Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.62

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.62.1

दैवमेव परं मन्ये पौरुषादपि सञ्जय ।
यत्सैन्यं मम पुत्रस्य पाण्डुपुत्रेण वध्यते ॥ ६.६२.१ ॥

桑闍耶,我认为天命甚至高于人力,因为我儿子的军队正被般度之子所杀。

6.62.2

नित्यं हि मामकांस्तात हतानेव हि शंससि ।
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंशसि पाण्डवान् ॥ ६.६२.२ ॥

孩子,你总是说我的人已被杀死,而般度五子总是安然喜悦。

6.62.3

विभग्नांश्च प्रनष्टांश्च नित्यं शंससि मामकान् ।
हीनान्पुरुषकारेण मामकानद्य सञ्जय ।
पातितान्पात्यमानांश्च हतानेव च शंससि ॥ ६.६२.३ ॥

你总说我的人已被击溃毁灭;桑闍耶,今日我的人已失去男子的勇力。倒下的和正被击倒的,你都说是已被杀死。

6.62.4

युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति ।
पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः ॥ ६.६२.४ ॥

我的人依其力量奋战,努力求胜,然而般度之子获胜,我的人却败北。

6.62.5

सोऽहं तीव्राणि दुःस्वानि दुर्योधनकृतानि च ।
श्रोष्यामि सततं तात दुःसहानि बहूनि च ॥ ६.६२.५ ॥

孩子,我将不断听到许多由难敌所致的严酷、凶险而难以忍受的消息。

6.62.6

तमुपायं न पश्यामि जीयेरन्येन पाण्डवान् ।
मामका विजयं युद्धे प्राप्नुयुर्येन सञ्जय ॥ ६.६२.६ ॥

桑闍耶,我看不到能够战胜般度之子、使我的人在战场上获胜的办法。

6.62.7

क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् ।
श्रृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥ ६.६२.७ ॥

大王,请坚定地听:人体、象、马与战车的毁灭,正是你的重大过失。

6.62.8

धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः ।
पीडयामास संक्रुद्धो मद्राधिपतिमायसैःक ॥ ६.६२.८ ॥

然而,被沙利耶以九箭所伤的猛光大怒,便以铁箭射击摩德罗王。

6.62.9

तत्राद्भुतमपश्याम पार्षस्य पराक्रमम् ।
न्यवारयत यस्तूर्णं शल्यं समितिशोभनम् ॥ ६.६२.९ ॥

在那里我们看见了普利沙塔之子的奇异勇武:他迅速击退了在战阵中光彩照人的沙利耶。

6.62.10

नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा ।
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥ ६.६२.१० ॥

那时,这两位车战者之间看不出任何差别;片刻之间,这场战斗对二人而言似乎势均力敌。

6.62.11

ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे ।
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ ६.६२.११ ॥

大王啊,沙利耶便在战中以一支金色锋利的婆罗箭斩断了猛光的弓。

6.62.12

अथैनं शरवर्षेण च्छादयामास संयुगे ।
गिरिं जलागमे यद्वञ्जलदा जलवृष्टिभिः ॥ ६.६२.१२ ॥

随后在战中,他以箭雨将其覆盖,犹如雨季来临时云朵以倾盆大雨覆盖山岳。

6.62.13

अभिमन्युस्ततः क्रुद्धो धृष्टद्युम्ने च पीडिते ।
अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥ ६.६२.१३ ॥

此时阿毗曼尤见德里什塔德尤姆纳受困,愤怒不已,急速冲向摩德罗王的战车。

6.62.14

ततो मद्राधिपस्थं कार्ष्णिः प्राप्यातिकोपनः ।
आर्तायनिममेयात्मा विव्याध निशितैः शरैः ॥ ६.६२.१४ ॥

于是心胸无量、极为愤怒的克利须那之子走近站在摩德罗王战车上的阿尔塔亚尼,以锐利的箭射穿了他。

6.62.15

ततस्तु तावका राजन्परीप्सन्तोऽर्जुनं रणे ।
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥ ६.६२.१५ ॥

于是,大王啊,你的人为了在战场上保护阿周那,迅速包围了摩德罗王的战车,坚守在那里。

6.62.16

दुर्योधनो विकर्णश्च दुःशासनविविंशती ।
दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः ॥ ६.६२.१६ ॥

难敌、毗迦尔纳、难降与毗温舍提、难忍、难耐、奇使、以及难堪的杜尔穆卡。

6.62.17

सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत ।
एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥ ६.६२.१७ ॥

