥ ६.५९.७१ ॥

在战场上见到祖父,他们欢喜地冲上前去。为了般达瓦们,我今日披甲而战,必将杀死毗湿摩。

6.59.72

भारमेतं विनेष्यामि पाण्डवानां महात्मनाम् ।
अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे ॥ ६.५९.७२ ॥

我要卸下大心般达瓦们的这份重担;因为阿周那虽在战中被锐利的箭所射中——

6.59.73

कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात् ।
तथा चिन्तयतस्तस्य भूय एव पितामहः ।
प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति ॥ ६.५९.७३ ॥

在战斗中,毗湿摩出于敬重不知该如何是好。他正这样思索时,祖父勃然大怒,再次向般度之子的战车射出箭矢。

6.59.74

तेषां बहुत्वासु भृसं शराणां ।
दिशश्च सर्वाः पिहिता बभूवुः ।
न चान्तरिक्षं न दिशो न भूमि-
र्न भास्करोऽदृश्यत रश्मिमालीक ॥ ६.५९.७४ ॥

由于那些箭的极其众多,所有方向都被密密地遮蔽。天空不见了,方向不见了,大地也不见了,手持光芒花环的太阳也看不见了。

6.59.75

ववुश्च वातास्तुमुलाः सधूमा ।
दिशश्च सर्वाः क्षुभिता बभूवुः।
द्रोणो विकर्णोऽथ जयद्रथश्च ।
भूरिश्रवाः कृतवर्मा कृपश्च ॥ ६.५९.७५ ॥

狂暴的烟雾风刮起,所有方向都陷入骚动。德罗纳、毗迦尔纳、胜车、布利什罗婆斯、克里达瓦尔曼和克利巴也在场。

6.59.76

श्रुतायुरम्बष्ठपतिश्च राजा ।
विन्दानुविन्दौ च सुदक्षिणश्च।
प्राच्याश्च सौवीरगणाश्च सर्वे ।
वसातयः क्षुद्रकमालवाश्च ॥ ६.५९.७६ ॥

还有安巴什塔之主、国王室鲁陀优斯,文达与阿努文达,苏达克希那,东方诸王,所有索毗罗人部众,婆萨提人,刹德罗迦与摩罗婆人。

6.59.77

किरीटिनं त्वरमाणाभिस्रु-
र्निदेशगाः शान्तनवस्य राज्ञः।
तं वाजिपादातरथौघजालै-
रनेकसाहस्रशतैर्ददर्श ॥ ६.५९.७७ ॥

遵从沙antanu之子国王(毗湿摩)命令的战士们,急速向戴冠者(阿周那)进发;以骑兵、步兵和战车组成的罗网,以数十万之众,将他包围并看见了他。

6.59.78

किरीटिनं संपरिवार्यमाणं ।
शिनेर्नप्ता वारणयूथपैश्च।
ततस्तु दृष्ट्वार्जुनवासुदेवौ ।
पदातिनागाश्वरथैः समन्तात् ॥ ६.५९.७८ ॥

当戴冠的阿周那被四面包围时,Śini的孙子与象群首领们看到阿周那和Vāsudeva被步兵、象、马和战车从四面包围。

6.59.79

अभिद्रुतौ शस्त्रभृतां वरिष्ठौ ।
शिनिप्रवीरोऽभिससार तूर्णम्।
स तान्यनीकानि महाधनुष्मान् ।
शिनिप्रवीरः सहसाऽभिपत्य ॥ ६.५९.७९ ॥

当这两位最优秀的持兵者遭受攻击时,Śini的英雄迅速前进。那位大弓箭手Śini英雄突然猛冲向那些军队。

6.59.80

चकार साहाय्यमथार्जुनस्य ।
विष्णुर्यथा वृत्रनिषूदनस्य।
विशीर्णनागाश्वरथध्वजौघं ।
भीष्मेण वित्रासितसर्वयोधम् ॥ ६.५९.८० ॥

