摩诃婆罗多 · 章 6.71
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.71.1
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् ।
समभ्यधावद्गांङ्गेयमुद्यतास्त्रो धनञ्जयः ॥ ६.७१.१ ॥
丈夫见兄弟及其他诸王正与毗湿摩交战,便举起兵器,向恒河之子冲去。
6.71.2
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च ।
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥ ६.७१.२ ॥
见到般遮若耶螺号的吼声、甘提拔弓的弦响以及般度子的旗帜,我们所有人都心生恐惧。
6.71.3
सिंहलाङ्गूलमाकाशे ज्वलन्तमिव पर्वतम् ।
असञ्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ॥ ६.७१.३ ॥
空中那狮尾旗燃烧如同烈焰山岳,又似彗星升起,不挂于任何树梢。
6.71.4
बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम् ।
अपश्याम महाराज ध्वजं गाण्डीवधन्वनः ॥ ६.७१.४ ॥
大王啊,我们看见了持甘提拔弓者的旗帜:色彩斑斓,奇异而神圣,带有猴子的标记。
6.71.5
सुवर्णपृष्ठं गाण्डीवं रणे द्रक्ष्यामि भारत ।
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे ।
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे ॥ ६.७१.५ ॥
婆罗多啊,我将在战场上看见那金背的甘提拔弓,在空中闪耀,如同云中闪电。在大战中,战士们都看见了那金背的甘提拔弓。
6.71.6
आशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः ।
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥ ६.७१.६ ॥
我们听到他如因陀罗般的咆哮声极为响亮,也听到击打您军队的手掌发出的极其可怕的声音。
6.71.7
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् ।
दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ॥ ६.७१.७ ॥
如同被狂风驱动的乌云,伴着闪电与雷鸣,以箭雨浇灌四面八方。
6.71.8
समभ्यधावद्गाङ्गेयं भैरवास्त्रो धनञ्जयः ।
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥ ६.७१.८ ॥
手持可怖神兵的德南遮耶冲向恒河之子。我们被神兵迷惑,连东西方向都辨认不清。
6.71.9
कान्दिग्भूता श्रान्तपत्रा हताश्वा हतचेतसः ।
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥ ६.७१.९ ॥
迷失方向、武器疲惫、战马尽死、心神丧乱的那些战士,婆罗多中的雄牛啊,彼此紧紧相依。
6.71.10
भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः ।
तेषामार्तायनमभूद्भीष्मः शान्तनवो रणे ॥ ६.७१.१० ॥
与你所有的儿子们一同,他们只投奔于毗湿摩。在战场上,檀努之子毗湿摩成了受难者的庇护所。
6.71.11
समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ ६.७१.११ ॥
受惊的车兵从战车上跳下,骑兵从马背上跃下,步兵也纷纷跳到地上。
6.71.12
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।
सर्वसैन्यानि भीतानि व्यवालीयन्त भारत ॥ ६.७१.१२ ॥
听到甘狄拔弓的轰鸣,如同霹雳之雷,婆罗多啊,所有军队惊恐地躲藏起来。
6.71.13
अथ काम्भोजैजरश्वैर्महद्भिः शीघ्रगामिभिः ।
गोपानां बहुसाहस्त्रैर्बालैर्गापायनैर्वृतः ॥ ६.७१.१३ ॥
于是,被甘波遮人、阇罗奢婆人、迅捷的大勇士,以及牧人中数千名年轻的伽帕耶那所包围,
6.71.14
मद्रसौवीरगान्धारैस्त्रैगर्तैश्च विशांपते ।
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥ ६.७१.१४ ॥
人主啊,羯陵伽之王被摩达人、索维罗人、犍陀罗人、三郡人以及所有羯陵伽的首领所包围。
