摩诃婆罗多 · 章 6.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.63.1
हते तस्मिन्गजानीके पुत्रो दुर्योधनस्तव ।
भीमसेनं ध्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ ६.६३.१ ॥
那象军被杀之后,你的儿子难敌如此督促所有军队:"杀死怖军!"
6.63.2
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् ।
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥ ६.६३.२ ॥
于是,依你儿子的命令,所有军队向正在发出可怕吼声的怖军冲去。
6.63.3
तं बलौघमपर्यन्तं देवैरपि सुदुःसहम् ।
आपतन्तं सुदुष्पारं समुद्रिमिव पर्वणि ॥ ६.६३.३ ॥
那无穷无尽的军队洪流,即使诸神也难以抵挡、难以渡越,如满月时的大海般涌来。
6.63.4
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अनन्तरथपादातं रजसा सर्वतो वृतम् ॥ ६.६३.४ ॥
战车、象群和马匹密布,螺号与鼓声震天,车兵与步兵无穷无尽,这支军队四面都被尘土笼罩。
6.63.5
तं भीमसेनः समरे महोदधिमिवापरम् ।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ ६.६३.५ ॥
在战斗中,怖军如同另一片大海,又如岸边之地挡住海水,纹丝不动地阻住了那片军队之海。
6.63.6
तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः ।
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥ ६.६३.६ ॥
大王啊,我们在战场上亲眼见证了伟大的般度之子怖军那超越人力的惊人壮举。
6.63.7
उदीर्णान्पार्थिवान्सर्वान्साश्वान्सरथकुञ्जरान् ।
असंभ्रमं भीमसेनो गदया समवारयत् ॥ ६.६३.७ ॥
毗摩行者不慌不忙,以铁杵阻挡了所有前进的国王及其马匹、战车与象群。
6.63.8
स संवार्य बलौघांस्तन्गदया रथिनां वरः ।
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ ६.६३.८ ॥
车战勇士中最优者毗摩,以铁杵挡住了军队的洪流,在那可怕的喧嚣中如须弥山般屹立不动。
6.63.9
तस्मिन्सुतुमुले घोरे काले परमदारुणे ।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥ ६.६३.९ ॥
在那极其可怕、凶险而喧嚣的时刻,兄弟、诸子以及般沙塔之子猛光也在场。
6.63.10
द्रौपदेयाभिमन्युश्च शिखण्डी चापराजितः ।
न प्राजहन्भीमसेनं भये जाते महाबलम् ॥ ६.६३.१० ॥
德罗波蒂的诸子、阿毗曼尤、尸根提和无敌者,即使在恐惧生起时,也没有舍弃大力的毗摩行者。
6.63.11
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अधावत्तावकान्योधान्दण्डपाणिरिवान्तकः ॥ ६.६३.११ ॥
于是他手持沉重的、以称为沙伊迦的钢铁所制的大铁杵,如手执棒杖的死神,向你的战士们奔去。
6.63.12
पोययन्रथबृन्दानि वाजिबृन्दनि चाभिभूः ।
कर्षयन्रथवृन्दानि बाहुवेगेन पाण्डवः ॥ ६.६३.१२ ॥
般度之子以克敌之威,碾碎车队与马队,并以臂力的猛冲拖曳车阵,所向披靡。
6.63.13
विनिध्रन्यचतत्सङ्ख्ये युगान्ते कालविद्विभुः ।
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ॥ ६.६३.१३ ॥
这位知晓劫末时机的强大般度之子,在战场上击杀敌人,以大腿的力量拖散车阵的罗网。
6.63.14
बलानि संममर्दाशु नड्वलानीव कुञ्जरः ।
मृद्गन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ॥ ६.६३.१४ ॥
犹如大象迅速践踏芦苇丛,他迅速摧毁了军队,将车上的御者从战车上打下,把象上的战士从象背上碾落。
6.63.15
सादिनश्चाश्वपृष्ठेभ्यो भूमौ वापि पदातिनः ।
गदया व्यवमत्सर्वान्वातो वृक्षानिवौजसा ॥ ६.६३.१५ ॥
他把骑兵从马背上打落,把步兵打倒在地,以铁杵将他们全部击碎,正如狂风以其力量摧倒树木。
6.63.16
भीमसेनो महाबाहुस्तव पुत्रस्य वै बले ।
सापि प्रञ्जानसामासैः प्रदिग्धा रुधिरेण च ॥ ६.६३.१६ ॥
大臂的毗摩森那在你儿子的军中,手持那涂满鲜血与油膏的铁杵。
6.63.17
अदृश्यत महारौद्रा गदा नागाश्वपातनी ।
तत्रतत्र हतैश्चापि मनुष्यगजवाजिभिः ॥ ६.६३.१७ ॥
