Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.64

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.64.1

ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः ।
प्राविध्यद्भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम् ॥ ६.६४.१ ॥

于是,王啊,极为愤怒的婆利输罗婆斯以九支箭射中萨谛奇,如同用刺棒刺击大象。

6.64.2

कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः ।
अवारयदमेयात्मा सर्वलोकस्य पश्यतः ॥ ६.६४.२ ॥

无量心的萨谛奇当着众人的面,以弯曲节部的箭挡住了俱卢族战士。

6.64.3

ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।
सोमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ॥ ६.६४.३ ॥

于是国王难敌被兄弟们围绕,在战场上严阵以待,从四面护卫着索摩达蒂。

6.64.4

तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे ।
परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ॥ ६.६४.४ ॥

所有具大威力的般度之子包围了在战场上勇猛冲击的萨谛奇,在战斗中从四面站立。

6.64.5

भीमसेनस्तु संक्रुद्धो गजामुद्यम्य भारत ।
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥ ६.६४.५ ॥

然而婆罗多后裔啊,愤怒的怖军高举铁棒,包围了以难敌为首的你的所有儿子。

6.64.6

रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः ।
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ॥ ६.६४.६ ॥

你的儿子难陀迦充满愤怒与不满,率领数千战车,包围了大力的怖军。

6.64.7

विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः ।
दुर्योधनस्तदा राजन्भीमसेनं महारथम् ॥ ६.६४.७ ॥

那时,大王啊,难敌以六支在石上磨砺、以鹤羽为翎的箭射穿了大战车者怖军。

6.64.8

आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः ।
ततो भीमो महाबाहुः स्वरथं सुमहाबलः ॥ ६.६४.८ ॥

他愤怒地用九支利箭射中怖军的胸膛。于是大臂、极其强大的怖军登上了自己的战车……

6.64.9

आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ।
एते महारथाः शूरा धार्तराष्ट्राः समागताः ॥ ६.६४.९ ॥

他登上最好的战车,对毗首迦说道:"这些大战车者、英雄,即持国之子们,已经聚集在此……

6.64.10

मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि ।
मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः ॥ ६.६४.१० ॥

他们极度愤怒,准备在战斗中杀我。我们多年来在心中期望的那棵愿望之树……

6.64.11

सफलः सूत चाद्येह योऽहं पश्यामि सोदरान् ।
यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः ॥ ६.६४.११ ॥

御者啊!今日在此,我得见兄弟,所愿终于结果。

6.64.12

प्रयास्यन्त्यन्तरिक्षं हि शरबृन्दैर्दिगन्तरे ।
तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः ॥ ६.६४.१२ ॥

箭雨将在四方之间飞越天空。那里,披甲的国王苏尤达纳亲自站立着。

6.64.13

भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः ।
एतानद्य हनिष्यामि पश्यतस्ते न संशयः ॥ ६.६४.१३ ॥

他的兄弟们,披甲的贵族子弟,因骄傲而狂妄——今日我将在你眼前把他们全部杀死,此事毫无疑问。

6.64.14

तस्मान्ममाश्वान्संग्रमे यत्तः संयच्छ सारथे ।
एवमुक्त्वा ततः पार्थस्तव पुत्रं विशांपते ॥ ६.६४.१४ ॥

因此,御者啊,在战斗中小心地驾驭我的马匹。说完这话,人主啊,阿周那驱车冲向你的儿子。

6.64.15

विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः ।
नन्दकं च त्रिभिर्भाणैरभ्यविध्यत्स्तनान्तरे ॥ ६.६४.१५ ॥

他以锋利尖锐、饰以黄金的箭射伤了他;又以三支箭射中了他胸口的正中。

6.64.16

तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् ।
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥ ६.६४.१६ ॥

然而难敌以六十支箭射中了大力的怖军,又以另外三支极锐利的箭还击,射中了毗首伽。

6.64.17

भिमस्य च रणे राजन्धनुश्चिच्छेद भासुरम् ।
मुष्टिदेशे भृशं तीक्ष्णौस्त्रिभिर्भल्लैर्हसन्निव ॥ ६.६४.१७ ॥

