摩诃婆罗多 · 章 6.72
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.72.1
शिखण्डी सह मत्स्येन विराटेन विशांपते ।
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥ ६.७२.१ ॥
世主啊,尸犍底与摩差王毗罗吒一同迅速攻击了大弓手、难以战胜的毗湿摩。
6.72.2
द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् ।
राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद्धनंजयः ॥ ६.७२.२ ॥
在战场上,财富征服者阿周那攻击了德罗纳、克利巴、毗迦尔纳、大弓手大力者,以及诸王的其他许多勇士。
6.72.3
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः ।
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ॥ ६.७२.३ ॥
诸王中的雄牛啊,大弓手信度王与其臣僚及亲属,以及东方和南方的诸王(阿周那攻击了他们)。
6.72.4
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् ।
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥ ६.७२.४ ॥
在战场上,怖军攻击了你那大弓手、不容忍的儿子难敌,也攻击了难受。
6.72.5
सहदेवस्तु शकुनिमुलूकं च महारथम् ।
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥ ६.७२.५ ॥
而偕天则攻击了沙恭尼与大车战士优禄迦,二人为父子,皆为大弓手且难以战胜。
6.72.6
युधिष्ठिरो महाराज गजानीकं महारथः ।
समवर्तत संग्रामे पुत्रेण निकृतस्तव ॥ ६.७२.६ ॥
大王啊,大车战士坚战与象军交战,他曾被你的儿子所伤。
6.72.7
माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि ।
त्रिगर्तानां बलैः सार्धं समसञ्जत पाण्डवः ॥ ६.७२.७ ॥
摩德利之子那古拉,战场上令勇士呐喊的人,与三伽尔塔的军队交战。
6.72.8
अभ्यवर्तन्त संक्रुद्धाः समरे साल्वकेकयान् ।
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥ ६.७२.८ ॥
愤怒的萨提亚奇、埃基塔纳和大车战士苏跋陀罗之子,在战场上冲向萨尔瓦与开迦耶人。
6.72.9
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः ।
नाकुलिश्च शतानीकः समरे रथपुङ्गवः ।
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥ ६.७२.९ ॥
战场上,德里什塔克图、罗刹迦陀迦查、那古拉之子沙塔尼迦——车战者中的翘楚——这些难以战胜的勇士冲向你儿子们的战车大军。
6.72.10
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः ।
द्रोणेन समरे राजन्समियायोग्रकर्मणा ॥ ६.७२.१० ॥
国王啊!无量心志、大力的统帅德里什塔德尤姆那,在战场上与行事猛烈的德罗纳相遇。
6.72.11
एवमेते महेष्वासास्तावकाः पाण्डवैः सह ।
समेत्य समरे शूराः संप्राहारं प्रचक्रिरे ॥ ६.७२.११ ॥
如此,你的这些大弓手与般度之子们在战场上相遇,展开了猛烈的交锋。
6.72.12
मध्यंदिनगते सूर्ये नभस्याकुलतां गते ।
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥ ६.७२.१२ ॥
太阳到达正午、天空一片混乱之时,俱卢与般度之子们开始互相残杀。
6.72.13
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे ।
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥ ६.७२.१३ ॥
金饰彩绘车身、树有旌旗的战车在战场上驰骋,旗帜闪耀;车辆覆以虎皮。
6.72.14
समेतानां च समरे जिगीषूणां परस्परम् ।
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥ ६.७२.१४ ॥
在战斗中相聚、彼此渴望取胜的人们之间,爆发出如狮子吼叫般的喧嚣之声。
6.72.15
तत्राद्भुतमपश्यास संप्रहारं सुदारुणम् ।
यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह ॥ ६.७२.१५ ॥
你在那里目睹了英勇的斯林阁耶人与俱卢人在战场上进行的那场奇异而极其惨烈的交锋。
6.72.16
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन ।
विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः ॥ ६.७२.१६ ॥
国王啊,令敌人痛苦的人,因为射出的箭矢,我们四面八方既看不见天空,也看不见方位,看不见太阳,甚至看不见中间的方位。
6.72.17
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् ।
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥ ६.७२.१७ ॥
光洁锋利的枪矛、标枪,挥舞的刀剑,以及金黄色的剑,闪耀的光芒如同青莲。
6.72.18
कवचानां विचित्राणां भूषणानां प्रभास्तथा ।
खं दिशः प्रदिशश्चैव भासयामासुरोजसा ॥ ६.७२.१८ ॥