于是他协助阿周那,如毗湿奴协助摧毁弗栗多者。因毗湿摩使所有战士恐惧,象、马、战车和旗帜的队伍溃散了。

6.59.81

युधिष्ठिरानीकमभिद्रवन्तं ।
प्रोवाच संदृश्य शिनिप्रवीरः ।
क्व क्षत्रिया यास्यथ नैष धर्मः ।
सतां पुरस्तात्कथितः पुराणैः ॥ ६.५९.८१ ॥

看到他们攻击坚战的军队,Śini的英雄说道:“诸位刹帝利啊,你们要去哪里?这不是法,正如古代典籍早已为善人所宣示的。”

6.59.82

मा स्वां प्रतिज्ञां त्यजत प्रवीराः ।
स्वं वीरधर्मं परिपालयध्वम्।
तान्वासवानन्तरजो निशाम्य ।
नरेन्द्रमुख्यान्द्रवतः समन्तात् ॥ ६.५९.८२ ॥

“诸位英雄,不要舍弃你们的誓言;守护你们英雄的本分。”因陀罗的幼弟(阿周那)听到后,看见那些主要的国王从四面逃散。

6.59.83

पार्थस्य दृष्टवा मृदुयुद्धातां च ।
भीष्मं च सङ्ख्ये समुदीर्यमाणम्।
अमृष्यमाणः स ततो महात्मा ।
यशस्विनं सर्वदशार्हभर्ता ॥ ६.५९.८३ ॥

见阿周那的温和战斗,又见毗湿摩在战场上被击中,那位伟大、荣耀的十达尔诃之主再也无法忍受。

6.59.84

उवाच शैनेयमभिप्रशंसन् ।
दृष्ट्वा कुरूनापततः समग्रान्।
ये यान्ति ते यान्तु शिनिप्रवीर ।
येऽपि स्थिताः सात्वत तेऽपि यान्तु ॥ ६.५९.८४ ॥

他赞扬舍伊尼耶(萨提亚基),看见所有俱卢从四面八方冲来,说道:“去的人就去吧;站在这里的人,啊,萨特瓦塔,始尼英雄,他们也去吧。”

6.59.85

भीष्मं रथात्पश्य निपात्यमानं ।
द्रोणं च सङ्ख्ये सगणं मयाऽद्य।
न सारथेः सात्वत कौरवाणां ।
क्रुद्धस्य मुच्येत रणेऽद्य कश्चित् ॥ ६.५९.८५ ॥

看毗湿摩从战车上被击落;今天在战斗中,我将击落德罗纳及其随从。啊,萨特瓦塔,今天在战斗中,俱卢族无人能逃脱这愤怒的御者之手。

6.59.86

तस्मादहं गृह्य रथाङ्गमुग्रं ।
प्राणं हरिष्यामि महाव्रतस्य।
निहत्य भीष्मं सगणं तथाजौ ।
द्रोणं च शैनेय रथप्रवीरौ ॥ ६.५९.८६ ॥

因此我将拿起可怕的战车轮,夺取大誓者毗湿摩的生命。啊,舍伊尼耶,在战斗中杀死毗湿摩及其随从,也杀死德罗纳,这两位战车武士中的翘楚。

6.59.87

संपादयिष्याम्यहमद्य हृष्टः ॥ ६.५९.८७ ॥

今天,我怀着喜悦,将完成此事。

6.59.88

इतीदमुक्त्वा स महानुभावः ।
सस्मार चक्रं निशितं पुराणम्।
सुदर्शनं चिन्तितमात्रमेव ।
तस्याग्रहस्तं स्वयमारुरोह ॥ ६.५९.८८ ॥

说完这话,那位大威力者想起了古老锋利的神轮苏达尔沙那;念头一起,它便自行落到他伸出的手上。

6.59.89

तच्चक्रपद्मं प्रगृहीतमाजौ ।
रराज नारायणबाहुनालम्।
यथादिपद्मं तरुणार्कवर्णं ।
रराज नारायणनाभिजातमक् ॥ ६.५९.८९ ॥

