摩诃婆罗多 · 章 6.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.6.1
उक्तो द्वीपस्य संक्षेपो विधिवद्बुद्धिमंस्त्वया ।
तत्त्वज्ञश्चासि सर्वस्य विस्तारं ब्रूहि सञ्जय ॥ ६.६.१ ॥
你已依法简要地讲述了此洲。智慧通达万物真理的桑闍耶啊,现在请详述其广延。
6.6.2
यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ।
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥ ६.६.२ ॥
请说明此处所见大地的广度,正如月中可见的兔形之纹;之后你将谈及那棵无花果树。
6.6.3
एवं राज्ञा स पृष्टस्तु संजयो वाक्यमब्रवीत्। ॥ ६.६.३ ॥
国王如此发问,桑闍耶便说了这些话。
6.6.4
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः ।
नीलश्च वैदूर्यमयः श्वेतश्च शशिसन्निभः ॥ ६.६.४ ॥
雪山、金峰与最胜之山尼沙陀;由琉璃构成的青山,以及如月般洁白的白山。
6.6.5
सर्वधातुविचित्रश्च श्रृङ्गवान्नाम पर्वतः ।
एते वै पर्वता राजन्सिद्धचारणसेविताः ॥ ६.६.५ ॥
还有名为“角山”的山,由各种金属装饰得绚烂斑斓。大王啊,这些山都是悉陀与遮罗的游居之地。
6.6.6
एषामन्तरविष्कम्भा योजनानि सहस्रशः ।
तत्र पुण्या जनपदास्तानि वर्षाणि भारत ॥ ६.६.६ ॥
它们之间的距离为数千由旬。那里有圣洁的邦国;婆罗多啊,它们便是各个“瓦尔沙”(州)。
6.6.7
वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः ।
इदं तु भारतं वर्षं ततो हैमवतं परम्
ततः किंपुरुषावासं वर्षं हिमवतः परम् ।
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥ ६.६.७ ॥
其中到处居住着各种各样的生灵。这里是婆罗多之地;其外是海马婆多;然后,喜马拉雅之外是紧那罗的居所;而过了金峰(Hemakūṭa),则称为哈里之地。
6.6.9
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
व्रागायतो महाभाग माल्यवान्नाम पर्वतः ॥ ६.६.९ ॥
在尼罗山之南、尼沙陀山之北,大福者啊,向东延伸一座名为马尔耶瓦特的山。
6.6.10
ततः परं माल्यवतः पर्वतो गन्धमादनः ।
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ।
तरुणादित्यसंकाशो विधूम इव पावकः ॥ ६.६.१० ॥
在马尔耶瓦特山之后是乾陀摩陀那山。两者之间矗立着圆形的须弥山,即金山,如初升的太阳,如无烟之火。
6.6.11
योजनानां सहस्राणि षोडशाधः किल स्मृतः ।
ऊर्ध्वं च चतुरशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः।
अधस्ताच्चतुरशीतिर्योजनानां महीपते ॥ ६.६.११ ॥
据传其下为一万六千由旬,其上为八十四由旬,顶部宽三十二由旬。大地之主啊,其下也是八十四由旬。
6.6.12
ऊर्ध्वंमधश्च तिर्यक्व मेरुरावृत्य तिष्ठति ।
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः सस्थिता विभो ॥ ६.६.१२ ॥
须弥山上、下、四方环绕而立;在它的两侧,啊,伟大者,坐落着这四座洲。
6.6.13
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ ६.६.१३ ॥
跋陀罗舍婆、盖图摩罗,还有阎浮洲,婆罗多啊;以及北俱卢,是行善积德者的住处。
6.6.14
विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल ।
स वै विचिन्तयामास सौवर्णान्वीक्ष्य वायसान् ॥ ६.६.१४ ॥
据说,金翅鸟之子毗诃迦须摩克,看见金色的乌鸦,便思量起来。
6.6.15
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ ६.६.१५ ॥
须弥山不分上、中、下等的鸟类,因此我要舍弃它。
6.6.16
तमादित्योऽनुपर्येति सततं ज्योतिषां वरः ।
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ॥ ६.६.१६ ॥
太阳,是诸光中最殊胜者,恒常绕行于它;月亮与星宿,以及风,也右绕而行。
6.6.17
सपर्वतो महाराज दिव्यपुष्पफलान्वितः ।
भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः ॥ ६.६.१७ ॥
大王啊,它连同群山,具有天界的花与果,四周全被以阎浮檀金装饰的宫殿所环绕。
6.6.18
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः ।
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥ ६.६.१८ ॥
大王啊,在那里,诸天众、乾闼婆、阿修罗与罗刹,与阿普萨拉斯众相伴,常在那座山上嬉戏。
6.6.19
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ।
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ ६.६.१९ ॥
在那里,梵天、楼陀罗与众神之主帝释天聚集在一起,以各种附有许多布施的祭祀供奉。
6.6.20
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहाहुहूः ।
अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः ॥ ६.६.२० ॥