6.71.15
नानानरगणौघैश्च दुःशासनपुरःसरः ।
जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥ ६.७१.१५ ॥
率领着各种各样的人众,以难降为先导,而国王胜车也与所有诸王在一起,
6.71.16
हयारोहवराश्चैव तव पुत्रेण चोदिताः ।
चतुर्दशसहस्राणि सौबलं पर्यवारयन् ॥ ६.७१.१६ ॥
在你的儿子驱使下,一万四千名优秀骑兵包围了苏跋罗(沙恭尼)。
6.71.17
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः ।
अर्जुनं समरे जघ्नुस्तावका भरतर्षभ ॥ ६.७१.१७ ॥
于是他们全都会合,分配战车与坐骑,你的部众在战斗中攻击了阿周那,婆罗多的雄牛啊。
6.71.18
चेदिकाशिपदातैश्च रथैः पाञ्चालसृञ्जयैः ।
पाण्डवाः सहिताः सर्वे धृष्टद्युम्नपुरोगमाः।
तावकान्समरे जघ्नुर्धर्मपुत्रेण चोदिताः ॥ ६.७१.१८ ॥
众人在车乘与步兵的协助下会合,以遮提、迦尸的步兵及般遮罗、苏珊阇耶的战车相随,由持律子所鼓动,在战斗中攻击你的部众。
6.71.19
रथिभिर्वारणैरश्वैः पादातैश्च समीरितम् ।
घोरमायोधनं चक्रे महाभ्रसदृशं रजः ॥ ६.७१.१९ ॥
战车武士、象兵、骑兵与步兵扬起的尘土,使那可怕的战场如同巨大的云团。
6.71.20
तोमरप्रासनाराचगजाश्वरथयोधिनाम् ।
बलेन महता भीष्मः समसञ्जत्किरीटिना ॥ ६.७१.२० ॥
Bhīṣma率领大批骑象、骑马与乘车的武士,手持投枪、长矛与箭矢,与戴冠的阿周那交战。
6.71.21
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः ।
अजातशत्रुर्मद्राणामृषभेण यशश्विना ॥ ६.७१.२१ ॥
阿凡提王与迦尸王交战,信度王与Bhīmasena交战,阿阇多设都(坚战)则与名声显赫的摩德罗族之牛交战。
6.71.22
सहपुत्रः सहामात्यः शल्येन समसञ्जत ।
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ॥ ६.७१.२२ ॥
他与诸子及大臣一同与沙利亚交战;毗迦尔那与萨哈德瓦交战,citrasena与湿IKHANDIN交战。
6.71.23
मत्स्या दुर्योधनं जग्मुः शंकुनिं न विशांपते ।
द्रुपदश्चेकितानश्च सात्यकिश्चक महारथः ॥ ६.७१.२३ ॥
人主啊,摩蹉人攻向难敌而非沙古尼。德鲁帕达、遮枳檀那与大车武士萨谛基也(奋勇进入战斗)。
6.71.24
द्रोणेन समसञ्जन्त सपुत्रेण महात्मना ।
कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ ॥ ६.७१.२४ ॥
般度子孙与大德德罗纳及其子交战;牯嘉与德瓦马奔向德里什塔德尤姆那。
6.71.25
एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च ।
सैन्यानि समसञ्जन्त प्रयुद्धानि समन्ततः ॥ ६.७१.२५ ॥
于是马匹四散奔逃,象与车乱作一团四处游荡;军队在四面八方激烈交战,彼此冲杀在一起。
6.71.26
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसा वृताः ।
प्रादुरासन्महोत्काश्च सनिर्घाता विशांपते ॥ ६.७१.२६ ॥
无云的天空中闪现猛烈的闪电,四方被尘土笼罩,大流星伴随雷鸣出现,啊,人主。
6.71.27
प्रादुर्भूतो महावातः पांसुवर्षं पपात च ।
नभस्यन्तर्दधे सूर्यः सैन्येन सजसा वृतः ॥ ६.७१.२७ ॥
大风骤起,尘土如雨落下;太阳被军队扬起的尘土遮蔽,消失在天空中。
6.71.28
प्रमोहः सर्वसत्वानामतीव समपद्यत ।
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥ ६.७१.२८ ॥
一切众生都陷入极大的迷惑;被尘土所困、被兵器之网击中的人们,陷入了彻底的混乱。
6.71.29
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् ।
संघातः शरजालानां तुमुलः समपद्यत ॥ ६.७१.२९ ॥
英雄臂膀射出的箭雨之网,穿透一切铠甲,聚成了喧嚣的一大片。
6.71.30