这朵在战场上高举的轮状莲花,以那罗延的手臂为茎,闪耀如从那罗延肚脐中生出的原初莲花,颜色如初升的太阳。

6.59.90

तत्कृष्णकोपोदयसूर्यबुद्धं ।
क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्।
तेस्यैव देहोरुसरःप्ररूढं ।
रराज नारायणबाहुनालम् ॥ ६.५९.९० ॥

它在克里希那愤怒的初升太阳下绽放,花瓣精致,尖端锋利如剃刀之刃,生长于他宽广身躯的湖中,以那罗延的手臂为茎,光彩焕然。

6.59.91

वेगेन कृष्मः प्रससार भीष्मम् ॥ ६.५९.९१ ॥

克里希那以疾速向毗湿摩冲去。

6.59.92

घनो यथा खे तडितावनद्धः ॥ ६.५९.९२ ॥

如天空中被闪电缠绕的乌云。

6.59.93

तमात्तचक्रं प्रणदन्तमुच्चैः ।
क्रुद्धं महेन्द्रावरजं समीक्ष्य ।
सर्वाणि भूतानि भृशं विनेदुः ।
क्षयं कुरूणामिव चिन्तयित्वा ॥ ६.५९.९३ ॥

众生见那愤怒的因陀罗之弟手持神轮、高声咆哮,便大声惊呼,仿佛在思量俱卢族的毁灭。

6.59.94

स वासुदेवः प्रगृहीतचक्रः ।
संवर्तयिष्यन्निव सर्वलोकम्।
अभ्युत्पतँल्लोकगुरुर्बभासे ।
भूतानि धक्ष्यन्निव धूमकेतुः ॥ ६.५९.९४ ॥

手持法轮的婆苏提婆,仿佛要毁灭一切世界,世界之师跃身而起,光辉如将焚烧众生的彗星。

6.59.95

गोविन्दमाजावविमूढचेताः ॥ ६.५९.९५ ॥

在战场上心不迷乱的人,看见了哥文达。

6.59.96

एह्येहि देवेश जगन्निवास ।
नमोस्तु ते माधव चक्रपाणे।
प्रसह्य मां पातय लोकनाथ ।
रथोत्तमात्सर्वशरण्य सङ्ख्ये ॥ ६.५९.९६ ॥

来吧,来吧,诸神之主,世界的住所!摩陀婆,手持法轮者,向你致敬。世界之主啊,请用力把我从这最好的战车上推下,你是战场上众生的皈依处!

6.59.97

त्वया हतस्यापि ममाऽद्य कृष्ण ।
श्रेयः परिस्मिन्निह चैव लोके।
संभावितोऽस्म्यन्धकवृष्णिनाथ ।
लोकैस्त्रिभिर्वीर तवाभियानात् ॥ ६.५९.९७ ॥

克里希那!即使今天被你杀死,我也会在此世和来世获得福祉。安陀迦与毗湿尼的主宰,英雄啊!因你向我进攻,我受到三界的尊崇。

6.59.98

रथादवप्लुत्य ततस्त्वरावान् ।
पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्।
जग्राह पीनोत्तमलम्बबाहुं ।
बाह्वोर्हरिं व्यायतपीनबाहुः ॥ ६.५९.९८ ॥

于是,普利塔之子急忙跳下战车,追赶这位雅达瓦英雄,抓住了他粗壮、优美、修长的双臂;这位长而粗壮臂膀的英雄以双臂抓住了哈利。

6.59.99

निगृह्यमणाश्च तदाऽऽदिदेवो ।
भृश सरोषः किल नाम योगी ।
आदाय वेगेन जगाम विष्णु-
र्जिष्णुं महावात इवैकवृक्षम् ॥ ६.५९.९९ ॥

