Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.66

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.66.1

ततः स भगवान्देवो लोकानामीश्वरेश्वरः ।
ब्रह्माणं प्रत्युवाचेदं स्रिग्धगम्भीरया गिरा ॥ ६.६६.१ ॥

于是那位世尊天神,诸界之主中的主宰,以温和而深沉的声音对梵天说道。

6.66.2

विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् ।
तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥ ६.६६.२ ॥

“孩子,我借瑜伽之力已知你的全部心愿,事情会如此实现。”说完,他便就地隐没了。

6.66.3

ततो देवर्षिगन्धर्वा विस्मयं परमं गताः ।
कौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥ ६.६६.३ ॥

于是天界仙人与乾达婆大为惊异,满怀好奇,都向祖父说道。

6.66.4

कोन्वयं यो भगवता प्रणम्य विनयाद्विभो ।
वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥ ६.६६.४ ॥

啊,大能者,那位世尊谦恭礼拜、并以最美妙的言辞赞颂的此人是谁?我们想听听他的事迹。

6.66.5

एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः ।
देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ॥ ६.६६.५ ॥

如此被问之后,世尊祖父以甜美的声音回答了诸天、梵仙与乾达婆。

6.66.6

यत्तत्परं भविष्यं च भवितव्यं च यत्परम् ।
भूतात्मा च प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥ ६.६६.६ ॥

至上者、未来与必将至上者、众生之我与主宰,以及至高之境的梵。

6.66.7

तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः ।
जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः । ॥ ६.६६.७ ॥

我与那位喜悦的主进行了交谈,诸天中的雄牛啊;为了施恩于世界,我向世界之主请求。

6.66.8

मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः ।
अस्रुराणां वधार्थाय संभवस्व महीतले ॥ ६.६६.८ ॥

以婆苏提婆之名闻名,请降临人间世界;为诛灭阿修罗而诞生于大地之上。

6.66.9

संग्रामे निहता ये ते दैत्यदानवराक्षसाः ।
त इमे नृषु संभूता घोररूपा महाबलाः ॥ ६.६६.९ ॥

那些在战斗中被杀的提迭、檀那婆和罗刹——这些形貌可怖、大力无比的,已投生于人类之中。

6.66.10

तेषां वधार्थं भगवान्नरेण सहितो वशी ।
मानुषीं योनिमास्थाय चरिष्यति महीतले ॥ ६.६६.१० ॥

为了诛灭他们,世尊将与那罗同在,自制地取人身而生,行走于大地之上。

6.66.11

नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।
सहितो मानुषे लोके संभूतावमितद्युती ॥ ६.६६.११ ॥

那罗与那罗衍那——那两位古老的、最优秀的仙人——共同生于人间,将以无量的光辉照耀。

6.66.12

अजेयौ समरे यत्तौ सहितैरमरैरपि ।
मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥ ६.६६.१२ ॥

在战场上无人能胜,即便诸天共同出战——那两位仙人那罗与那罗衍那——愚昧之人并不认识他们。

6.66.13

तस्याहमग्रजः पुत्रः सर्वस्य जगतः प्रभुः ।
वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥ ६.६६.१३ ॥

我是他的长子,是整个世界的主宰。婆苏提婆,值得你们敬奉,是一切世界的大自在主。

6.66.14

तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः ।
नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥ ६.६६.१४ ॥

诸天中最尊贵者啊,不要因为认为他只是人,就轻视这位大力、手持螺号、轮与杵的神。

6.66.15

एतत्परमकं गुह्यमेतत्परमकं पदम् ।
एतत्परमकं ब्रह्म एतत्परमकं यशः ॥ ६.६६.१५ ॥

这是至高的秘密,这是至高的境界。这是至高的梵,这是至高的荣耀。

6.66.16

एतदक्षरमव्यक्तमेतद्वै शाश्वतं महः ।
यत्तत्पुरुषसंज्ञं वै गीयते ज्ञायते न च ॥ ६.६६.१६ ॥

这是不灭的、未显现的;这确实是永恒的光明。被称为补鲁莎而被歌颂的,却是不可知的。

6.66.17

एतत्परमकं तेज एतत्परमकं सुखम् ।
एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥ ६.६६.१७ ॥

这是至高的光辉,这是至高的快乐。这是至高的真理,正如毗首羯磨所宣说。

6.66.18

तस्मात्सेन्द्रैः सुरैः सर्वैर्लोकैश्चामितविक्रमःक ।
नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥ ६.६६.१८ ॥

因此,即使是因陀罗与诸天,以及一切世界,也不应因认为无量威力的婆苏提婆只是人而轻视他,因为他是主宰。

6.66.19

यश्च मानुषमात्रोऽयमिति ब्रूयात्स मन्दधीः ।
हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥ ६.६६.१९ ॥

若有人说:"这只是一个凡人",此人便是愚钝之辈;轻慢希利凯莎者,人们称之为人中最卑劣者。

6.66.20

योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् ।
अवमन्येद्वासुदेवं तमाहुस्तमसं जनाः ॥ ६.६६.२० ॥

轻慢已入人身的大瑜伽士婆苏提婆者,人们称他为沉溺于黑暗之人。

6.66.21

देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् ।
पद्मनाभं न जानाति तमाहुस्तामसं बुधाः ॥ ६.६६.२१ ॥