Tumburu、那罗陀、Viśvāvasu以及Hahā与Huhū,走近诸不死者中的最尊者,以种种赞歌赞颂他们。
6.6.21
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ।
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥ ६.६.२१ ॥
七仙人、大德的迦叶波与生主都前往那里——愿你安好——他们总在每个节日前往。
6.6.22
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते ।
इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः ॥ ६.६.२२ ॥
在它的峰顶,哦大地之主,乌莎纳斯·迦vya与达伊提亚同住。这些宝物属于他,这些宝山也属于他。
6.6.23
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ ६.६.२३ ॥
由此,尊贵的俱毗罗享有四分之一;然后他将一小部分财富施予人类。
6.6.24
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम् ।
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥ ६.६.२४ ॥
在它的北侧有一片神圣而可爱的迦尼迦罗树林,装饰着四季之花,从岩石堆中生长出来。
6.6.25
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः ।
उमासहायो भगवान्रमते भूतभावनः ॥ ६.६.२५ ॥
那里有亲见的帕苏帕蒂,被神圣的众灵环绕,与乌玛同在,那位生育万物的世尊在欢乐之中。
6.6.26
कर्णिकारमयी मालां बिभ्रत्पादावलम्बिनीम् ।
त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ ६.६.२६ ॥
佩戴一串直垂至脚的迦尔尼迦罗花环,三目放光,犹如三轮升起的太阳。
6.6.27
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ।
पश्यन्ति नहि दुर्वृत्तैः शक्यो द्रुष्टुं महेश्वरः ॥ ६.६.२७ ॥
苦行严峻、持戒精进、言语诚实的成就者得见他;恶行之人无法得见大自在天。
6.6.28
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर ।
विश्वरूपाऽपरिमिता भीमनिर्घातनिःस्वना ॥ ६.६.२८ ॥
人主啊,从那座山峰之巅,流淌着一道乳流,形态万千、无量无边,发出如霹雳般可怖的轰鸣。
6.6.29
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा ।
प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे ॥ ६.६.२९ ॥
神圣吉祥的婆吉罗提恒河,为最圣洁者所临,疾速奔流,仿佛漂向月亮的吉祥湖泊。
6.6.30
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ।
तां धारयामास तदा दुर्धरां पर्वतैरपि ॥ ६.६.३० ॥
由她所生的那圣湖如同大海;那时它承受了那连群山也难以承受的激流。
6.6.31
शतं वर्षसहस्राणां शिरसैव महेश्वरः ।
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ॥ ६.६.३१ ॥
大自在天以头独自苦修了十万年。在须弥山的西侧是俱摩罗(Ketumāla),哦,大地之主。
6.6.32
जम्बूखण्डे तु तत्रैव महाजनपदो नृप ।
आयुर्दशसहस्राणि वर्षाणां तत्र भारत ॥ ६.६.३२ ॥
在阎浮洲之中也有一个大国,大王啊,那里的寿命为一万年,婆罗多啊。
6.6.33
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ।
अनामया वीतशोका नित्यं मुदितमानसाः ॥ ६.६.३३ ॥
那里的男子肤色如金,女子如天女阿普萨拉斯;他们无病无忧,心中常常欢喜。
6.6.34
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ।
गन्धमादनश्रृङ्गेषु कुबेरः सह राक्षसैः ॥ ६.६.३४ ॥
人类在那里出生,光辉如精炼的黄金。在香醉山的峰顶,俱毗罗与罗刹们同住。
6.6.35
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ।
गन्धमादनपार्श्वे तु पर त्वपरगण्डिकाः ॥ ६.६.३५ ॥
被阿普萨拉斯的群众环绕,夜叉之主(俱毗罗)欢喜游乐;在香醉山的侧旁,还有阿帕拉干狄迦。
6.6.36
एकादशसहस्राणि वर्षाणां परमायुषः ।
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः ।
स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः ॥ ६.६.३६ ॥
那里的极长寿命为一万一千年。大王啊,那里的男子皮肤黝黑,光辉而力量强大;女子肤色如青莲,个个容貌极为可爱。
6.6.37
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् ।
वर्षमैरावतं राजन्नानाजनपदावृतम् ॥ ६.६.३७ ॥
在尼罗之外是白(Śveta);在白之外是金(Hairaṇyaka)。大王,有名为爱罗婆多(Airāvata)的洲,被众多国家所环绕。
6.6.38
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे ।
इलावृत्तं मध्यमं तु पञ्च दीर्घाणि चैव हि ॥ ६.६.३८ ॥
大王,有两个形如弓的洲,即南方与北方。中间是伊拉夫利多(Ilāvṛta),确实还有五个长的(洲)。
6.6.39
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ।
आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥ ६.६.३९ ॥
比这些更北的每个洲,因其品质而被认为胜过它们:寿命的长短、健康,以及在法、欲、利方面。
