摩诃婆罗多 · 章 6.74
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.74.1
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः ।
विकृष्य चापं समरे भारसाहमनुत्तमम् ॥ ६.७४.१ ॥
于是,大王,大臂的萨提亚基因战斗而狂喜,在战场上拉开他无与伦比的弓,那弓能够承受其重量。
6.74.2
यत्तत्सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम् ।
प्रगाढं लघु चित्रं च दर्शयन्हस्तलाघवम्।
प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ॥ ६.७४.२ ॥
他展现出先前从朋友阿周那那里学到的精湛手法,深沉、迅捷而奇妙,射出带羽的箭,如同毒蛇一般。
6.74.3
तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः ।
आददानस्य भूयश्च संदधानस्य चापरान् ॥ ६.७४.३ ॥
他反复拉开弓,射出其他箭,又取出箭,把另外的箭搭在弦上。
6.74.4
क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः ।
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥ ६.७४.४ ॥
他在战场上向敌人射击、击杀仇敌的身影,极像倾泻大雨的云。
6.74.5
तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः ।
रथानामयुतं तस्य प्रेषयामास भारत ॥ ६.७४.५ ॥
看到他前进,国王难敌,婆罗多啊,于是派去一万辆战车攻击他。
6.74.6
तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः ।
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥ ६.७४.६ ॥
萨提亚基,真正的勇士,最上的弓手,有力的人,以神圣的武器杀死了所有那些大弓箭手。
6.74.7
स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः ।
आससाद ततो वीरो भूरिश्रवसमाहवे ॥ ६.७४.७ ॥
这位英雄完成了那可怕的行动,手持弓箭,随即在战场上走近了布利什拉瓦斯。
6.74.8
स हि संदृश्य सेनां ते युयुधानेन पातिताम् ।
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः ॥ ६.७४.८ ॥
他看到你的军队被尤尤丹那击倒,便极为愤怒地冲向了他——他正是增添俱卢荣耀之人。
6.74.9
इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः ।
सृष्टवान्वज्रसंकाशाञ्शरानाशीविषोपमान् ॥ ६.७४.९ ॥
他拉开那张如因陀罗虹弓颜色般的大弓,射出如雷电、如毒蛇般的箭矢。
6.74.10
सहस्रशो माहाराज दर्शयन्पाणिलाघवम् ।
शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः ॥ ६.७४.१० ॥
大王啊,他千百次地展示着手上的灵巧,抵挡萨提亚基那触及死亡的箭矢,以及那些步行的随从。
6.74.11
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः ।
विहाय सात्यकिं राजन्समरे युद्धदुर्मदम् ॥ ६.७४.११ ॥
大王啊,那时他们无法忍受,便四散奔逃,抛弃了在战场上狂热激昂的萨提亚基。
6.74.12
तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः ।
महारथाःक समाख्याताश्चित्रवर्मायुधध्वजाः ॥ ६.७४.१२ ॥
看到他,尤尤丹那的十位英勇之子——被称为大战车武士,披着彩色铠甲,持有兵器、战旗——挺身而出。
6.74.13
समासाद्य महेष्वासं भूरिश्रवसमाहवे ।
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥ ६.७४.१३ ॥
在战斗中接近大弓手布利舒罗瓦斯,他们都极为愤怒,在大战中对那旗帜上有祭柱的人说道。
6.74.14
भोभो कौरवादायाद सहास्माभिर्महाबल ।
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा ॥ ६.७४.१४ ॥
啊,俱卢之子,啊,大力者!来与我们同行,在战斗中与我们全体一起,或单独与我们作战吧。
6.74.15
अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे ।
वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः ॥ ६.७४.१५ ॥
你若在战斗中击败我们,便可获得荣耀;或者我们击败你,使你的父亲欢喜。
6.74.16
एवमुक्तस्तदा शूरैस्तानुवाच महाबलः ।
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समवस्थितान् ॥ ६.७४.१६ ॥
众英雄这样对他说,那位大力、以自己勇力自夸的人中之杰,看到他们站在一起,便对他们说道。
6.74.17
साध्विदं कथ्यते वीरा यंद्येवं मतिरद्य वः ।
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥ ६.७४.१७ ॥