萨提亚婆罗多与普鲁弥特罗啊,婆罗多后裔,愿你吉祥。他们在战场上守护着摩德罗王的战车而立。

6.62.18

तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः ।
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥ ६.६२.१८ ॥

毗摩森那极为愤怒地向他们冲去;普利沙塔之子德里什塔德尤姆纳、德劳帕蒂之子阿毗曼尤,以及摩德利的两个儿子般度五子中的二人,也同样愤怒。

6.62.19

धार्तराष्ट्रान्दश रथान्दशैव प्रत्यवारयन् ।
नानारूपाणि शस्त्राणि विसृजन्तो विशांपते ॥ ६.६२.१९ ॥

他们以十乘战车阻挡持国之子的十乘战车,同时发射各式各样的武器,啊,人民之主。

6.62.20

अभ्यवर्तन्तं संहृष्टाः परस्परवधैषिणः ।
ते वै समेयुः संग्रामे राजन्दुर्मन्त्रिते तव ॥ ६.६२.२० ॥

他们互相渴望杀死对方,欢欣地前进,在战场上相遇,啊,国王,这是因你的恶谋所致。

6.62.21

तस्मिन्दशरथे क्रुद्धे वर्तमाने महाभये ।
तावकानां परेषां वा प्रेक्षका रथिनोऽभवन् ॥ ६.६२.२१ ॥

在那场愤怒的十乘战车之战中,充满巨大的恐怖,你方和敌方的战车武士都成了旁观者。

6.62.22

शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः ।
अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे ॥ ६.६२.२२ ॥

大车武士们发射各种形状的武器,彼此怒吼,展开了激烈的冲突。

6.62.23

ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः ।
अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम् ॥ ६.६२.२३ ॥

此时,他们个个怒火中烧,都想杀死对方,互相冲撞,彼此竞逐。

6.62.24

अन्योन्यस्पर्धया राजञ्ज्ञातयः संगता मिथः ।
महास्राणि विमुञ्चन्तः समापेतुरमर्षिणः ॥ ६.६२.२४ ॥

啊,国王,因为彼此竞争,那些亲族聚集在一起,发射大型武器,怀着不肯退让的怒火相遇。

6.62.25

दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे ।
विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम् ॥ ६.६२.२५ ॥

杜尔Yodhana大怒,在那场大战中迅速以四支利箭射中了德里什塔德尤姆纳。

6.62.26

दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः ।
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ॥ ६.६२.२६ ॥

杜尔马尔沙那以二十支箭,制多罗赛那以五支,杜尔穆卡以九支,杜萨哈以七支。

6.62.27

विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ।
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ॥ ६.६२.२७ ॥

毗毗珊提以五箭,难近以三箭射击。王中之王啊,令敌人痛苦的普利沙塔之子,回击了他们所有人。

6.62.28

एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ।
सत्यव्रतं च समरे पुरुमित्रं च भारत ॥ ६.६२.२८ ॥

婆罗多之子啊,他展示手法的敏捷,在战场上以二十五支箭分别射中每一人,也包括萨提亚弗拉塔和普鲁米特拉。

6.62.29

अभिमन्युरविध्यत्तु दशभिर्दशभिः शरैः ।
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ ॥ ६.६२.२९ ॥

阿毗曼由每人以十箭射之;战斗中,玛德丽的两个儿子射伤了他们的舅父沙利耶。

6.62.30

अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत् ।
ततः शल्यो महाराज स्वस्त्रीयौ रथिनां वरौ ॥ ६.६२.३० ॥

二人以利箭射他,此事甚为奇异。然后,伟大的君王啊,沙利耶射伤了他的两个外甥,他们是战车武士中的佼佼者。

6.62.31

शरैर्बहुभिरानर्च्छत्कृतप्रतिकृतैषिणौ ।
छाद्यमानौ ततस्तौ कतु माद्रीपुत्रौ न चेलतुः ॥ ६.६२.३१ ॥

二人虽被众多箭矢所覆盖,玛德丽之子们想要以牙还牙,却岿然不动;他们也射出了许多箭。

6.62.32

अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः ।
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥ ६.६२.३२ ॥

此时大力的婆摩森那看见难敌,想要结束这场争斗,般度之子便拿起了铁杵。

6.62.33

तमुद्यतगदं दृष्ट्वा कैलासमिव श्रृङ्गिणम् ।
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥ ६.६२.३३ ॥