于是,原初之神克制自己却极为愤怒,以瑜伽士之姿迅速带走了胜者(阿周那),如狂风卷走一棵树。

6.59.100

पार्थस्तु विष्टभ्य बलेन पादौ ।
भीष्मान्तिकं तूर्णमभिद्रवन्तम्।
बलान्निजग्राह हरिं किरीटी ।
पदेऽथ राजन्दशमे कथंचित् ॥ ६.५९.१०० ॥

频陀之子以力制住其双足,那冠饰者阿周那强行抓住了疾奔向毗湿摩的哈利(克里希纳)。大王啊,在第十步上,勉强。

6.59.101

अवस्थितं च प्रणिपत्य कृष्णं ।
प्रीतोऽर्जुनः काञ्चनचित्रमाली।
उवाच कोपे प्रतिसंहरेति ।
गतिर्भवान्केशव पाण्डवानाम् ॥ ६.५९.१०१ ॥

阿周那欢喜地向站立的克里希纳礼拜,那身戴金饰花环者说道:“请收回怒火。keśava啊,您是般度诸子的归依。”

6.59.102

न हास्यते कर्म यथाप्रतिज्ञं ।
पुत्रैः शपे केशव सोदरैश्च ।
अन्तं करिष्यामि यथा कुरूणां ।
त्वयाऽहमिन्द्रानुजसंप्रयुक्तः ॥ ६.५९.१०२ ॥

行动不会按誓言被放弃。keśava啊,我以我的儿子和兄弟起誓:有您相助,我将终结俱卢族。

6.59.103

ततः प्रतिज्ञां समयं च तस्य ।
जनार्दनः प्रीतमना निशम्य।
स्थितः प्रिये कौरवसत्तमस्य ।
रथं सचक्रः पुनरारुरोह ॥ ६.५९.१०३ ॥

于是,闻听他的誓言与承诺,阇那陀那心中欢喜。他站在可爱的俱卢族俊杰身旁,再次登上战车,连同车轮一起。

6.59.104

ततः प्रतिज्ञां समवाप्य भीष्मः ।
कृताञ्चलिः स्तुत्यमथाकरोद्वै ।
त्रैविक्रमे यस्य वपुर्बभासे ।
तथैव दृष्ट्वा तु समुञ्ज्वलन्तम् ॥ ६.५९.१०४ ॥

于是,毗湿摩得到誓言后,合掌赞颂那值得赞颂者——其身在三步中光辉闪耀;看到他如此光芒四射。

6.59.105

प्रगृह्य शङ्खं द्विषताकं निहन्ता ।
स तानभूषून्पुनराददानः ।
भीष्मं शरैः संपरिवार्य सङ्ख्ये ।
चिच्छेद भूरिश्रवसश्च चापम् ॥ ६.५९.१०५ ॥

持螺之杀敌者再次拿起那些兵器,在战斗中以箭将毗湿摩团团围住,并斩断了薄利室罗婆的弓。

6.59.106

शल्यं च विद्ध्वा नवभिः पृषत्कै-
र्दुर्योधं वक्षसि निर्बिभेद।
विनादयामास ततो दिशश्च ।
स पाञ्चजन्यस्य रवेण शौरिः ॥ ६.५९.१०६ ॥

他又以九支箭射穿沙利耶,并刺穿了难敌的胸膛;随后,他以般遮你耶罗螺的声音使四方回响。

6.59.107

व्याविद्धनिष्काङ्गदकुण्डलं तं ।
रजोविकीर्णाञ्चितपद्मनेत्रम् ।
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं ।
विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः ॥ ६.५९.१०७ ॥

众库卢勇士看见他:项链、臂钏和耳环摇晃,尘土中莲花般的眼睛明亮,牙齿洁白,手持海螺,他们便大声呼喊。

6.59.108

मृदङ्गभेरीपणवप्रणादा ।
नेमिस्वना दुन्दुभिनिःस्वनाश्च।
ससिंहनादाश्च बभूवुरुग्राः ।
सर्वेष्वनीकेषु ततः कुरूणाम् ॥ ६.५९.१०८ ॥

