Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.67

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.67.1

वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते ।
तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ ६.६७.१ ॥

婆苏提婆在一切世界中被称为伟大的存在。祖父啊,我想知道他的降临与根基。

6.67.2

वासुदेवो महद्भूतं सर्वदैवतदैवतम् ।
न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ॥ ६.६७.२ ॥

婆苏提婆是伟大的存在,是诸神之神。婆罗多中的雄牛啊,除了那莲花眼者,再看不到更高的存在。

6.67.3

श्रुतं मे तात रामस्य जामदग्न्यस्य जल्पतः ।
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च।
असितो देवलश्चापि वालखिल्यास्तपोधनाः ॥ ६.६७.३ ॥

孩子啊,我听过耶摩达尼之子罗摩、天仙那罗陀、黑岛仙人、阿悉多、提婆罗,以及以苦行为财富的婆罗基利耶等人的言论。

6.67.4

मार्कण्डेयश्च गोविन्दे कथयत्यद्भुतं महत् ।
सर्वभूतादिभूतात्मा महात्मा पुरुषोत्तमः ॥ ६.६७.४ ॥

摩根德耶也谈及戈文达一桩宏大而奇妙之事:他是一切众生的原始根源,一切之我,伟大心灵的至上补鲁沙。

6.67.5

आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ।
स सृष्ट्वा पृथिवीं देवीं सर्वलोकेश्वरः प्रभुः ॥ ६.६७.५ ॥

水、风与火——这三者他所造。创造了女神大地之后,统治一切世界的主宰,将它们安排就绪。

6.67.6

अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।
सर्वदेवमयो देवः शयानः शयने सुखम् ॥ ६.६७.६ ॥

伟大心灵的至上补鲁沙在水中铺设了他的床榻。由一切诸神构成的神明,躺卧在床上,安然休息。

6.67.7

मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च ।
सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युत ॥ ६.६७.७ ॥

他从口中创造了火,从气息中创造了风,又创造了萨罗室伐底与吠陀;无垢者啊,他由意念创造了它们。

6.67.8

एषक लोकान्ससर्जादौ देवांश्च ऋषिभिः सह ।
अमृतं चैव मृत्युं च प्रजानां प्रभवाप्ययौ ॥ ६.६७.८ ॥

他起初创造了诸世界,以及诸神与仙人;不死与死亡,还有众生的生起与灭尽。

6.67.9

एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः ।
एष कर्ता च कार्यं च आदेरादिः स्वयं प्रभुः ॥ ६.६७.९ ॥

他即是法,知法者,赐予恩惠者,成就一切愿望者;他是作者,也是作业,是初始之初始,自在的主宰。

6.67.10

भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् ।
उभे सन्ध्ये दिवः खं च नियमांश्च जनार्दनः ॥ ६.६७.१० ॥

过去、现在与未来,他最初便已安排;两个黄昏、天与虚空,以及诸法则,哦,人天之主。

6.67.11

ऋषींश्चैव हि गोविन्दस्तपश्चैवाभ्यकल्पयत् ।
स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥ ६.६७.११ ॥

哥文達也安排了仙人與苦行;世界的創造者,那位大我、不滅的主宰也是如此。

6.67.12

अग्रजं सर्वभूतानां संकर्षणमकल्पयत् ।
शेषं चाकल्पयद्देवमनन्तमिति तं विदुः ॥ ६.६७.१२ ॥

他安立了一切众生的长兄僧伽尔沙纳;又安立了名为舍寒的神,人们称之为无尽者。

6.67.13

यो धारयति भूतानि धरां चेमां सपर्वताम् ।
ध्यानयोगेन विप्राश्च तं विदन्ति महौजसम्।
कर्णस्रोतोभवं चापि मधुं नाम महासुरम् ॥ ६.६७.१३ ॥

支撑一切众生以及这带有山岳的大地者;婆罗门以禅定瑜伽认识那位大威力者,也认识从耳孔所生的大阿修罗摩度(Madhu)。

6.67.14

तमुग्रमुग्रकर्माणमुग्रां बुद्धइं समास्थितम् ।
हरन्तं ब्रह्मणो वेदाञ्जघान ब्रह्मणः पिता।
ब्रह्मणोपचितिं कुर्वन्महात्मा पुरुषोत्तमः ॥ ६.६७.१४ ॥

那个凶猛、行为凶猛、心意凶猛、正在窃取梵天之吠陀的阿修罗,被梵天之父所杀;尊敬梵天的大德至上人(补鲁ша-乌达玛)如此行事。

6.67.15

तस्य तात वधादेव देवदानवमानवाः ।
मधुसूदनमित्याहुर्ऋषयश्च जनार्दनम् ॥ ६.६७.१५ ॥

孩子,正因为杀死了他,天神、阿修罗和人类称他为摩度苏陀那(Madhusūdana),诸仙人也称他为惊诸人者(Janārdana)。

6.67.16

वराहं नारसिंहं च त्रिविक्रममिति प्रभुम् ।
एष धाता विधाता च सर्वेषां प्रामिनां हरिः ॥ ६.६७.१६ ॥

野猪(Varāha)、人狮(Nārasiṃha)与三步(Trivikrama)——如此被称为主。此哈里是一切众生的持有者与安排者。

6.67.17

परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ।
मुखतः सोसृजद्विप्रान्बाहुभ्यां क्षत्रियांस्तथा ॥ ६.६७.१७ ॥

比莲花眼者更高之人,过去未曾有,将来也不会有。他从口中创造了婆罗门,从双臂同样创造了刹帝利。

6.67.18

वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैवच ।
तपसा नियतं देवं निधानं सर्वदेहिनाम् ॥ ६.६७.१८ ॥

王啊,他从大腿创造了吠舍,同样从双足创造了首陀罗。那位以苦行常被崇敬的神,是一切有身众生的宝藏。

6.67.19

ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।
योगभूतं परिचरन्केशवं महदाप्नुयात् ॥ ६.६७.१९ ॥

若于新月日与满月日,成为梵之化身,专注于瑜伽,侍奉羯舍婆,则必得大果。

6.67.20

केशवः परमं तेजः सर्वलोकपितामहः ।
एवमार्हुर्हृषीकेशं मुनयो वै नराधिप ॥ ६.६७.२० ॥

羯舍婆乃至上之光明,一切世界之祖父。国王啊,诸仙人正是如此称呼希瑞希迦舍。

6.67.21

एवमेनं विजानीहि आचार्यं पितरं गुरुम् ।
कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ ६.६७.२१ ॥

当如此视其为师、为父、为师尊。黑天所悦之人,便能赢得不朽的世界。

6.67.22

यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् ।
सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥ ६.६७.२२ ॥

人若在恐惧之地如此皈依羯舍婆,并常常诵读此篇,便得吉祥而安乐。

6.67.23

ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः ।
भये महति मग्नांश्च पाति नित्यं जनार्दनःक ॥ ६.६७.२३ ॥

皈依黑天之人不会迷惑。即便沉溺于巨大恐惧者,遮那陀那也常加护佑。

6.67.24

स तं युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत ।
सर्वात्मना महात्मानं केशवं जगदीश्वरम्।
प्रपन्नः शरणं राजन्योगानां प्रभुमीश्वरम् ॥ ६.६७.२४ ॥

婆罗多之后啊,坚战如实认识了他,便全心皈依伟大灵魂、世界之主羯舍婆。王啊,他是诸瑜伽之主,至高自在者。