摩诃婆罗多 · 章 6.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.60.1
व्युष्टां निशां भारत भारताना-
मनीकिनीनां प्रमुखे महात्मा।
ययौ सपत्नान्प्रति जातकोपो ।
वृतः समग्रेण बलेन भीष्मः ॥ ६.६०.१ ॥
婆罗多啊,黑夜过去,天色已明,心怀怒气的大德毗湿摩在婆罗多军队的前列,被全军环绕,向敌人进发。
6.60.2
तं द्रोणदुर्योधनबाह्लिकाश्च ।
तथैव दुर्मर्षणचित्रसेनौ।
जयद्रथश्चातिबलो बलौघै-
र्नृपास्तथान्ये प्रययुः समन्तात् ॥ ६.६०.२ ॥
与他同行的有德罗纳、难敌、婆利迦,同样还有难降与奇相,极其强大的胜车,以及其他诸王,率领大批军队从四面八方出发。
6.60.3
स तैर्महद्भिश्च महारथैश्च ।
तेजस्विभिर्वीर्यवद्भिश्च राजन्।
रराज राजा स तु राजमुख्यै-
र्वृतः सदेवैरिव वज्रपाणिः ॥ ६.६०.३ ॥
国王啊,他被那些伟大、光辉、勇猛的大车勇士和诸位首领王所环绕,犹如手持金刚杵的因陀罗与诸神同在,闪耀光芒。
6.60.4
तस्मिन्ननीकप्रमुखे विषक्ता ।
दोधूयमानाश्च महापताकाः ।
सुरक्तपीतासितपाण्डुराभा ।
महागजस्कन्धगता विरेजुः ॥ ६.६०.४ ॥
在那支军队的前列,系挂并飘扬的大旗闪耀着红、黄、黑、白的色彩,安放在巨象的肩上,光彩夺目。
6.60.5
सा वाहिनी शान्तनवेन गुप्ता ।
महारथैर्वारणवाजिभिश्च।
बभौ सविद्युत्स्तनयित्नुकल्पा ।
जलागमे द्यौरिव जातमेघा ॥ ६.६०.५ ॥
这支由檀努之子(毗湿摩)守护的军队,连同大车勇士、象与马,犹如雨季云起之时,伴着闪电与雷鸣的天空,光彩熠熠。
6.60.6
ततो रणायाभिमुखी प्रयाता ।
प्रत्यर्जुनं शान्तनवाभिगुप्ता।
सेनामहोग्ना सहसा कुरूणां ।
वेगो यथा भीम इवापगायाः ॥ ६.६०.६ ॥
于是那支向前迎战的军队,在Śāntanu之子的护卫下,对阵Arjuna;库鲁之军忽然如大水奔涌,又如可怖之河的激流。
6.60.7
तं व्यालनानाविधगूढसारं ।
गजाश्वपादातरथौघपक्षम्।
व्यूहं महामेघसमं महात्मा ।
ददर्श दूरात्कपिराजकेतुः ॥ ६.६०.७ ॥
那列阵,蕴藏多种凶猛隐秘之力,以象、马、步兵与车阵为两翼,如同巨大的乌云,那伟大的、旗帜上有猴王的人,远远地望见了它。
6.60.8
विनिर्ययौ केतुमता रथेन ।
नरर्षभः श्वेतहयेन काले।
जये धृतः शत्रुवरूथिनीनां ।
यथा सुरेन्द्रोऽसुरवाहिनीनाम् ॥ ६.६०.८ ॥
人中雄牛乘着有旗的战车,驾着白马,在适当的时候出发,为了胜利而阻挡敌人的军队,正如诸神之王因陀罗阻挡阿修罗的军队。
6.60.9
नारायणेनेन्द्र इवाभिगुप्तः ।
शशीव सूर्येण समेयिवान्यथा ।
तथा महात्मा सह केशवेन ।
वरीथिनीनां प्रमुखे रराज ॥ ६.६०.९ ॥
如同受那罗延守护的因陀罗,如同与太阳相会的月亮,那伟大的人与Keśava一同在诸军前列光辉耀目。
6.60.10
सोपस्करं सोत्तरबन्धुरेषं ।
यत्तं यदूनामृषभेण सङ्ख्ये।
कपिध्वजं प्रेक्ष्य रथं विषेदुः ।
सहैव पुत्रैस्तव कौरवेयाः ॥ ६.६०.१० ॥