于是,在库卢的所有军阵中,升起了猛烈的鼓声:穆里丹伽鼓、贝利鼓、帕纳瓦鼓的轰鸣,战车轮的隆隆声,杜敦毗鼓的响声,以及狮子般的吼声。

6.59.109

गाण्डीवघोषः स्तनयित्नुकल्पो ।
जगाम पार्थस्य नभो दिशश्च।
जग्मुश्च बाणा विमलाः प्रसन्नाः ।
सर्वा दिशः पाण्डवचापमुक्ताः ॥ ६.५९.१०९ ॥

甘狄拔弓的弦响如雷声,传遍了阿周那的天空与四方;而般度之子弓上射出的明净澄澈之箭,飞向每一个方向。

6.59.110

तं कौरवाणामधिपो जवेन ।
भीष्मेण भूरिश्रवसा च सार्धम्।
अभ्युद्ययावुद्यतबाणपाणिः ।
कक्षं दिधक्षन्निव धूमकेतुः ॥ ६.५९.११० ॥

那位俱卢族的统帅与毗湿摩、浮力须羅一同迅疾前进,手中举着箭,宛如欲焚烧干草的彗星之火。

6.59.111

अथार्जुनाय प्रजिघाय भल्लान् ।
भूरिश्रवाः सप्त सुवर्णपुङ्खान्।
दुर्योदनस्तोमरमुग्रवेगं ।
शल्यो गदां शान्तनवश्च शक्तिम् ॥ ६.५९.१११ ॥

于是浮力须羅向阿周那射出七支带金羽的倒钩箭;难敌投出猛速的标枪,沙利耶掷出铁锤,山塔努之子毗湿摩掷出长矛。

6.59.112

स सप्तभिः सप्त शरप्रवेकान् ।
संवार्य भीरिश्रवसा विसृष्टान् ।
शितेन दुर्योधनबाहुमुक्तं ।
क्षुरेण तत्तोमरमुन्ममाथ ॥ ६.५९.११२ ॥

他以七箭挡下浮力须羅所射之箭,又以利刃箭(剃刀箭)将难敌臂中射出的那支标枪折断。

6.59.113

ततः शुभामापततीं स शक्तिं ।
विद्युत्प्रभां शान्तनवेन मुक्ताम्।
गदां च मद्राधिपबाहुमुक्तां ।
द्वाभ्यां शराभ्यां निचर्त वीरः ॥ ६.५९.११३ ॥

于是那位英雄以两箭射落山塔努之子毗湿摩所掷的那支闪电般明亮的吉祥长矛,以及摩德罗王臂中掷出的铁锤。

6.59.114

ततो भुजाभ्यां बलवद्विकृष्य ।
चित्रं धनुर्गाण्डिवमप्रमेयम् ।
माहेन्द्रमस्रं विधिवत्सुघोरं ।
प्रादुश्चकाराद्भुतमन्तरिक्षे ॥ ६.५९.११४ ॥

随后他双臂用力拉开奇妙无量的甘狄拔弓,依法发动因陀罗所有的极为可怖的神箭,在空中显现出奇迹。

6.59.115

तेनोत्तमास्त्रेण ततो महात्मा ।
सर्वाण्यनीकानि महाधनुष्मान्।
शरौघजालैर्विमलाग्निवर्णै-
र्निवारयामास किरीटमाली ॥ ६.५९.११५ ॥

于是,这位大心的大弓箭手、戴冠者,以那殊胜的神箭,用如纯火颜色的箭雨之网,阻挡了所有的军队。

6.59.116

शिलीमुखाः पार्थधनुःप्रमुक्ता ।
रथान्ध्वजाग्राणि धनूंषि बाहून् ।
निकृत्य देहान्विविशुः परेषां ।
नरेन्द्रनागेन्द्रतुरङ्गमाणाम् । ॥ ६.५९.११६ ॥