大王啊,在战斗中,他以三支锐利的月牙箭猛烈地在握把处斩断了怖军那闪亮的弓,仿佛在含笑。

6.64.18

समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः ।
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥ ६.६४.१८ ॥

怖军在战场上看到自己的御者毗首伽,又被你那善射的儿子的锐利箭矢所困扰,心中不安。

6.64.19

अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशम् ।
पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥ ६.६४.१९ ॥

他无法忍受,愤怒地拿起神弓,啊大王,婆罗多之牛,为要杀死你的儿子。

6.64.20

समादधत्सुसंक्रुद्धः क्षुरप्रं रोमवाहिनम् ।
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥ ६.६४.२० ॥

他极为愤怒,搭上名为罗摩婆诃那的剃刀头箭,婆罗多之子怖军用它射断了国王那张上好的弓。

6.64.21

सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः ।
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥ ६.६४.२१ ॥

你的儿子抛开断弓,怒极昏乱,迅速拿起另一张更加迅疾的弓。

6.64.22

संदधे विशिखं घोर कालमृत्युसमप्रभम् ।
तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे ॥ ६.६४.२२ ॥

他搭上一支可怕的箭,光芒如时间与死亡,愤怒中用它射中了怖军的胸膛。

6.64.23

स गाढविद्धो व्यथितः स्यान्दनोपस्थ आविशत् ।
स निषण्णो रथोपस्थे मूर्च्छामभिजगाम ह ॥ ६.६४.२३ ॥

他深受重伤,痛苦不堪,跌坐在战车的底板上;坐在车底板上,他便昏厥过去。

6.64.24

तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः ।
नामृष्यन्त महेष्वासाः पाण्डवानां महारथः ॥ ६.६४.२४ ॥

看到怖军痛苦不堪,以阿毗曼尤为首的般度族大车战士和大弓箭手们无法忍受。

6.64.25

ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् ।
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥ ६.६४.२५ ॥

于是那些不动摇的勇士们向你的儿子头上倾下了猛烈如暴雨的锐利光耀的兵器。

6.64.26

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ ६.६४.२६ ॥

于是大力的怖军恢复神志,以三支箭射中难敌,随后又以五支箭射中他。

6.64.27

शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः ।
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥ ६.६४.२७ ॥

那位大弓箭手般迦王子以二十五支金羽箭射中沙利耶;他负伤后退出了战场。

6.64.28

प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश ।
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ॥ ६.६४.२८ ॥

于是你的十四个儿子向怖军冲去——统帅苏舍那,以及遮罗森陀和苏洛恰那。

6.64.29

उद्रो भीमरथो भीमो वीरबाहुरलोलुपः ।
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥ ६.६४.२९ ॥

乌德罗、怖军车、怖军、勇臂、无贪、恶面、难胜、欲知、毗迦吒与平等。

6.64.30

विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः ।
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥ ६.६४.३० ॥

他们目眦因愤怒而通红,射出许多箭,冲向怖军,一齐猛烈地射中了他。

6.64.31

पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः ।
सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः ॥ ६.६४.३१ ॥

你的儿子们看见大力的怖军,那英雄舔着嘴角,如狼入羊群般扑向他们。

6.64.32

अभिपत्य महाबाहुर्गरुत्मानिव वेगितः ।
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥ ६.६४.३२ ॥

这位大臂般婆罗多子如迦楼罗般迅猛扑上,以剃刀箭斩下了统帅的头颅。

6.64.33

संप्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः ।
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् ॥ ६.६४.३३ ॥

他心中欢喜,大笑一声,以三支箭射穿了怒海,将其送往阎摩之所。

6.64.34

सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ।
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ॥ ६.६४.३४ ॥

随后他杀死苏舍那,将其送入死亡;乌格罗那如月般的头连同头盔坠落于地。

6.64.35

पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ।
वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ॥ ६.६४.३५ ॥

他以一支宽刃箭斩落了饰有耳环的头颅;又以七十支箭将毗罗婆忽连同其马匹、旗帜和御者一并射倒。

6.64.36

निनाय समरे वीरः परलोकाय पाण्डवः ।
भीमं भीमरथं चोभौ भीमसेनो हसन्निव ॥ ६.६४.३६ ॥

在那场战斗中,英雄般度子将他们送往彼岸;怖军仿佛在笑着杀死了怖军与怖车两人。

6.64.37

पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् ।
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ॥ ६.६४.३७ ॥

