摩诃婆罗多 · 章 6.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.73.1
विराटोऽय त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् ।
विव्याध तुरमांत्रास्य त्रिभिर्बाणैर्महारथः ॥ ६.७३.१ ॥
毗罗吒也以三箭射向大车将军毗湿摩,而这位大车将军以三箭射穿了他的马。
6.73.2
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः ।
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥ ६.७३.२ ॥
桑塔努之子毗湿摩以十支金羽箭还击,射中了他;这位大弓手、手法娴熟的勇士力量强大。
6.73.3
द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः ।
अविध्यदिषुभिः षङ्भिर्दृढहस्तः स्तनान्तरे ॥ ६.७३.३ ॥
德罗纳之子,大车将军,弓势可怖,手法坚定,以六支箭射中持甘狄拔弓的阿周那胸膛正中。
6.73.4
कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा ।
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥ ६.७३.४ ॥
屠灭敌方英雄的法尔古那斩断了他的弓,那折磨敌人的勇士又以锐利的箭重重射中了他。
6.73.5
सोऽन्यत्कार्मुकमादाय वेगवान्क्रोधमूर्च्छितः ।
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥ ६.७३.५ ॥
那迅猛的勇士因愤怒而昏迷,又拿起另一张弓,无法忍受阿周那在战场上斩断了他的弓。
6.73.6
अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः ।
वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥ ६.७३.६ ॥
大王啊,他以九十支锐利箭射中法尔古那,又以七十支上等箭射中婆苏提婆。
6.73.7
ततः क्रोधाभिताम्राक्षः कृष्णेन सह फल्गुनः ।
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पुनःपुनः ॥ ६.७३.७ ॥
于是阿周那怒目通红,与黑天一同长长地、热热地叹息,反复思量。
6.73.8
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ।
गाण्डीवधन्वा संक्रुद्धः शितान्सन्नतपर्वणः ॥ ६.७३.८ ॥
摧敌的甘狄拔弓者怒气大发,以左手紧压弓身,取出节弯的利箭。
6.73.9
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ।
तैस्तूर्णं समरेऽविध्यद्रौणिं बलवतां वरः ॥ ६.७३.९ ॥
他取出夺命的可怖利箭,身为强者之最,在战场上迅速射中了德罗纳之子。
6.73.10
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ।
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ॥ ६.७३.१० ॥
箭穿透他的甲胄,在战场上饮尽了血;德罗纳之子虽被甘狄拔弓者射中,却并不痛苦。
6.73.11
तथैव च शरान्द्रौणिः प्रविमुञ्चन्नविह्वलः ।
तस्थौ च समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥ ६.७३.११ ॥
德罗纳之子同样不动摇地不断放箭,王啊,他在战场上屹立,想要守护他的大誓言。
6.73.12
तस्य तत्सुमहत्कर्म शशंसुः कुरुसत्तमाः ।
यत्कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे ॥ ६.७३.१२ ॥
库鲁族的最优秀者赞美了他这件极大的功绩:两位黑天虽联合在一起,他仍在战场上向他们发起冲击。
6.73.13
स हि नित्यमनीकेषु युध्यतेऽभयमास्तितः ।
अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥ ६.७३.१३ ॥
他总是在军阵中无畏地作战,已从德罗纳处获得那套极难获得的兵器,连同其收回之法。
6.73.14
ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः ।
ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥ ६.७३.१४ ॥
“此人是我师之子,也是德罗纳所爱之子,又是婆罗门;尤其值得我尊敬。”他便如此想。
6.73.15
समास्थआय मतिं वीरो बीभत्सुः सत्रुतापनः ।
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥ ६.७३.१५ ॥
那位征服敌人的英雄毘跋蘇(阿周那),定下心意,作为车战中的最上者,对婆罗堕阇之子(马嘶)生起了悲悯。
6.73.16
द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः श्वेतवाहनः ।
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥ ६.७३.१६ ॥
于是,毘跋蘇的贡蒂之子白马者(阿周那)舍下德罗纳之子(马嘶)不顾,急速地击杀你的部众,勇猛地作战。
6.73.17
दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः ।
भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत् ॥ ६.७३.१७ ॥
然而难敌以十支在石上磨利、以秃鹫羽为翎、金色箭尾的箭,全面射中了大弓手毘摩森那。
6.73.18
भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम् ।
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥ ६.७३.१८ ॥
极度愤怒的毘摩森那取起坚固、奇妙、能致人死命的弓,又取了十支利箭。
6.73.19
आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः ।
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥ ६.७३.१९ ॥
他以拉至耳边射出的锐利、迅疾、直飞的箭,从容不迫地迅速射穿了俱卢王宽阔的胸膛。
6.73.20
तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः ।
रराजोरसि खे सूर्यो ग्रहैरिव समावृतः ॥ ६.७३.२० ॥
他胸前金线上的宝珠虽被箭矢覆盖,仍如天空中被行星环绕的太阳般闪耀。
6.73.21
पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित ।
नामृष्यत यथा नागस्तलशब्दं मदोत्कटः ॥ ६.७३.२१ ॥
你那英勇的儿子被怖军击中,无法忍受,正如发情的象无法忍受拍掌之声。
6.73.22
ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः ।
भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम् ॥ ६.७३.२२ ॥
于是,大王,他愤怒地以镶金羽、在石上磨利的箭射穿了怖军,使军队惊恐。
6.73.23
तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ ।
पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ ॥ ६.७३.२३ ॥
你的那两个儿子,如神一般、极为强大,在战斗中相互重创,却闪耀着光芒。
6.73.24
चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा ।
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥ ६.७३.२४ ॥
摧毁敌方英雄的萨乌跋陀罗,以十箭射中人中猛虎质多羡那,又以七箭射中补卢弥多罗。
6.73.25
सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि ।
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥ ६.७३.२५ ॥
那位在战场上与因陀罗相等的英雄,以七十支箭射穿了萨提耶伏拉塔,仿佛在战斗中起舞一般,给我们带来了巨大的痛苦。
6.73.26
तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः ।
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥ ६.७३.२६ ॥
奇特塞那以十支箭反击他,萨提耶伏拉塔以九支,补鲁弥多罗以七支。
6.73.27
स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् ।
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ॥ ६.७३.२७ ॥
他身受重伤、血流不止,这位阿周那之子、大敌挡者,斩断了奇特塞那那张精美的大弓。
6.73.28
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ।
ततस्ते तावका वीरा राजपुत्रा महारथाः ॥ ६.७३.२८ ॥
他射穿了对方的铠甲,一箭射中其胸膛。随后你方的英勇王子与大车将——
6.73.29
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ।
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥ ६.७३.२९ ॥
他们在战中聚集,怒火中烧,以锐利的箭射向他;然而精通至高兵器者以利箭将他们全部射倒。
6.73.30
तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव ।
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ॥ ६.७३.३० ॥
你的儿子们见他如此作为,便将他团团围住;他在战场上焚烧军队,正如猛烈的烈火焚烧林中的灌木丛。
6.73.31
अपेतशिशिरे काले समिद्धमिव पावकम् ।
अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ॥ ६.७३.३१ ॥
寒冷的季节已经过去,如同燃起的烈火,苏跋陀罗之子光芒万丈,摧毁着你的军队。
6.73.32
तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशांपते ।
लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे ॥ ६.७३.३२ ॥
看到他的这一壮举,你的孙子罗什曼那,人主啊,迅速冲向了萨蒂亚基之子。
6.73.33
अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम् ।
विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः ॥ ६.७३.३३ ॥
然而阿毗曼尤大怒,以六支利箭射中吉相的罗什曼那,又以三支箭射中他的御者。
6.73.34
तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः ।
अविध्यत महाराज तदद्भुतमिवाभवत् ॥ ६.७३.३४ ॥
同样,罗什曼那,国王啊,用利箭射中了苏跋陀罗之子;大王啊,那看起来十分奇妙。
6.73.35
तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥ ६.७३.३५ ॥
杀死了他的四匹马和御者之后,力大无穷的苏跋陀罗之子以利箭冲向罗什曼那。
6.73.36
हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा ।
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति ॥ ६.७३.३६ ॥
站在失去马匹的战车上,击杀敌方英雄的罗什曼那愤怒地向阿毗曼尤的战车投出了长矛。
6.73.37
तामापतन्तीं सहसा घोररूपां दुरासदाम् ।
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥ ६.७३.३७ ॥
阿毗曼纽以锐利的箭将那突然袭来、形貌可怖、难以抵挡的长矛斩断,如同斩断一条蛇。
6.73.38
ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा ।
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥ ६.७३.३८ ॥
于是乔答摩将罗什曼那安置于自己的战车上,在战场上当着全军的面将他驾车带走。
6.73.39
ततः समाकुले तस्मिन्वर्तमाने महाभये ।
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥ ६.७३.३९ ॥
于是,在那巨大可怖的混乱之中,他们渴望互相杀戮,纷纷向对方冲去。
6.73.40
तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः ।
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥ ६.७३.४० ॥
您的大弓箭手与般度之子的大车战士,在战场上以生命作为祭品,互相击杀。
6.73.41
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभइः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥ ६.७३.४१ ॥
散乱着头发、无甲无车、弓已折断的斯林阇耶人,与俱卢人一起用双臂搏斗。
6.73.42
ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् ।
सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥ ६.७३.४२ ॥
于是臂力强大、力量无比的毗湿摩勃然大怒,以神圣的武器击杀了高尚的般度之子的军队。
6.73.43
हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः ।
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥ ६.७३.४३ ॥
那里,主人已被杀死的象群、倒下的人与马、战车武士和骑兵,把大地完全覆盖了。