从阿周那之弓射出的箭,斩断敌人的战车、旗杆顶端、弓和手臂,钻入国王、大象与马匹的身体。

6.59.117

ततो दिशः सोऽनुदिशश्च पार्थः ।
शरैः सुधारैः समरे वितत्य ।
गाण्डीवशब्देन मनांसि तेषां ।
किरीटमाली व्यथयांचकार ॥ ६.५९.११७ ॥

于是,普利塔之子以锐利的箭充满了方位与隅位,并以干提婆弓的声音,使戴冠者搅乱了他们的心。

6.59.118

तस्मिंस्तथा घोरतमे प्रवृत्ते ।
शङ्खस्वना दुन्दुभिनिःस्वनाश्च।
अन्तर्हिता गाण्डिवनिःस्वनेन ।
बभूवुरुग्राश्वरथप्रणादाः ॥ ६.५९.११८ ॥

那场极为可怖的战斗展开之时,海螺之声与鼓声都被干提婆弓的弦响所掩没,只剩下马匹的猛烈嘶鸣与战车的轰鸣。

6.59.119

गाण्डीवशब्दं तमथो विदित्वा ।
विराटराजप्रमुखाः प्रवीराः।
पाञ्चालराजो द्रुपदश्च वीर-
स्तं देशमाजग्मुरदीनसत्त्वाः ॥ ६.५९.११९ ॥

听到那干提婆弓的声音,以维拉塔王为首的诸勇士,以及潘查拉王英勇的德鲁帕达,以无畏的勇气来到了那个地方。

6.59.120

सर्वाणि सैन्यानि तु तावकानि ।
यतोयतो गाण्डिवजः प्रणादः ।
ततस्ततः सन्नतिमेव जग्मु-
र्न तं प्रतीपोऽभिससार कश्चित् ॥ ६.५९.१२० ॥

你的全部军队,凡是听到从甘狄拔弓发出的声响之处,都俯首前往那里;没有人上前抵挡他。

6.59.121

तस्मिन्सुघोरे कनृप संप्रहारे ।
हताः प्रवीराः सरथाश्वसूताः।
गजाश्च नाराचनिपाततप्ता ।
महापताकाः शुभरुक्मकक्ष्याः ॥ ६.५९.१२१ ॥

在那场极其可怕的战斗中,大王啊,英雄们连同战车、马匹和御者一同被杀;被铁箭落下灼伤的象群,以及挂着大旗、饰有精美金鞍的象,也都倒下了。

6.59.122

परीतसत्वाः सहसा निपेतुः ।
किरीटिना भिन्नतनुत्रकायाः ।
दृढं हताः पात्रिभिरुग्रवेगैः ।
पार्थेन भल्लैर्विमलैः शिताग्नैः ॥ ६.५९.१२२ ॥

他们丧失了勇气,突然倒下;他们的身体和铠甲被戴冠者(阿周那)刺穿,被凶猛迅疾的箭深深击中——那是普利塔之子清澈、如火般锐利的薄刃箭。

6.59.123

निकृत्तयन्त्रा निहतेन्द्रकीला ।
ध्वजा महान्तो ध्वजिनिमुखेषु।
पदातिसङ्घाश्च रथाश्च सङ्ख्ये ।
हयाश्च नागाश्च धनञ्जयेन ॥ ६.५९.१२३ ॥

战车的机括被斩断,车轴钉被击落;大旗在军阵前列倒下;在战斗中,步兵群、战车、马匹和象群都被持财者(阿周那)杀死。

6.59.124

बाणाहतास्तूर्णमपेतसत्वा ।
विष्टभ्य गात्राणि निपेतुरुर्व्याम् ।
ऐन्द्रेण तेनास्त्रवरेण राजन् ।
महाहवे भिन्नतनुत्रदेहाः ॥ ६.५९.१२४ ॥

