摩诃婆罗多 · 章 6.65
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.65.1
भयं मे सुमहञ्जातं विस्मयश्चैव सञ्जय ।
श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥ ६.६५.१ ॥
桑闍耶啊,听到般度之子的行为,那连诸神也难以完成的事迹,我心中生起了巨大的恐惧与惊讶。
6.65.2
पुत्राणां च पराभावं श्रुत्वा सञ्जय सर्वशः ।
चिन्ता मे महती सूत भविष्यति कथं त्विति ॥ ६.६५.२ ॥
桑闍耶啊,听闻诸子全然败北,御者啊,我心中必将生起巨大的忧虑:此后将如何呢?
6.65.3
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम ।
तथा हि दृश्यते सर्वं दैवयोगेन सञ्जय ॥ ६.६५.३ ॥
桑闍耶啊,毗度罗的话必定会焚烧我的心,因为依天命的缘故,一切都如此显现。
6.65.4
यत्र भीष्ममुखान्सर्वाञ्शस्त्रज्ञान्योधसत्तमान् ।
पाण्डवानामनीकेषु योधयन्ति प्रहारिणः ॥ ६.६५.४ ॥
在那里,以毗湿摩为首、精通兵器的诸位最优秀勇士,正在般度之子的军阵中奋力厮杀。
6.65.5
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः ।
केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ॥ ६.६५.५ ॥
孩儿啊,这些大德而有大力的般度之子,被何人所赐而不可杀害?谁赐予了他们恩惠?或者他们知晓怎样的智慧?
6.65.6
येन क्षयं न गच्छन्ति दिवि तारागणा इव ।
पुनःपुनर्न मृष्यामि हतं सैन्यं तु पाण्डवैः ॥ ६.६५.६ ॥
以何之故,他们不会像天空中的星群一样消逝呢?我一再无法忍受,我的军队被般度之子所杀。
6.65.7
मय्येव दण्डः पतति दैवात्परमदारुणः ।
यथाऽवध्याः पाण्डुसुता यथा वाध्याश्च मे सुताः ॥ ६.६५.७ ॥
命运使最可怕的惩罚降临在我身上,仿佛般度之子不可杀,而我的儿子可杀。
6.65.8
एतन्मे सर्वमाचक्ष्व याथातथ्येन सञ्जय ।
न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन ॥ ६.६५.८ ॥
桑闍耶,请将这一切如实告诉我;这痛苦的尽头,我无论如何也看不到。
6.65.9
समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ।
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् ॥ ६.६५.९ ॥
如同人以双臂横渡大海,我想,儿子们确已遭遇极其可怕的灭亡。
6.65.10
घातयिष्यति मे स्रवान्पुत्रान्भीमो न शंसयः ।
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ॥ ६.६५.१० ॥
毫无疑问,婆罗多会使我的儿子被杀;我看不到有哪位英雄能在战场上保护我的儿子们。
6.65.11
ध्रुवं विनाशः संप्राप्तः पुत्रामां मम सञ्जय ।
तस्मान्मे कारणं सूत शक्तिं चैव विशेषतः ॥ ६.६५.११ ॥
桑闍耶,我儿子们的灭亡确已降临;因此,御者啊,请特别告诉我其缘由和他们的力量。
6.65.12
पृच्छतो वै यथातत्त्वं सर्वमाख्यातुमर्हसि ।
दुर्योधनश्च यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे ॥ ६.६५.१२ ॥
既然我问你,你应当将一切如实告诉我——还有,杜尔约陀那看见自己的人在战场上转身逃避时,做了什么。
6.65.13
भीष्मद्रोणौ कृपश्चैव सौबलश्च जयद्रथः ।
द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ॥ ६.६५.१३ ॥
毗湿摩、德罗纳、克里帕、苏跋罗之子与胜车,德罗纳之子这位大弓手,或大力的毗迦尔纳——
6.65.14
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मानाम् ।
विमुखेषु महाप्राज्ञ मम पुत्रेषु सञ्जय ॥ ६.६५.१४ ॥
大智的桑闍耶啊,我的儿子们转身败退时,那些大德者当时有何决断?