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः ।
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥ ६.७१.३० ॥
由最优秀的臂膀高举的兵器,如星辰般清澈闪耀,照亮了天空,啊,婆罗多中的雄牛。
6.71.31
आर्षभाणि विचित्राणि रुक्मजालावृतानि च ।
संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥ ६.७१.३१ ॥
牛皮制成、色彩斑斓、覆以金网的盾牌纷纷坠落于四面八方,婆罗多中的公牛啊。
6.71.32
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः ।
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च । ॥ ६.७१.३२ ॥
被如太阳般闪耀的利剑四面砍落的躯体与头颅,在所有方向都可见。
6.71.33
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः ।
हताश्वाः पृथिवीं जग्मुस्तत्रतत्र महारथाः ॥ ६.७१.३३ ॥
车轮、车轴与车座皆已破碎、大旗已倒、马匹已死的大车战士,四处倒卧于地。
6.71.34
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः ।
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥ ६.७१.३४ ॥
有些马被兵器所伤,在此处倒下;车兵阵亡后,它们仍拖着战车四处奔走。
6.71.35
शराहता भिन्नदेहा बद्धयोक्रा हयोत्तमाः ।
युगानि पर्यकर्षन्त तत्रतत्र स्म भारत। ॥ ६.७१.३५ ॥
被箭射中、身体破裂、缰绳系缚的良马,在此处那处拖着车轭奔走,婆罗多啊。
6.71.36
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः ।
एकेन बलिना राजन्वारणेन विमर्दिताः ॥ ६.७१.३६ ॥
国王啊,人们看到他们连同御者、马匹与车兵,被一头强大的象踩踏。
6.71.37
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे ।
सन्निपाते बलौघानां गजैर्ममृदिरे गजाः ॥ ६.७१.३७ ॥
在战场上,许多大象嗅到发情象的麝香气味,在两军冲撞之时被其他大象践踏。
6.71.38
सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः ।
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥ ६.७१.३८ ॥
战场被倒下的、已经死去的驭象者、铁钩,以及被箭射中的大象所覆盖。
6.71.39
सन्निपाते बलौघानां प्रेषितैर्वरवारणैः ।
निपेतुर्युधि संभग्नाः सयोधाः सध्वजा गजाः ॥ ६.७१.३९ ॥
在两军冲撞之中,被优良大象驱使向前,战中受挫的大象连同战士与旗帜一起倒下。
6.71.40
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे ।
व्यदृश्यन्त महाराज संभग्ना रथकूबराः ॥ ६.७१.४० ॥
大王啊,战中可见破碎的战车辕木,被如蛇王般长鼻的大象抛掷而出。
6.71.41
विशीर्णरथसङ्घाश्च केशेष्वाक्षिप्य दन्तिभिः ।
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥ ६.७१.४१ ॥
战中,大象以长鼻抓住车兵的头发,像摇动树枝一样甩动他们,将车兵碾碎;成群的战车被摧毁。
6.71.42
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः ।
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ॥ ६.७१.४२ ॥
战中,优良的大象与一辆辆战车缠在一起,拖着战车,向四面八方奔去,各自发出各种吼声。
6.71.43
तेषां तथा कर्षतां तु गजानां रूपमाबभौ ।
सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥ ६.७१.४३ ॥
那些如此拖拽的象群之形相显现出来,仿佛湖中缠结的莲藕之网被拉扯。
6.71.44
एवं संछादितं तत्र बभूवायोधनं महत् ।
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥ ६.७१.४४ ॥
如此,那广大的战场被骑兵、步兵以及带着旗帜的大车勇士所覆盖。