那可怕至极的铁杵显现了,它击倒象与马;四处躺着被杀的人、象与马。
6.63.18
रणाङ्गणं समभवन्मृत्योरावाससन्निभम् ।
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ ६.६३.१८ ॥
战场变得如同死神的居所,就像愤怒的楼陀罗击杀众生时挥动他的毗那迦弓。
6.63.19
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥ ६.६३.१९ ॥
他们看见毗摩森那那可怕的狼牙棒,凶猛如阎摩之杖,声音如因陀罗的雷霆,能够屠杀。
6.63.20
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।
बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ ६.६३.२० ॥
当这位伟大的贡蒂之子挥舞狼牙棒时,他的形象显得极为可怖,宛如劫末之时的时间本身。
6.63.21
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः ।
दृष्ट्वा मृत्युमवायान्तं सर्वे विमनसोऽभवन् ॥ ६.६३.२१ ॥
看到他如此反复击溃庞大的军队,并如死神般逼近,所有人都变得沮丧。
6.63.22
यतोयतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः ।
तेनतेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ ६.६३.२२ ॥
啊,婆罗多!般度之子举起狼牙棒,望向何方,何方的一切军队便被撕裂。
6.63.23
प्रदारयन्तं सैन्यानि बलेनामितविक्रमम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ ६.६३.२३ ॥
他拥有无限的勇力,以其力量撕裂军队,吞噬部队,宛如张开大口的死神。
6.63.24
तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ ६.६३.२४ ॥
看见行事可怕、高举大狼牙棒的狼腹(毗摩),毗湿摩立即向他冲去。
6.63.25
महता रथघोषेण रथेनादित्यवर्चसा ।
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ ६.६३.२५ ॥
他以巨大的战车轰鸣,乘坐如太阳般光辉的战车,以箭雨遮蔽对方,如同满载雨水的乌云般逼近。
6.63.26
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः ॥ ६.६३.२६ ॥
见婆罗门老祖如张口的死神般逼近,大臂的怖军愤然上前迎战。
6.63.27
तस्मिन्क्षणे सात्यकिः सत्यसन्धः ।
शिनिप्रवीरोऽभ्यपतत्पितामहम्।
निघ्नन्नमित्रान्धनुषा दृढेन ।
संकम्पयंस्तव पुत्रस्य सैन्यम् ॥ ६.६३.२७ ॥
就在那一刻,信守誓言的萨提亚基,即尸尼族的英雄,以坚固的弓射击敌人,猛扑向祖父,使你儿子的军队为之震颤。
6.63.28
तं यान्तमश्वै रजतप्रकाशैः ।
शरान्वपन्तं निशितान्सुपुङ्खान्।
नाशक्नवन्धारयितुं तदानीं ।
सर्वे गणा भारत ये त्वदीयाः ॥ ६.६३.२८ ॥
他驾着银白般明亮的马匹前进,射出锐利而羽毛美丽的箭,婆罗多啊,当时你的所有军队都无法阻挡他。
6.63.29
अविध्यदेनं दशभिः पृषत्कैः-
रलम्बुसो राक्षसोऽसौ तदानीम् ।
शरैश्चतुर्भिः प्रतिविद्ध्य तं च ।
नप्ता शिनेरभ्यपतद्रथेन ॥ ६.६३.२९ ॥
那时罗刹阿兰布沙以十箭射中他;尸尼的孙子以四箭还击,并乘战车向他猛扑过去。
6.63.30
अन्वागतं वृष्णिवरं निशम्य ।
तं शत्रुमध्ये परिवर्तमानम्।
प्रद्रावयन्तं कुरुपुङ्गवांश्च ।
पुनः पुनश्च प्रणदन्तमाजौ ॥ ६.६३.३० ॥
见那最优秀的毗湿尼族英雄前来,他在敌阵中疾驰,驱散俱卢族的雄牛,在战场上一再咆哮。
6.63.31
योधास्त्वदीयाः शरवर्षैरवर्ष-
न्मेघा यथा भूधरमम्बुवेगैः ।
तथापि तं धारयितुं न शेकु-
र्मध्यंदिने सूर्यमिवातपन्तम् ॥ ६.६३.३१ ॥
你的战士以箭雨倾注于他,如同云团以水势倾泻于山上。然而他们仍不能阻挡他,他如正午的太阳般炽烈。
6.63.32
न तत्र कश्चिन्नविषण्ण आसी-
दृते राजन्सोमदत्तस्य पुत्रात्।
स वै समादाय धनुर्महात्मा ।
भिरिश्रवा भारत सौमदत्तिः ॥ ६.६३.३२ ॥
大王,那里除了苏摩达多之子,无人气馁。婆罗多的后裔啊,那位大心的苏摩达多之子婆利室罗婆斯拿起了弓。
6.63.33
दृष्ट्वा रथान्स्वान्व्यपनीयमाना-
न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥ ६.६३.३३ ॥
见自己的战车被驱散,他渴望作战,便向萨提亚基迎面冲去。