大王啊,怖军将你两个傲慢的儿子送往阎摩的居所。随后在那场大战中,怖军以剃刀般锋利的箭将苏洛遮那送往那里。

6.64.38

मिषतां सर्वसैन्यानामनयद्यमसादनम् ।
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ॥ ६.६४.३८ ॥

众军注视之下,怖军将他们送往阎摩的居所。但你的儿子们见到怖军的威势,[都惊恐了]。

6.64.39

शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ।
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥ ६.६४.३९ ॥

那里剩下的其他人,被怖军的恐惧所折磨,大王啊,被这位伟大的人击杀,四散奔逃,逃向各个方向。

6.64.40

ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् ।
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥ ६.६४.४० ॥

于是,sháⁿtanava(毗湿摩)对所有大战车武士说:'这位愤怒的怖军正在战场上击杀持国的大战车武士之子。

6.64.41

यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च संगतान् ।
निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम् ॥ ६.६४.४१ ॥

这位猛烈持弓者(怖军)正在击倒前列者、长者和聚集的勇士,所以你们要立即擒住他,不要延误。

6.64.42

एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः ।
अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् ॥ ६.६४.४२ ॥

说完这些,持国之子的所有士兵,极为愤怒,向大力的怖军猛扑过去。

6.64.43

भगदत्तः प्रभिन्नेन कुञ्जरेण विशांपते ।
अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः ॥ ६.६४.४३ ॥

人主啊,巴伽达塔骑着发情的象,突然冲向毗摩所在之处。

6.64.44

आपतन्नेव च रणे भीमसेनं शिलीमुखैः ।
अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥ ६.६४.४४ ॥

他在战场上以箭雨猛攻毗摩世那,使之隐没不见,如同乌云遮蔽太阳。

6.64.45

अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः ।
भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः ॥ ६.६४.४५ ॥

然而以阿毗曼尤为首的大车战士们不能忍受毗摩如此被遮蔽,依仗自己的臂力,在战场上奋勇向前。

6.64.46

त एनं शरवर्षेण समन्तात्पर्यवारयन् ।
गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः ॥ ६.६४.४६ ॥

他们以箭雨从四面包围他,又从四面以箭雨刺穿了那头象。

6.64.47

स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः ।
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥ ६.६४.४७ ॥

君王啊,那头普拉格遮提沙的象遭到众大车战士的兵器雨袭击,被各种锋利的箭射伤。

6.64.48

संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे ।
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ ६.६४.४८ ॥

伤口流血不止,他在战场上成了令人瞩目的景象,如同被太阳光照亮的大片乌云。

6.64.49

संचोदितो मदस्रावी भगदत्तेन वारणः ।
अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः ॥ ६.६४.४९ ॥

在婆伽达多的驱策下,流淌着发情液的象冲向他们所有人,如同被时间放出的死神。

6.64.50

द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ।
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ॥ ६.६४.५० ॥

速度加倍,以双脚震动大地,众大车勇士见到它那巨大的身形,

6.64.51

असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् ।
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ॥ ६.६४.५१ ॥

他们认为此事难以忍受,并不高兴;于是愤怒的国王击中了婆罗门、怖军(毗摩)的胸膛

6.64.52

आजघान महाराज शरेणानतपर्वणा ।
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः । ॥ ६.६४.५२ ॥

大王啊,那位国王以弯曲关节的箭射中了他;这位大弓手、大车将被那国王重创。

6.64.53

मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत् ।
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम् ॥ ६.६४.५३ ॥

心神为昏厥所笼罩,他依靠在旗杆上;见那些惊恐的人们和昏迷的怖军,

6.64.54

ननाद बलवन्नादं भगदत्तः प्रतापवान् ।
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽऽगतं ॥ ६.६४.५४ ॥

勇猛的婆伽达多发出强烈的吼声。于是,大王,迦陀迦查见怖军那般状态,

6.64.55

संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ।
स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम् ॥ ६.६४.५५ ॥