6.65.15
श्रृणु राजन्नवहितः श्रुत्वा चैवावधारय ।
नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् ॥ ६.६५.१५ ॥
大王,请专心聆听,听后要牢记。这并非由谋议所设,也不是那样的诡计。
6.65.16
न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः ।
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ॥ ६.६५.१६ ॥
大王,般度之子并不制造任何恐吓;他们虽强大,却依正理在战场上作战。
6.65.17
धर्मेण सर्वकार्याणि जीवितादीनि भारत ।
आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ॥ ६.६५.१७ ॥
婆罗多啊,般度之子总是依法开始一切事业,乃至生命,他们渴望伟大的名声。
6.65.18
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः ।
श्रिया परमया युक्ता यतो धर्मस्ततो जयः ॥ ६.६५.१८ ॥
他们具足法度、大力,并拥有至上的光荣,不会从战斗中退却。法在哪里,胜利就在哪里。
6.65.19
तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ।
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ॥ ६.६५.१९ ॥
因此,普利塔之子在战场上不可被杀,哦国王,他们具有胜利;而你那些心术邪恶的儿子却始终沉溺于罪恶之事。
6.65.20
निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ।
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वरे ॥ ६.६५.२० ॥
他们残忍且行为卑劣,因此在战斗中衰败。哦人主,你的儿子们做了许多残酷之事。
6.65.21
निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ।
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ॥ ६.६५.२१ ॥
此处加害于般度五子的行为,如同卑劣之人所为,而你的儿子们的全部罪过都被忽视了。
6.65.22
धर्ममूलाः सदैवासन्पाण्डवाः पाण्डुपूर्वज ।
न चैतान्बहुमन्यन्ते पुत्रास्तव विशांपते । ॥ ६.६५.२२ ॥
般度五子始终以法为根本,哦般度的先祖;而你的儿子们并不尊重他们,哦民之主。
6.65.23
तस्य पापस्य सततं क्रियमाणस्य कर्मणः ।
सांप्रतं सुमहद्धोरं फलं प्राप्तं जनेश्वर ॥ ६.६५.२३ ॥
那持续所作的罪恶之业,其果报如今已以极大而可怖的形式到来,哦人主。
6.65.24
स त्वं भुङ्क्ष्व महाराज सपुत्रः समुहृञ्जनः ।
नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः ॥ ६.६५.२४ ॥
因此,哦大王,你应与你的儿子和亲友共同承受其果报。哦国王,尽管朋友们曾劝阻你,你却不明白。
6.65.25
विदुरेणाथ भीष्मेण द्रोणेन न महात्मना ।
तथा मया चाप्यसकृद्वार्यमाणो न बुध्यसे ॥ ६.६५.२५ ॥
尽管维杜罗、毗湿摩、大心的德罗纳以及我也一再劝阻,你仍然不明白。
6.65.26
वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ।
पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ॥ ६.६५.२६ ॥
犹如凡人拒绝对身体有益的良药,你也不听有益且合宜的良言;你采纳诸子的意见,便以为般度之子已被征服。
6.65.27
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि ।
कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ॥ ६.६५.२७ ॥
婆罗多族中最优秀的人啊,你问我般度之子胜利的原因,请再如实听来。
6.65.28
तत्तेऽहं कथयिष्यामि यथाश्रुतमरिन्दम ।
दुर्योधनेन संपृष्ट एतमर्थं पितामहः ॥ ६.६५.२८ ॥
降伏敌人者啊,我将照我所闻告诉你:当难敌就此事询问时,祖父所说的话。
6.65.29
दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितांस्तु महारथान् ।
शोकसंमूढहृदयो निशाकाले स्म कौरवः ॥ ६.६५.२९ ॥
见所有兄弟和大车将在战场上被击败,那位俱卢之子心中因悲伤而迷乱,于夜间。
6.65.30
पितामहं महाप्राज्ञं विनयोपगम्य ह ।
यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥ ६.६५.३० ॥
你的那个儿子恭敬地走近极有智慧的祖父,所说的话,人主啊,请从我这里听。
6.65.31
भवान्द्रोणश्च कर्णश्च कृपो द्रौणिस्तथैव च ।
कृतवर्मा च हार्दिक्यः काम्भोजश्च सुदक्षिणः ॥ ६.६५.३१ ॥
您、德罗纳、迦尔纳、克里帕、德罗纳之子,以及同样的克里达瓦尔曼、曲迪伽之子、坎波阇王与苏达克希纳。
6.65.32
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् ।
महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ ६.६५.३२ ॥
还有布利希拉瓦斯、毗迦尔纳,以及勇猛的婆伽达多。这些大车战士声名远扬,出身高贵,愿意舍命。
6.65.33
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः ।
पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ॥ ६.६५.३३ ॥
依我看,这些人即使对三界也已足够;而般度诸子合起来,在勇武上也抵挡不住他们。
6.65.34
तत्र मे संशयो जातस्तत्त्वमाचक्ष्व पृच्छतः ।
यं समाश्रित्य कौन्तेय जयन्त्यस्मान्क्षणेक्षणे ॥ ६.६५.३४ ॥
因此我心中生起疑惑。我请问:请告诉我真相——贡蒂之子啊,他们依仗什么,每时每刻都能战胜我们?