6.6.40
समन्वितानि भूतानि तेषु वर्षेषु भारत ।
एवमेषा महाराज पर्वतैः पृथिवी चिता ॥ ६.६.४० ॥
婆罗多啊,那些洲中的众生各具其德。大王,大地就这样被山脉所分割、点缀。
6.6.41
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः ।
यत्र वैश्रवणो राजन्गुह्यकैः सह मोदते ॥ ६.६.४१ ॥
有名为黄金峰(Hemakūṭa)的山,还有名为凯拉萨(Kailāsa)的极大之山,大王,在那里毗沙门天(Vaiśravaṇa,即俱毗罗)与夜叉(Guhyaka)一同欢乐。
6.6.42
तत्र देवो महादेवो नित्यमास्ते सहोमया ।
शीते शिलातले रम्ये देवर्षिगणपूजितःक ॥ ६.६.४२ ॥
那里,天神大自在天(Mahādeva)常与乌玛(Umā)同住,坐在清凉而美丽的石台上,受到天神与仙人众的礼拜。
6.6.43
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ।
हिरण्यश्रृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ ६.६.४३ ॥
北方有凯拉萨山,朝向摩乃迦山:一座神圣的大山,金色山峰,由宝石构成。
6.6.44
तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम् ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ ६.६.४४ ॥
其旁有名为宾度萨罗的大湖,神圣明亮,沙子金黄,风光优美,国王婆吉罗陀曾在那里修苦行。
6.6.45
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ।
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ॥ ६.६.४५ ॥
见到婆吉罗陀之女恒河后,他在那里住了许多年;那里还有宝石制成的祭柱和金色的圣殿。
6.6.46
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ।
स्रष्टा भूतपतिर्यत्र सर्वलोकान्सनातनान् ॥ ६.६.४६ ॥
因陀罗(千眼、大名者)在那里举行祭祀后获得成就;众生之主、创造者在那里创造了所有永恒的世界。
6.6.47
उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः ।
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥ ६.६.४७ ॥
那里,光辉炽烈者被众生从四面八方礼拜:那罗与那罗衍那、梵天、摩奴,第五位是湿婆(Sthāṇu)。
6.6.48
तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता ।
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥ ६.६.४८ ॥
那里,神圣的三道恒河首先得以确立;她从梵界降下后,分为七条河流。
6.6.49
वस्वौकसारा नलिनी पावनी च सरस्वती ।
जम्बूनदी च सीता च गङ्गा सिंधुश्च सप्तमी ॥ ६.६.४९ ॥
伐苏沃迦萨罗、那里尼、净化者波瓦尼与萨罗室伐蒂、阎浮河与悉多河、恒河,以及第七条信度河。
6.6.50
अचिन्त्या दिव्यसंकाशा प्रभोरेषैव संविधिः ।
उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ ६.६.५० ॥
这是主的安排,不可思议,犹如神圣;在那里,千个时代末,他们参与祭祀法会。
6.6.51
दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती ।
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥ ६.६.५१ ॥
萨罗室伐蒂在此可见,在彼不可见。这七条神圣的恒河,闻名于三界。
6.6.52
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ।
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ॥ ६.६.५२ ॥
喜马拉雅山上是罗刹,黄金峰上是藏神,尼沙陀山上是蛇与龙,而瞿迦罗那是苦行林。
6.6.53
देवासुराणां सर्वेषां श्वेतपर्वत उच्यते ।
गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ।
श्रृङ्गवांस्तु महाराज देवानां प्रतिसंचरः ॥ ६.६.५३ ॥
对于一切天神与阿修罗,它被称为白山。尼沙陀山上常住着干闼婆,尼罗山上住着梵仙。大王啊,香足山是诸天往来的通道。
6.6.54
इत्येतानि महाराज सप्त वर्षाणि भागशः ।
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥ ६.६.५४ ॥
如此,大王啊,这七个瓦尔沙按部分划分,有众生居住其中,有的会动,有的不动。
6.6.55
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी ।
अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता ॥ ६.६.५५ ॥
他们的繁盛呈现多种形态,有神圣的,也有人间的;无法全部计数,但欲知之者当信之。
6.6.56
यां तु पृच्छसि मां राजन्दिव्यामेतां शशाकृतिम् ।
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे ।
कर्णौ तु शाकद्वीपश्च काश्यपद्वीप एव च ॥ ६.६.५६ ॥
大王,你所问的这神圣的兔形之中,兔子两侧南北所说的两个瓦尔沙,即是它的耳朵:沙迦洲与迦叶波洲。
6.6.57
ताम्रपर्णीशिरो राजञ्छ्रीमान्मलयपर्वतः ।
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥ ६.६.५७ ॥
大王,多罗钵尼之首与光耀的摩罗耶山;此第二洲可见位于兔中。