愤怒的恐怖罗刹就在那里隐没了。他施展了令人恐惧、千变万化的可怖幻术。

6.64.56

अदृश्यत निमेषार्धाद्धोररूपं समास्थितः ।
ऐरावतं समारूढः स वै मायाकृतं स्वयम् ॥ ६.६४.५६ ॥

霎时间,他以可怖的形象现身,自己骑在幻术所造的爱罗婆多象之上。

6.64.57

तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः ।
अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः ॥ ६.६४.५७ ॥

其他的方位象也随从于他:安遮那、跋摩那、大莲华与善光。

6.64.58

त्रय एते महानागा राक्षसैः समधिष्ठिताः ।
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु ॥ ६.६४.५८ ॥

这三头大象被罗刹所驾驭,身躯巨大,大王啊,它们从三处大量喷涌发情之液。

6.64.59

तेजोवीर्यबलोपेता महाबलपराक्रमाः ।
घटोत्कचस्तु स्वं नागं चोदयामास तं तदा ॥ ६.६४.५९ ॥

他们具有光辉、勇力与力量,拥有巨大的威力与勇猛。那时,迦托迦佳催动了自己的那头象。

6.64.60

सगजं भगदत्तं तु हन्तुकामः परंतपः ।
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ॥ ६.६४.६० ॥

焚敌者迦托迦佳想连同他的象一并杀死婆伽达多;其他的象也被那些大力罗刹驱使着,

6.64.61

परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ।
भगदत्तस्य तं नागं विषाणैरभ्यपीडयन् ॥ ६.६४.६१ ॥

四根獠牙的愤怒大象从四面八方冲来,用獠牙猛烈挤压婆伽达多的那头象。

6.64.62

स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः ।
अनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥ ६.६४.६२ ॥

那头象被这些象挤压,痛苦万分,身中箭矢,发出如因陀罗霹雳般的巨吼。

6.64.63

व्यवर्तत महाघोषो भैमसेनिशरार्दितः ।
मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत ॥ ६.६४.६३ ॥

那头象被婆罗多的儿子(毗摩森纳之子)的箭所折磨,发出巨吼调头而回,践踏了你儿子的全部军队,婆罗多啊。

6.64.64

तस्य तं नदतो नादं सुघोरं भीमनिःश्वनम् ।
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥ ६.६४.६४ ॥

毗湿摩听到那头象可怕、骇人的吼声,便对德罗纳和国王苏约达那说道。

6.64.65

एष युध्यति संग्रामे हैडिम्बेन दुरात्मना ।
भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते ॥ ६.६४.६५ ॥

看哪,大弓箭手婆伽达多正与希丁芭之子、心怀恶意的迦托特迦查在战场上交战,陷入困境,辗转周旋。

6.64.66

राक्षसश्च महामायः स च राजाऽतिकोपनः ।
एतौ समेतौ समरे कालमृत्युसमावुभौ ॥ ६.६४.६६ ॥

大幻术的罗刹与极度愤怒的国王在战场相遇,二人都如同时间与死亡。

6.64.67

श्रीयते चैव हृष्टानां पाण्डवानां महास्वनः ।
हस्तिनश्चैव सुमहान्भीतस्य रुदितध्वनिः ॥ ६.६४.६७ ॥

欢欣的般度之子发出巨大的吼声,受惊的大象也发出极大的哀鸣之声。

6.64.68

तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् ।
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यति ॥ ६.६४.६८ ॥

愿你们吉祥,我们去那里保护国王吧。若在战场上无人守护,他将很快丧命。

6.64.69

ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे ।
महान्हि वर्तते रौद्रः संग्रामो रोमहर्षणः ॥ ६.६४.६९ ॥

诸位大勇士,快些吧!为何迟延前往?一场巨大、可怖、令人毛骨悚然的战斗正在进行。

6.64.70

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः ।
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत ॥ ६.६४.७० ॥

他忠诚、出身高贵、勇敢,又是军队统帅。阿周那啊(不朽者),我们应当保护他。

6.64.71

भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः ।
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया ॥ ६.६४.७१ ॥