6.65.35
शृणु राजन्वचो मह्यं यथा वक्ष्यामि कौरव ।
बहुशश्च मयोक्तोऽसि न च मे तत्त्वया कृतम् ॥ ६.६५.३५ ॥
国王啊,请听我的话;请听我所说的,俱卢子孙啊。我曾多次对你说过,你却没有照做。
6.65.36
क्रियतां पाण्डवैः सार्ध समो भरतसत्तम ।
एतत्क्षेममहं मन्ये पृथिव्यास्तव वा विभो ॥ ६.६५.३६ ॥
婆罗多中最优秀的人啊,请与般度之子们平等和解。我认为这对大地和你都是福祉,啊,强大者。
6.65.37
भुङ्क्ष्वेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी ।
दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ॥ ६.६५.३७ ॥
国王啊,与诸兄弟一同快乐地享有这大地,使所有敌人痛苦,使亲族欢喜。
6.65.38
न च मे क्रोशतस्तात श्रुतवानसि वै पुरा ।
तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ॥ ६.६५.३८ ॥
孩子,我先前大声呼喊,你难道没有听见吗?你轻视般度之子,所以那件事如今已经降临。
6.65.39
यश्च हेतुरवध्यत्वे तेकषामक्लिष्टकर्मणाम् ।
तं शृणुष्व महाबाहो मम कीर्तयतः प्रभो ॥ ६.६५.३९ ॥
大力之主啊,听我讲述那些行事无倦者不可被杀的原因。
6.65.40
नास्ति लोकेषु तद्भूतं भविता नो भविष्यति ।
यो जयेत्पाण्डवान्सर्वान्पालिताञ्छार्ङ्गधन्वना ॥ ६.६५.४० ॥
世间不存在、将来也不会有任何众生,能够战胜受执持沙尔迦弓者所护佑的所有般度之子。
6.65.41
यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः ।
पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ॥ ६.६५.४१ ॥
孩子,知法者,请如实听我所受那些心志清净的仙人所传的古老之歌。
6.65.42
पुरा किल सुराः सर्वे ऋषयश्च समागताः ।
पितामहमुपासेदुः पर्वत गन्धमादने ॥ ६.६५.४२ ॥
很久以前,所有天神与仙人聚集,前往乾陀摩陀那山拜见祖父(梵天)。
6.65.43
तेषां मध्ये समासीनः प्रजापतिरपश्यत ।
विमानं प्रज्वलद्भासा स्थितं प्रवरमम्बरे ॥ ६.६५.४३ ॥
端坐其中的生主,看见天空中停着一辆殊胜的天车,光芒炽烈。
6.65.44
ध्यानेनावेद्य तद्ब्रह्मा कृत्वा च नियतोऽञ्जलिम् ।
नमश्चकार हृष्टात्मा पुरुषं परमेश्वरम् ॥ ६.६५.४४ ॥
梵天以禅定察知此事,收敛心神,合掌,欢喜地向至高主宰补卢沙行礼。
6.65.45
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् ।
स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ॥ ६.६५.४५ ॥
诸仙与诸天见梵天起身,皆合掌而立,凝望这大奇迹。
6.65.46
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः ।
जगाद जगतः स्रष्टा परं परमधर्मवित् ॥ ६.६५.४६ ॥
梵天,梵智者中最殊胜者,世界的创造者,至高法的知者,依礼供养之后说道。
6.65.47
विश्वावसुर्विश्वमूर्तिर्हि विश्वे ।
विष्वक्सेनो विश्वकर्मा वशी च।
विश्वेश्वरो वासुदेवोऽसि तस्मा-
द्योगात्मानं देवतं त्वामुपैमि ॥ ६.६५.४७ ॥
你是毗湿婆伐苏、毗湿婆穆提、毗湿婆、毗湿伐克森那、毗湿婆羯摩,也是自制者;你即是毗湿婆自在者婆苏提婆。故此,瑜伽自性的神啊,我来到你的面前。
6.65.48
जय विश्वमहादेव जय लोकहिते रत ।
जय योगीश्वर विभो जय योगपरावर ॥ ६.६५.४८ ॥
胜利属于你,宇宙的大天神!胜利属于你,专心于世界福祉的神!胜利属于你,瑜伽自在者,遍在者!胜利属于你,超越瑜伽又居于瑜伽之中的神!