看见那辆猴旗战车,由Yadu族的雄牛为战斗备妥,车辕与车轭精美完备,您的诸子与库鲁之人都感到沮丧。
6.60.11
प्रकल्पितं गुप्तमुदायुधेन ।
किरीटिना लोकमहारथेन ।
तं व्यूहराजं ददृशुस्त्वदीया-
श्चतुश्चतुर्व्यालसहस्रकीर्णम् ॥ ६.६०.११ ॥
你的部众看见那阵列之王,由高举武器者、戴冠者、世界大战车手所守护,布满成千上万头猛象。
6.60.12
यथैव पूर्वेऽहनि धर्मराज्ञा ।
व्यूहः कृतः कौरवसत्तमेन।
यथा न भूतो भुवि मानुषेषु ।
न दृष्टपूर्वो न च संश्रुतश्च ॥ ६.६०.१२ ॥
正如前一日由法王与俱卢最优者所布之阵,这样的阵在世上人类之中从未有过,先前未曾见过,也未曾听闻。
6.60.13
ततो यथादेशमुपेत्य तस्थुः ।
पाञ्चालमुख्याः सह चेदिमुख्यैः।
ततः समादेशसमाहतानि ।
भेरीसहस्राणि विनेदुराजौ ॥ ६.६०.१३ ॥
随后,依命前往各自位置,般遮罗的首领与车底的首领一同站立。随即,依令敲击的千面大鼓在战场上轰鸣。
6.60.14
शङ्खस्वनास्तूर्यरवाः प्रणेदुः ।
सर्वेष्वनीकेषु ससिंहनादाः।
ततः सबाणानि महास्वनानि ।
विस्फार्यमाणानि धनूंषि वीरैः ॥ ६.६०.१४ ॥
各军之中,海螺之声、号角之音与狮吼齐鸣。随后,勇士们拉开附箭之弓,发出巨大的弦响。
6.60.15
क्षणेन भेरीपणवप्रणादा-
नन्तर्दधुः शङ्खमहास्वनांश्च।
तच्छङ्खशब्दावृतमन्तरिक्ष-
मुद्धूतभौमद्रुतरेणुजालम् ॥ ६.६०.१५ ॥
瞬间,大鼓与小鼓的轰鸣和海螺的巨响都被淹没。被螺声笼罩的天空,充满了奔跑扬起的尘土之网。
6.60.16
महानुभावाश्च ततः प्रकाश-
नालोक्य वीराः सहसाऽभिपेतुः ।
रथी रथेनाभिहतः ससूतः ।
पपात साश्वः सरथः सकेतुः ॥ ६.६०.१६ ॥
于是大勇士们见到那光芒,突然冲上前去。被战车撞击的车手连同御者、马匹、战车和旗帜一同倒下。
6.60.17
गजो गजेनाभिहताः पपात ।
पदातिना चाभिहतः पदातिः।
आवर्तमानान्यभिवर्तमानै-
र्घोरीकृतान्यद्भुतदर्शनानि ॥ ६.६०.१७ ॥
象被象撞倒;步兵被步兵击伤。彼此回身冲击,使场面变得可怖而令人惊叹。
6.60.18
प्रासैश्च खङ्गैश्च समाहतानि ।
सदश्वबृन्दानि सदश्वबृन्दैः।
सुवर्णतारागणभूषितानि ।
सूर्यप्रभाभानि शरावराणि ॥ ६.६०.१८ ॥
被长矛和刀剑击中的良马群,与良马群相互冲撞。饰有金星团、闪耀如日光的盾牌也纷纷坠落。
6.60.19
विदार्यमाणानि परश्वथैश्च ।
प्रासैश्च स्वङ्गैश्च निपेतुरुर्व्याम्।
गजैर्विषणापरगात्ररुग्णाः ।
केचित्ससूता रथिनः प्रपेतुः ॥ ६.६०.१९ ॥
被战斧、长矛和刀剑撕裂,他们倒在地上。被象群践踏,肢体折断,一些车战士连同御者一起倒下。
6.60.20
गजर्षभाश्चापि जगर्षभेण ।
निपातिता बाणहताः पृथिव्याम्।
गजौघवेगोद्धतसादितानां ।
श्रुत्वा विषेदुः सहसा मनुष्याः ॥ ६.६०.२० ॥
象中之王也被人中之牛击倒,中箭后倒在地上。听闻被象群猛冲之势践踏的人们,众人顿时悲痛沮丧。
6.60.21
आर्तस्वनं सादिपदातियूनां ।