各色铠甲与饰物的光辉也以其光彩照亮了天空、方位和中间的方位。
6.72.19
वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः ।
विरराज तदा राजंस्तत्रतत्र रणाङ्गणम् ॥ ६.७२.१९ ॥
大王啊,那时战场各处因诸王的躯体而闪耀,他们的光辉如同月亮和太阳。
6.72.20
रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे ।
विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥ ६.७२.२० ॥
大王啊,在战斗中前进的车群与人中虎般的勇士,在战场上闪耀,如同天空中的行星。
6.72.21
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् ।
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ॥ ६.७२.२१ ॥
然而,车战勇士中最优秀的毗湿摩怒火中烧,阻住了大力的怖军,全军都在旁观。
6.72.22
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः ।
अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः ॥ ६.७२.२२ ॥
于是,毗湿摩射出的利箭——金羽,在石上磨快,以油洗净,十分锋利——直奔怖军而去。
6.72.23
तस्य शक्तिं महावेगं भीमसेनो महाबलः ।
क्रुद्धाशीविषसंकाशं प्रेषयामास भारत ॥ ६.७२.२३ ॥
婆罗多的后代啊,大力的怖军将他那飞速的枪矛掷回,那枪如同愤怒的毒蛇。
6.72.24
तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम् ।
चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः ॥ ६.७२.२४ ॥
那枪突然扑来,金柄,难以抵挡,毗湿摩在战斗中以节部弯曲的箭将其斩断。
6.72.25
ततोऽपरेण भल्लेन पीतेन निशितेन च ।
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥ ६.७२.२५ ॥
于是毗湿摩以另一支黄色尖端的利箭,将怖军的弓一分为二,婆罗多啊。
6.72.26
अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः ।
शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि ॥ ६.७२.२६ ॥
怖军抛开断弓,以众多箭矢在战场上射击桑塔努之子毗湿摩。
6.72.27
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे ।
आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः ॥ ६.७२.२७ ॥
于是萨蒂亚基迅速逼近战场上的毗湿摩,以拉至耳边射出的极其锋利、尖锐的箭矢,
6.72.28
शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर ।
ततः संधाय वै तीक्ष्णं शरं परमदारुणम् ॥ ६.७२.२८ ॥
人主啊,他以众多箭矢射击您的父亲(毗湿摩);然后,搭上一支锋利而极其可怖的箭,
6.72.29
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ।
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ॥ ६.७२.२९ ॥
毗湿摩将毗尔希尼族(萨蒂亚基)战车上的御者射落。大王,战车御者既死,他的马便惊逃而去。
6.72.30
तेन तेनैव धावन्ति मनोमारुतरंहसः ।
ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत् ॥ ६.७२.३० ॥
那些马如意念与风一般迅捷,朝同一方向奔去;于是整个军队中爆发出巨大的喧嚣。
6.72.31
हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् ।
अभ्यद्रवत गृह्णीत हयान्यच्छत धावत ॥ ६.७२.३१ ॥
伟大的般度诸子之间响起“哎呀!”的惊呼。他们冲了上去:“抓住他们!拦住马匹!攻击!冲啊!”
6.72.32
इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ।
एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा ॥ ६.७२.३२ ॥
于是向着尤尤陀那的战车响起了喧嚣之声。正在此时,山塔努之子毗湿摩
6.72.33
न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा ।
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह ।
स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥ ६.७२.३३ ॥
犹如杀死弗栗多的因陀罗摧毁阿修罗军队,他歼灭了般度军。被毗湿摩杀戮的般遮罗与苏摩迦人,在战斗中下定决心,径直向毗湿摩冲去。
6.72.34
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे ।
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥ ६.७२.३४ ॥
以德里湿塔铎由那为首,般度诸子也在战场上向山塔努之子毗湿摩冲去,欲战胜您之子的军队。
6.72.35
तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः ।
अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥ ६.७२.३५ ॥
同样,王啊,以毗湿摩和德罗纳为首的俱卢人也疾速冲上前去。于是战斗开始了。