看见手持高举铁杵的大臂婆摩森那,如同有峰峦的凯拉萨山,你的儿子们惊恐地逃走了。

6.62.34

दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत् ।
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥ ६.६२.३४ ॥

难敌大怒,驱使摩揭陀王率领一万头迅捷的象军前进。

6.62.35

गजानीकेन सहितस्तेन राजा सुयोधनाः ।
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥ ६.६२.३५ ॥

国王苏耶陀那率领象军,将摩揭陀王置于前列,朝婆摩森那进发。

6.62.36

आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः ।
गदापाणिरवारोहद्रथांत्सिंह इवोन्नदन् ॥ ६.६२.३६ ॥

看见象军冲来,狼腹手持铁杵,如狮子般吼叫着跳下战车。

6.62.37

अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥ ६.६२.३७ ॥

他手持由坚石精华制成的沉重大棍,如张开大口的死神,冲向象军。

6.62.38

स गजान्गदया निघ्नन्व्यचरत्समरे बली ।
भीमसेनो महाबाहुः सवज्र इव वासवः ॥ ६.६२.३८ ॥

力大无穷的大臂婆罗多人怖军以大棍击打象群,在战场上往来驰驱,如手持金刚杵的因陀罗。

6.62.39

तस्य नादेन महता मनोहृदयकम्पिना ।
व्यत्यचेष्टन्त संहत्य गजा भिमस्य गर्जतः ॥ ६.६२.३९ ॥

怖军那震撼心神的巨大吼声响起,大象挤作一团,惊慌地翻腾扭动。

6.62.40

ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः ।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ ६.६२.४० ॥

此时,德罗波蒂之子、苏跋陀罗的大车战士之子、那古罗与萨诃提婆,以及普利沙塔之子猛光也向前进发。

6.62.41

पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् ।
अभ्यवर्षन्त धावन्तो मेघा इव गिरिव्रजान् ॥ ६.६२.४१ ॥

他们守护着怖军的后背,奔驰上前,以箭雨倾泻在象群上,如同乌云倾注于群山之上。

6.62.42

नाकुलिस्तु शतानीकः समरे शत्रुपूगहा ।
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः।
न्यहनच्चोत्तमाङ्गानि पाण्डवो गजयोधिनाम् ॥ ६.६२.४२ ॥

那古罗之子沙塔尼迦,是战场上摧毁敌众的勇士,以剃刀箭、新月箭、钩箭、黄羽的阿阇梨迦箭和锐利的箭,斩下了象军战士的头颅。

6.62.43

शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः ।
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥ ६.६२.४३ ॥

头颅纷纷坠落,饰有饰物的手臂与持象钩的手,看起来如同石雨一般。

6.62.44

हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।
अदृश्यन्ताचलाग्रेकषु द्रुमा भग्नशिखा इव ॥ ६.६२.४४ ॥

头颅被砍下的象兵,在象的肩上可见,如同山峰上顶端折断的树木。

6.62.45

धृष्टद्युम्नहतानन्यानपश्याम महागजान् ।
पततः पात्यमानांश्च पार्षतेन महात्मना ॥ ६.६२.४५ ॥

我们看到其他大象被持久光所杀,它们倒下,并被伟大心灵的普利沙塔之子所击倒。

6.62.46

मागधोऽथ महीपालो गजमैरावणोपमम् ।
प्रेषयामास समरे सौभद्रस्य रथं प्रति ॥ ६.६२.४६ ॥

于是摩揭陀的护国王在战斗中派出一头如同爱罗婆那的象,向苏跋陀罗之子的战车冲去。

6.62.47

तमापतन्तं संप्रेक्ष्य मागधस्य महागजम् ।
जघानैकेषुणा वीरःत सौभद्रः परवीरहा ॥ ६.६२.४७ ॥

见摩揭陀王的大象冲来,敌人英雄的杀手英雄苏跋陀罗之子以一箭将其射倒。

6.62.48

तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः ।
राज्ञो रजतपुङ्खेन भल्लेनापाहरच्छिरः ॥ ६.६२.४८ ॥

转回那头象时,征服敌城的克尔希尼以一支银羽阔头箭斩下了国王的头颅。

6.62.49

विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः ।
व्यचरत्समरे मृद्गन्गजानिन्द्रो गिरीनिव ॥ ६.६२.४९ ॥

般度之子毗摩犀那也冲入那象军之中,在战场上碾压大象,如同因陀罗摧毁群山。

6.62.50

एकप्रहारनिहतान्भीमसेनेन दन्तिनः ।
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥ ६.६२.५० ॥