被箭射中后,他们很快失去了生气;虽竭力支撑肢体,仍倒在大地上。大王啊,在那场大战中,以那殊胜的因陀罗神箭,他们的身体和铠甲都被摧毁了。

6.59.125

ततः शरौघैर्निशितैः किरीटिना ।
नृदेहशस्त्रक्षतलोहितोदा।
नदी सुघोरा नरमेदफेना ।
प्रवर्तिता तत्र रणाजिरे वै ॥ ६.५९.१२५ ॥

于是,冠者(阿周那)以锐利的箭雨,在那战场上使一条极其可怖的河流奔涌而出,河中是人身与兵器伤口流出的血水,泛着人骨髓的泡沫。

6.59.126

वेगेन साऽतीव पृथुप्रवाहा ।
परेतनागाश्वशरीररोधाः।
नरेन्द्रमञ्जोच्छ्रितमांसपङ्काः ।
प्रभूतरक्षोगणभूतसेविता ॥ ६.५९.१२६ ॥

那条河水流湍急,河面极其宽阔;死象、死马与尸体堵塞其中;河中有诸王的骨髓和翻起的肉泥;无数罗刹群与鬼魂侍随其旁。

6.59.127

शिरःकपालाकुलकेशशाद्वला ।
शरीरसङ्घातसहस्रवाहिनी ।
विशीर्णनानाकवचोर्मिसंकुला ।
नराश्वनागास्थिनिकृत्तशर्करा ॥ ६.५९.१२७ ॥

河岸生着由头颅骨与纠缠之发构成的草;它携带成千上万堆尸身;满是破碎的各种甲胄所成的波浪;河床的砾石是被斩断的人、马、象之骨。

6.59.128

श्वकङ्कशालावृकगृध्रकाकैः ।
क्रव्यादसङ्घैश्च तरक्षुभिश्च।
उपेतकूलां ददृशुर्मनुष्याः ।
क्रूरां महावैतरणीप्रकाशाम् ॥ ६.५९.१२८ ॥

人们看见那条残酷的河,两岸挤满了狗、秃鹫、豺、狼、鹰与乌鸦,以及成群的食肉兽和鬣狗,它如同大维塔拉尼河一般。

6.59.129

प्रवर्तितामर्जुनबाणसङ्घै-
र्मेदोवसासृकप्रवहां सुभीमाम्।
हतप्रवीरां च तथैव दृष्ट्वा ।
सेनां कुरूणामथ फल्गुनेन ॥ ६.५९.१२९ ॥

看见库鲁军队被阿周那的箭群引向流淌,流着脂肪、骨髓与血液,极其可怖,其勇士已被杀死;同样地,法尔古那(阿周那)……

6.59.130

ते चेदिपाञ्चालकरूषमत्स्याः ।
पार्थाश्च सर्वे सहिताः प्रणेदुः ।
जयप्रगल्भाःक पुरुषप्रवीराः ।
संत्रासयन्तः कुरुवीरयोधान् ॥ ६.५९.१३० ॥

车底、般遮罗、迦卢沙与鱼族,以及所有般度之子齐声吼叫,怀着胜利的豪气,这些男子中的英雄,惊吓着库鲁的英雄与战士。

6.59.131

हतप्रवीराणि बलानि दृष्ट्वा ।
किरीटिना शत्रुभयावहेन ।
वित्रास्य सेनां ध्वजिनीपतीनां ।
सिंहो मृगाणामिव यूथसङ्घान् ॥ ६.५९.१३१ ॥

看到主要英雄被杀的军队,令敌人恐惧的戴冠者惊吓了诸车队统帅的军队,如同狮子惊吓鹿群。

6.59.132

विनेदतुस्तावतिहर्षयुक्तौ ।
गाण्डीवधन्वा च जनार्दनश्च।
ततो रविं संवृतरश्मिजालं ।
दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः ॥ ६.५९.१३२ ॥