विषाणगात्रावरताडितानाम् ।
संभ्रान्तनागाश्वरथे मुहूर्ते ।
महाक्षये सादिपदातियूनाम् ॥ ६.६०.२१ ॥
骑兵与步兵青年的哀号,被角和身躯击伤、践踏者的哀号;在那一刻,战车、象群与马匹一片混乱之中,在那场大毁灭中,骑兵与步兵青年的。
6.60.22
महारथैः संपरिवार्यमाणं ।
संदृश्य दूरात्कपिराजकेतुम् ।
तं पञ्चतालोच्छ्रिततालकेतुः ।
सदश्ववेगाद्भुतवीर्ययानः ॥ ६.६०.२२ ॥
远远望见那面旗帜上有猴王之标的人,被大车战士包围;他的旗杆高如五棵棕榈,他的战车以良马之速、奇异之勇前行。
6.60.23
महास्त्रबाणाशनिदीप्तमन्तं ।
किरीटिनं शान्तनवोऽभ्यधावत्।
तथैव शक्रप्रतिमप्रभाव-
मिन्द्रात्मजं द्रोणमुखा विसस्नुः ॥ ६.६०.२३ ॥
那位在尽头闪耀着大武器、箭矢与雷霆的戴冠者,沙冉都之子(毗湿摩)冲了上去;同样,向那位威力如因陀罗的因陀罗之子,在德罗纳率领下的众人也冲了过去。
6.60.24
कृपश्च शल्यश्च विविंशतिश्च ।
दुर्योधनः सौमदत्तिश्च राजन्।
ततो रथानां प्रमुखादुपेत्य ।
सर्वास्त्रिवित्काञ्चनचित्रवर्मा ॥ ६.६०.२४ ॥
还有慈悲者(Kṛpa)与沙利耶(Śalya)、毗文沙提(Viviṃśati)、难敌(Duryodhana)以及索摩达多之子,啊,国王!于是从战车的前列走出,那位通晓一切兵器、身披金色斑斓甲胄的人。
6.60.25
जवेन शूरोऽभिससार सर्वां-
स्तानर्जुनस्यात्मभवोऽभिमन्युः।
तेषां महास्त्राणि महारथाना-
मसह्यकर्मा विनिहत्य कार्ष्णिः ॥ ६.६०.२५ ॥
阿周那自己的儿子阿毗摩牛(Abhimanyu)这位英雄,迅速冲向他们所有人;摧毁了那些大车战士的大武器之后,那位行事不可忍受的迦尔什尼(阿毗摩牛)。
6.60.26
बभौ महामन्त्रहुतार्चिमाली ।
सदोगतः सन्भगवानिवाग्निः ।
ततः स तूर्णं रुधिरोदफेनां ।
कृत्वा नदीमाशु रणे रिपूणाम् ॥ ६.६०.२६ ॥
如同坐于集会中的吉祥之火,被大咒语所献的火焰环绕,他迅速在战场上造出一条由敌人鲜血与泡沫汇成的河流。
6.60.27
जगाम सौभद्रमतीत्य भीष्मो ।
महारथं पार्थमदीनसत्वः ।
ततः प्रहस्याद्भुतविक्रमेण ।
गाण्डीवमुक्तेन शिलाशितेन ॥ ६.६०.२७ ॥
无畏精神的毗湿摩越过大车将帚利陀,走向苏跋陀罗之子。随后,他以奇妙的勇力含笑,用从甘狄拔弓射出、在磨石上磨利的箭……
6.60.28
विपाठजालेन महास्त्रजालं ।
विनाशयामास किरीटमाली।
तमुत्तमं सर्वधनुर्धराणा-
मसक्तकर्मा कपिराजकेतुः ॥ ६.६०.२८ ॥
以切割之箭的罗网,冠饰之鬘者(阿周那)摧毁了大神兵的罗网。那位在一切持弓者中最为殊胜、行动无所执著、以猴王为旗帜的英雄……
6.60.29
भीष्मं महात्माऽभिववर्ष तूर्णं ।
शरौघजालैर्विमलैश्च भल्लैः।
तथैव भीष्माहतमन्तरिक्षे ।
महास्त्रजालं कपिराजकेतोः ॥ ६.६०.२९ ॥
大心者(阿周那)迅速以成群箭矢的罗网与明亮的阔头箭向毗湿摩降下暴雨。同样,被毗湿摩在空中击中的、以猴王为旗帜者的大神兵罗网……
6.60.30
तद्द्वैरथं भीष्मधनञ्जयाभ्याम् ॥ ६.६०.३० ॥
那是毗湿摩与财富胜(阿周那)之间的单挑。