众大车战士听了毗湿摩的话,以德罗纳和毗湿摩为先导,想要救护婆伽陀,便出发了。

6.64.72

उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ।
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ॥ ६.६४.७२ ॥

他们以最快的速度奔向他所在之处。看到他们前去,以坚战为首的人们……

6.64.73

पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् ।
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ॥ ६.६४.७३ ॥

般遮罗人与般度之子一道从后追击敌军。见到那些军队,威武的罗刹王

6.64.74

ननाद सुमहानादं विस्फोटमशनेरिव ।
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ॥ ६.६४.७४ ॥

他发出如霹雳炸裂般的巨大吼声。听到他的吼声,又见到交战中的象群

6.64.75

भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ।
न रोचते मे संग्रामो हैडिम्बेन दुरात्मना ॥ ६.६४.७५ ॥

檀努之子毗湿摩又对跋罗堕遮之子(德罗纳)说:"与心怀恶意的希丁巴之子交战,我并不乐意。"

6.64.76

बलवीर्यमसाविष्टः ससहायश्च सांप्रतज् ।
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ॥ ६.६४.७६ ॥

此人兼具力量与勇武,如今又有援军相助。即使执金刚的因陀罗亲自出战,也难以在战斗中胜过他。

6.64.77

लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः ।
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥ ६.६४.७७ ॥

此人出手必中目标,我们的坐骑也已疲惫。整整一天,我们都被般遮罗人与般度之子打得遍体鳞伤。

6.64.78

इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः ।
अस्तमभ्येति सविता रात्रौ योद्धुं कन शक्यते।
अवहारमतः कुर्मः श्वो योत्स्यामः परै सह ॥ ६.६४.७८ ॥

如今在战场上,那罗刹无法被战胜。太阳即将落山,夜间作战……不可能。所以我们应当撤退;明天再与敌人交战。

6.64.79

पितामहवचः श्रुत्वा यथा चक्रुःस्म कौरवाः ।
उपायेनापयानं ते घटोत्कचभयार्दिताः ॥ ६.६४.७९ ॥

众俱卢听了祖父的话,便照他所说去做;他们因惧怕迦托迦却而困扰,便以计策退却。

6.64.80

कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः ।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च भारत ॥ ६.६४.८० ॥

俱卢众退去后,般度诸子自以为得胜,大声作狮子吼,吹响海螺,婆罗多啊。

6.64.81

एवं तदभवद्युद्धं दिवसं भरतर्षभ ।
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥ ६.६४.८१ ॥

如此,那一场战斗整日进行,婆罗多族的雄牛啊,般度诸子与俱卢众之间,以迦托迦却居前。

6.64.82

कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् ।
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥ ६.६४.८२ ॥

于是,俱卢众,啊国王,羞愧地因被般度之子击败,在夜幕降临时返回了自己的营地。

6.64.83

शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः ।
युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति ॥ ६.६४.८३ ॥

般度之子这些大车勇士,身体被箭所伤,却在战斗中心情愉快,向各自的营地走去。

6.64.84

पुरस्कृत्य महाराज भीमसेनघटोत्कचौ ।
पूजयन्तस्तदान्योन्यं मुदा परमया युताः ॥ ६.६४.८४ ॥

伟大的国王啊,他们以婆罗森与迦托迦却居前,当时彼此致敬,充满无上的喜悦。

6.64.85

नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् ।
सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः ॥ ६.६४.८५ ॥

发出各种吼声,与号角声相混;发出狮吼,与螺号声相杂。

6.64.86

विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् ।
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष । ॥ ६.६४.८६ ॥

大士们咆哮,震动大地,击打你儿子的要害,啊,尊者。

6.64.87

प्रयाताः शिबिरायैव निशाकाले परंतप ।
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ॥ ६.६४.८७ ॥

他们夜间返回营地,啊,焚敌者。然而国王难敌因兄弟被杀而悲伤。

6.64.88

मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः ।
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि ।
प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः ॥ ६.६४.८८ ॥

他悲泣哀伤,沉思片刻。随后依礼完成营中一切仪式,因悲痛而煎熬,因兄弟之难而憔悴,陷入深深的思索。