6.65.49
पद्मगर्भविशालाक्ष जय लोकेश्वरेश्वर ।
भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥ ६.६५.४९ ॥
莲心广目者,诸世界主之主,过去、未来与现在之主,愿你胜利。温和的自生者之子之子,愿你胜利。
6.65.50
असङ्क्येयगुणाधार जय सर्वपरायण ।
नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ ६.६५.५० ॥
无数德性的依托,众生至高的归宿,那罗延,难以超越者,愿你胜利。持沙尔嘎弓者,愿你胜利。
6.65.51
जय सर्वगुणोपेत विश्वमूर्ते निरामय ।
विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥ ६.६५.५१ ॥
具足一切德性,宇宙之相,无病无忧,愿你胜利。宇宙之主,大臂者,专注于世界福祉,愿你胜利。
6.65.52
महोरगवराहाद्य हरिकेश विभो जय ।
हरिवासदिशामीश विश्ववासामिताव्यय ॥ ६.६५.५२ ॥
大蛇与野猪之首,金发者,遍在之主,愿你胜利。诃利居所诸方之主,宇宙之居,无量不灭者,愿你胜利。
6.65.53
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सत्त्क्रिय ।
असङ्ख्येयात्मभावज्ञ जय गम्भीर कामद ॥ ६.६५.५३ ॥
显与隐与无量之所居,诸根已调,行为真实,知无数自性之状,愿你胜利。深邃者,赐予愿望者,愿你胜利。
6.65.54
अनन्त विदित ब्रह्मन्नित्यभूतविभावन ।
कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयावह ॥ ६.६५.५४ ॥
无尽者,已知者,梵啊,永恒使众生显现者,愿你胜利。事业已成者,智慧圆满者,知法者,带来胜利者,愿你胜利。
6.65.55
गुह्यात्मन्सर्वयोगात्मन्स्फुटसंभूतसंभव ।
भूताद्य लोकत्त्वेश जय भूतविभावन ॥ ६.६५.५५ ॥
噢,秘藏之我,一切瑜伽之我,显现而生之诸有的本源,诸有之始,诸界之主,愿你胜利,生育诸有者!
6.65.56
आत्मयोगे महाभाग कल्पसंक्षेपतत्पर ।
उद्भावनमनोभाव जय ब्रह्म जयप्रिय ॥ ६.६५.५६ ॥
噢,自我之瑜伽者,大福者,专注于收摄劫的,心意专注于化生的,愿你胜利,梵,喜爱胜利的!
6.65.57
निसर्गसर्गनिरत कामेश परमेश्वर ।
अमृतोद्भवसद्भाव मुक्तात्मन्विजयप्रद ॥ ६.६५.५७ ॥
你喜于自然的创造,欲之主,最高主宰,从甘露生出的真实之有,解脱之我,赐予胜利者!
6.65.58
प्रजापतिपते देव पद्मनाभ महाबल ।
आत्मभूतमहाभूत सत्वात्मञ्जय सर्वदा ॥ ६.६५.५८ ॥
噢,诸生主之主,天神,莲花脐者,大力者,自生者,大种之我,善性之我,愿你永远胜利!