不认识那位神——动与不动之万物的自我、带有吉祥痣、光辉照耀、脐生莲花者——智者称他为愚暗之人。

6.66.22

किरीटकौस्तुभधरं मित्राणामभयंकरम् ।
अवजानन्महात्मानं घोरे तमसि मञ्जति ॥ ६.६६.२२ ॥

轻慢佩戴王冠与考斯图巴宝珠、赐予朋友无畏的大我者,必沉入可怖的黑暗。

6.66.23

एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः ।
वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ।
तस्यामहात्माजो ब्रह्मा सर्वस्य जगतः पतिः ॥ ६.६६.२३ ॥

知晓此真义之后,世界之主中的主婆苏提婆应当被一切世界礼敬,诸天中最上者啊。他那伟大而无生的儿子便是梵天,乃全世界之主。

6.66.24

एवमुक्त्वा स भगवान्देवान्सर्षिगकणान्पुरा ।
विसृज्य सर्वभूतानि जगाम भवनं स्वकम् ॥ ६.६६.२४ ॥

如此说毕,那位世尊在往昔遣散了诸神与众仙人,离开一切众生,回到了自己的居所。

6.66.25

ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च ।
कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥ ६.६६.२५ ॥

于是诸天、乾闼婆、仙人和阿普萨拉斯听到梵天所唱的那段故事后心生欢喜,返回天界。

6.66.26

एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् ।
वासुदेवं कथयतां समवाये पुरातनम् ॥ ६.६६.२६ ॥

孩子,我是从心灵纯净的诸仙那里听到这些的,他们在古时的集会上谈论着婆苏提婆。

6.66.27

रामस्य जामदग्न्यस्य मार्कण्डेयस्य धीमतः ।
व्यासनारदयोश्चापि सकाशाद्भरतर्षभ ॥ ६.६६.२७ ॥

从甘尼之子罗摩、智者摩根德耶,以及毗耶娑与那罗陀那里,婆罗多族的雄牛啊。

6.66.28

एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् ।
वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥ ६.६६.२८ ॥

了解此事并听闻那不灭的主宰、心胸广大的婆苏提婆——诸世界之主中的主宰之事之后。

6.66.29

यस्य चैवात्मजो ब्रह्मा सर्वस्य जगतः पिता ।
कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥ ६.६६.२९ ॥

他的儿子是梵天、他是整个世界的父亲,这位婆苏提婆为何不应受人敬拜、以祭祀供奉呢?

6.66.30

वारितोऽसि मया तात मुनिर्भिर्वेदपारगैः ।
मा गच्छ संयुगं तेन वासुदेवेन धन्विना ॥ ६.६६.३० ॥

孩子,我和通晓吠陀的诸仙已经劝阻过你:不要与那位执弓的婆苏提婆交战。

6.66.31

मा पाण्डवैः सार्धमिति तत्त्वं मोहान्न बुध्यसे ।
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ॥ ६.६६.३१ ॥

你因迷惑而不明白这个真理:不应与般度之子同行。我认为你是残酷的罗刹,被黑暗所笼罩。

6.66.32

यस्माद्द्विषसि गोविन्दं पाण्डवं तं धनञ्जयम् ।
नरनारायणौ देवी कोऽन्यो द्विष्याद्धि मानवः ॥ ६.६६.३२ ॥

因为你憎恨戈文达和那位般度之子达那阇耶,他们是那罗与那罗延二神;还有哪个凡人会憎恨他们呢?

6.66.33

तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः ।
सर्कवलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥ ६.६६.३३ ॥

因此,大王啊,我告诉你:他是永恒不灭的,由一切世界所成,恒常,是统治者、创造者、支撑者、坚固者。

6.66.34

यो धारयति लोकांस्त्रींश्चराचरगुरुः प्रभुः ।
योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥ ६.६६.३४ ॥

他承载三界,是动与不动之物的导师与主宰;他是战士、胜利、征服者,也是一切本性的主宰。

6.66.35

राजन्सर्वमयो ह्येष तमोरागविवर्जितः ।
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ ६.६६.३५ ॥

大王啊,他即是一切,远离昏暗与贪欲。克里希那在哪里,法就在哪里;法在哪里,胜利就在哪里。

6.66.36

तस्य माहात्म्ययोगेन योगेनात्ममयेन च ।
धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥ ६.६६.३६ ॥

凭借他的伟大之力与他自性的瑜伽,般度之子得到护持;大王啊,胜利必属于他们。

6.66.37

श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः ।
बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥ ६.६६.३७ ॥

他始终使般度之子的智慧趋向善好,在战斗中常常赐予他们力量,并保护他们免于恐惧。

6.66.38

स एष शाश्वतो देवाः सर्वगुह्यमयः शिवः ।
वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥ ६.६६.३८ ॥

他就是那永恒之神,由一切秘密构成,吉祥的湿婆;应当称他为婆苏提婆,因为你,婆罗多的后裔,正在问我这件事。

6.66.39

ब्राह्मणैः क्षत्रिकयैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिःक ॥ ६.६६.३९ ॥

婆罗门、刹帝利、吠舍和首陀罗,遵循各自本分之标志,始终虔诚,以各自的行为侍奉并崇拜他。

6.66.40

द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।
सात्वतं विधिमास्थाय गीतः संकर्षणेन वै ॥ ६.६६.४० ॥

在双轮纪末与迦利纪初,依据萨提瓦塔仪轨,由桑卡沙那所歌唱。

6.66.41

स एष सर्वं सुरमर्त्यलोकं ।
समुद्रकक्ष्यान्तरितां पुरीं च।
युगेयुगे मानुषं चैव वासं ।
पुनःपुनः सृजते वासुदेवाःक ॥ ६.६६.४१ ॥

正是他,一次又一次地创造诸神与凡人的整个世界、被海洋环绕的城市,以及每一时代人类的居所——婆苏提婆。