在那场战斗中,我们看见大象被毗摩犀那一击毙命,如同被金刚击中的群山。

6.62.51

भग्नदन्तान्भग्नकरान्भग्नसक्थीश्च वारणान् ।
भग्नपृष्ठत्रिकानन्यान्निहतान्पर्वतोपमान् ॥ ६.६२.५१ ॥

断牙、断鼻、断腿的象,还有背脊与腰胯折断的其他象,如山岳般倒毙在地。

6.62.52

नदतः सीदतश्चान्यान्विमुखान्समरे गतान् ।
विद्रुतान्भयसंविग्नांस्तथा विशकृतोऽपरान् ॥ ६.६२.५२ ॥

还有的大象吼叫着跪倒,有的背离战场逃窜,因恐惧而惊慌,还有的沾满粪便。

6.62.53

भीमसेनस्य मार्गेषु पतितान्पर्वतोपमान् ।
अपश्यं निहतान्नागान्राजन्निष्ठीवतोपरान् ॥ ६.६२.५३ ॥

大王啊,我看见毗摩犀那所走的路上倒伏着如山岳般被杀的大象,另一些则在吐血。

6.62.54

वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः ।
विह्नलन्तो गता भूमिं शैला इव धरातले ॥ ६.६२.५४ ॥

吐着鲜血,其他额头裂开的大象踉跄倒地,如同群山崩落在大地之上。

6.62.55

मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः ।
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥ ६.६२.५५ ॥

毗摩身上沾满脂肪与鲜血,又溅满骨髓与脂肪,在战场上行走,犹如手持权杖的死神。

6.62.56

गजानां रुधिरक्लिन्नां गदां बिभ्रद्वृकोदरः ।
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकभृत् ॥ ६.६२.५६ ॥

狼腹手持浸满象血的铁锤,可怖而令人畏惧,如同执持毗那迦弓的湿婆。

6.62.57

संमथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः ।
सहसा प्राद्रवन्क्लिष्ठा मृद्गन्तस्तव वाहिनीम् ॥ ६.६२.५७ ॥

被愤怒的毗摩森那所碾压的象群,忽然痛苦地奔逃,践踏了你的军队。

6.62.58

तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः ।
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥ ६.६२.५८ ॥

以娑菩陀罗(阿毗曼尤)为首的车兵们护卫着那位大弓手英雄奋战,犹如诸神护卫持金刚杵的因陀罗。

6.62.59

शोणिताक्तां गदां बिभ्रदुक्षितां गजशोणितैः ।
कृतान्त इव रोद्रात्मा भीमसेनो व्यदृश्यत ॥ ६.६२.५९ ॥

性情暴烈的毗摩森那手持沾满象血、溅满象血的铁锤,看起来如同死神本尊。

6.62.60

व्यायच्छमानं गदया दिक्षु सर्वासु भारत ।
अपश्याम रणे भीमं नृत्यन्तमिव शङ्करम् ॥ ६.६२.६० ॥

婆罗多之后啊,我们在战场上看见毗摩以铁锤向四方奋力击打,如同跳舞的湿婆。

6.62.61

यमदण्डोपमां गुर्वीमिन्द्राशनिसमकस्वनाम् ।
अपश्याम महाराय रौद्रां विशसनीं गदाम् ॥ ६.६२.६१ ॥

大王啊,我们看见了那把沉重如阎摩之杖、吼声如因陀罗霹雳、可怖而致命的铁杵。

6.62.62

विमिश्रां केशमञ्जाभिः प्रदिग्धां रुधिरेण च ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ ६.६२.६२ ॥

混杂着头发与骨髓,沾满鲜血,如同盛怒的楼陀罗以其弓毗那迦击打众生。

6.62.63

यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत् ।
तथा भीमो गजानीकं गदया समकालयत् ॥ ६.६२.६३ ॥

如牧人以杖驱赶牛群,毗摩以铁杵驱散了象群。

6.62.64

गदया वध्यमानास्ते मार्गणैश्च समन्ततः ।
स्वान्यनीकानि मृद्गन्तः प्राद्रवन्कुञ्जरास्तव ॥ ६.६२.६४ ॥

受到铁杵和四面箭矢的打击,你的象群踩踏着自己的军队与敌军而逃奔。

6.62.65

महावात इवाभ्राणि विधमित्वा स वारणान् ।
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥ ६.६२.६५ ॥

如大风吹散云朵,毗摩驱散了象群,在那喧嚣中屹立如手持三叉戟者立于火葬场。