持甘狄拔弓者与生主,二人充满巨大的喜悦,齐声吼叫;随后,看见太阳被光线之网遮蔽,他们的肢体被兵器重伤……

6.59.133

तदैन्द्रमस्त्रं विततं च घोर-
मसह्यमुद्वीक्ष्य युगान्तकल्पम् ।
अथापयानं कुरवः सभीष्माः ।
सद्रोणदुर्योधनबाह्लिकाश्च ॥ ६.५९.१३३ ॥

看到因陀罗那展开的、可怖而难以承受的兵器,如同劫末,库鲁人与毗湿摩、德罗纳、难敌和跋利迦一起撤退了。

6.59.134

चक्रुर्निशां सन्धिगतां समीक्ष्य ।
विभावसोर्लोहितरागयुक्ताम्।
अवापय कीर्ति च यशश्च लोके ।
विजित्य शत्रूंश्च धनंजयोऽपि ॥ ६.५९.१३४ ॥

看到夜幕降临、染着落日红色的黄昏时分,他们便休整了;而财富的征服者也战胜了敌人,在世间获得了名声与荣耀。

6.59.135

ययौ नरेन्द्रैः सहसोदरैश्च ।
समाप्तकर्मा शिबिरं निशायाम्।
ततः प्रजज्ञे तुमुलः कुरूणां ।
निशामुखे घोरतमः प्रणादः ॥ ६.५९.१३५ ॥

他完成了任务,与众王和兄弟们一同夜里回到营帐。那时,在夜幕降临之际,库鲁人中爆发出一片可怕而喧嚣的呼喊。

6.59.136

रणे रथानामयुतं निहत्य ।
हता गजाः सप्तशतार्जुनेन ।
प्राज्याश्च सौवीरगणाश्च सर्वे ।
निपातिताः क्षुद्रकमालवाश्च ॥ ६.५९.१३६ ॥

在战斗中,阿周那杀死了一万辆战车,斩杀了七百头大象;索维罗的主要部众以及所有克舒德拉卡和摩罗婆人都被击倒。

6.59.137

महत्कृतं कर्म धनञ्जयेन ।
कर्तुं यथा नार्हति कश्चिदन्यः।
श्रुतायुरम्बष्ठपतिश्च राजा ।
तथैव दुर्मर्षणचित्रसेनौ ॥ ६.५९.१३७ ॥

财富征服者(阿周那)完成了伟大的功业,他人无法做到。安巴什陀之主国王室鲁塔尤斯,以及杜尔马尔沙那和citrasena同样(倒下了)。

6.59.138

द्रोणः कृपः सैन्धवबाह्लिकौ च ।
भूरिश्रवाः शल्यशलौ च राजन्।
अन्ये च योधाः शतशः समेताः ।
क्रुद्धेन पार्थेन रणस्य मध्ये ॥ ६.५९.१३८ ॥

德罗纳、克里帕、信度王与巴赫利卡、布利史罗婆、沙利耶与沙罗,大王啊,以及聚集在那里的数百名其他战士——在战斗中间,被愤怒的普利塔之子(阿周那)击倒。

6.59.139

स्वबाहुवीर्येण जिताः सभीष्माः ।
किरीटिना लोकमहारथेन।
इति ब्रुवन्तः शिबिराणि जग्मुः ।
सर्वे गणा भारत ये त्वदीयाः ॥ ६.५९.१३९ ॥

他们说:“凭着他自身的臂力,他们连同毗湿摩已被这位戴冠者、世界的大战车手所征服。”婆罗多啊,你的所有部众都说着这些话,回到了各自的营帐。

6.59.140

उल्कासहस्रैश्च सुसंप्रदीप्तै-
र्विभ्राजमानैश्च तथा प्रदीप्रैः।
किरीटिवित्रासितसर्वयोधा ।
चक्रे निवेशं ध्वजिनी कुरूणाम् ॥ ६.५९.१४० ॥

带着成千上万支燃烧明亮的火炬,被戴冠者(阿周那)惊吓的所有勇士的库鲁军队扎下了营地。