6.65.59
पादौ तव धा देवी दिशो बाहु दिवं शिरः ।
मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥ ६.६५.५९ ॥
你的双足是大地女神,方位是你的臂,天是你的头;我是你的形相,诸天神是你的身,月与日是你的双眼。
6.65.60
बलं तपश्च सत्यं च कर्म धर्मात्मकं तव ।
तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥ ६.६५.६० ॥
你的力量、苦行、真理,以及以法为体的业;你的光明是火,风是你的呼吸,水从你的汗中生出。
6.65.61
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती ।
वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ ६.६५.६१ ॥
双马童永远是你的双耳,女神萨罗室伐蒂是你的舌头;恪守礼仪的吠陀——此世界确实依托于你。
6.65.62
न सङ्ख्यानं परीमाणं न तेजो न पराक्रमम् ।
न बलं योगयोगीश जानीमस्ते परंतप ॥ ६.६५.६२ ॥
瑜伽合一之主,焚烧敌人者!我们不知你的数量、尺度、光辉、勇力,也不知你的力量。
6.65.63
त्वद्भक्तिनिरता देव नियमैस्त्वां समाश्रिताः ।
अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ ६.६५.६३ ॥
神啊,我们专心于你的虔诚,以戒律皈依你,我们常常礼拜你——毗湿奴啊,至上主,大自在天!
6.65.64
ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः ।
पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ ६.६५.६४ ॥
仙人、天神与乾达婆,夜叉、罗刹与蛇族,毕舍遮与人类,以及走兽、飞鸟与爬虫。
6.65.65
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् ।
पद्मनाभ विशालाक्ष कृष्ण दुःश्वप्रणाशन ॥ ६.६५.६५ ॥
如此等类以及我在大地上所造的一切,都生于你的恩典。莲花脐之主、广目者、黑天啊,驱除恶梦者!
6.65.66
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगद्गुरुः ।
त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ ६.६५.६६ ॥
你是一切众生的归宿,你是引导者,你是世界的导师。天神之主啊,因你的恩典,诸天神常得安乐。
6.65.67
पृथिवी निर्भया देव त्वत्प्रसादात्सदाऽभवत् ।
तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥ ६.६५.६७ ॥
神啊,因你的恩典,大地始终无所畏惧。因此,广目者、增益耶度族者,请你降生吧。
6.65.68
धर्मसंस्थापनार्थाय दैत्यानां च बधाय च ।
जगतो धारणार्थाय विज्ञाप्यं कुरु मे विभो ॥ ६.६५.६८ ॥
为确立正法、诛杀达伊提亚、维系世界,主啊,请成全我的这一祈请。
6.65.69
यत्तत्परमकं गुह्यं त्वत्प्रसादादिदं विभो ।
वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ ६.६५.६९ ॥
主啊,因你的恩典,这便是至高的秘密;瓦苏提瓦,我已将它如实地向你宣说。
6.65.70
सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना ।
कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ॥ ६.६५.७० ॥
克里希那,你以自身创造了神桑卡尔沙那,又从自身生出了自生的普拉杜伊那。
6.65.71
प्रद्युम्नादनिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् ।
अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ ६.६५.७१ ॥
你从普拉杜伊那生出阿尼鲁达,人们称他为不灭的毗湿奴。阿尼鲁达又生出了我,即支撑众世界的梵天。
6.65.72
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ।
तस्माद्याचामि लोकेश चतुरात्मानमात्मना।
विभज्य भागशोत्मानं व्रज मानुषतां विभो ॥ ६.६५.७२ ॥
我由瓦苏提瓦所成,正是由你所造。因此,世界之主啊,我恳请你:以自身将四重之我分为诸部分,主啊,降入人身。
6.65.73
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै ।
धर्मं प्राप्य यशः प्राप्य योगं प्राप्स्यति तत्त्वतः ॥ ६.६५.७३ ॥
他在那里为了一切世界的幸福诛杀阿修罗,获得法与名声,真正将证得瑜伽。
6.65.74
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम ।
तैस्तैर्हि नामभिर्युक्ता गायन्ति परमात्मकम् ॥ ६.६५.७४ ॥
无量威力者啊!世间的梵仙与诸神,以那些不同的名号称颂你,歌咏你为至高的自我。
6.65.75
स्थिताश्च सर्वे त्वयि भूतसङ्घाः ।
कृत्वाश्रयं त्वां वरदं सुबाहो।
अनादिमध्यान्तमपारयोगं ।
लोकस्य सेतुं प्रवदन्ति विप्राः ॥ ६.६५.७५ ॥
一切众生都安住于你之中。善臂者啊!以赐予恩惠的你为依归,无始无中无终、具无限瑜伽的你,婆罗门称你为世界的桥梁。