说得好,诸位英雄。若你们今天的决心就是如此,便做好准备,一同作战吧;我将在战斗中杀死你们。
6.74.18
एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः ।
महता शरवर्षेण अभ्यधावन्नरिन्दमम् ॥ ६.७४.१८ ॥
众大弓手、行动迅捷的英雄听后,便以密集的箭雨冲向那降服敌人者。
6.74.19
सोऽपराह्णे महाराज संग्रामस्तुमुलोऽभवत् ।
एकस्य च बहूनां च समेतानां रणाजिरे ॥ ६.७४.१९ ॥
午后,大王啊,战场上爆发了一场激烈的战斗,一人对阵聚集而来的众多敌人。
6.74.20
तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् ।
प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप ॥ ६.७४.२० ॥
如同雨季的云层浇灌须弥山,他们用箭雨淹没了那位独自一人、车战中最优秀的勇士,大王。
6.74.21
तैस्तु मुक्ताञ्शरान्घोरान्यमदण्डाशनिप्रभान् ।
असंप्राप्तानसंभ्राकन्तिश्चिच्छेदाशु महारथः ॥ ६.७४.२१ ॥
他们射出的可怕箭矢,明亮如阎摩的杖与雷电,这位大车战士毫不慌乱,在箭矢抵达之前迅速将其斩断。
6.74.22
तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् ।
यदेको बहुबिर्युद्धे समसञ्जदभीतवत् ॥ ६.७४.२२ ॥
在那里我们目睹了苏摩达多之子非凡的勇武:他孤身一人,却毫无畏惧地与众多敌人在战斗中平等相搏。
6.74.23
विसृज्य शरवृष्टिं तां दश राजन्महारथाः ।
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥ ६.७४.२३ ॥
大王啊,十位大车战士射出箭雨,包围了那位臂力强大的勇士,欲将其杀死。
6.74.24
समदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत ।
चिच्छेद समरे राजन्युध्यमानो महारथैः ॥ ६.७४.२४ ॥
于是,愤怒的苏摩达多之子,婆罗多的后裔啊,在战斗中与那些大车战士交锋,斩断了他们的弓,大王。
6.74.25
अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः ।
चिच्छेद समरे राजञ्शिरांसि भरतर्षभ ॥ ६.७४.२५ ॥
随后,他以节部弯曲的箭,在战场上斩下那些弓已断者的头颅,王啊,婆罗多族之牛。
6.74.26
ते हता न्यपतन्राजन्वज्रभग्ना इव द्रुमाः ।
तान्दृष्ट्वा निहतान्वीरो रणे पुत्रान्महाबलान् ॥ ६.७४.२६ ॥
他们被杀倒地,王啊,如同被雷electric劈断的树木。那英雄见自己的大力诸子在战场上被杀…
6.74.27
वार्ष्णेयो विनदराजन्भूरिश्रवसमभ्ययात् ।
रथं रथेन समरे पीडयित्वा महाबलौ ॥ ६.७४.२७ ॥
婆利尼之子咆哮着,王啊,向布利室罗婆迎去;在战场上以车迫车,那两位大力者…
6.74.28
तावन्योन्यं हि समरे निहत्य रथवाजिनः ।
विरथावभिवल्गन्तौ समेयातां महारथौ ॥ ६.७४.२८ ॥
二人在战场上互相杀死对方的车马,失去战车,跳跃着,那两位大车将面对面相遇。
6.74.29
प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ ।
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥ ६.७४.२९ ॥
二人手持大剑,身披精良盾牌,站立待战,那两位人中之虎熠熠生辉。
6.74.30
असह्यमसियुद्धाय भूरिश्रवसमाहवे ।
मत्वा वृकोदरस्तूर्णमभिप्लुत्य महारथः ॥ ६.७४.३० ॥
认为布利室罗婆在战场剑斗中难以抵挡,大车将狼腹(婆摩)迅速跃身向前。
6.74.31
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् ।
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥ ६.७४.३१ ॥
于是,Bhīmasena 走到手持良剑的 Sātyaki 身边,大王啊,他急忙让他登上了战车。
6.74.32
तवापि तनयो राजन्भूरिश्रवसमाहवे ।
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥ ६.७४.३२ ॥
大王啊,您的儿子也在战斗中迅速让 Bhūriśravas 登上战车,所有射手都在观看。
6.74.33
तस्मिस्तथा वर्तमाने रणे भीष्मं महारथम् ।
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥ ६.७४.३३ ॥
战斗如此进行时,愤怒的般度之子攻击了大车手 Bhīṣma,婆罗多族的雄牛啊。
6.74.34
लोहितायति चादित्ये त्वरमाणो धनञ्जयः ।
पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ ६.७४.३४ ॥
太阳变红之时,急速前进的 Dhanañjaya 杀死了二万五千名大车手。
6.74.35
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे ।
संप्राप्यैव गता नाशं शलभा इव पावकम् ॥ ६.७४.३५ ॥
他们受到 Duryodhana 的命令,前去消灭 Pārtha,然而一旦靠近,便如飞蛾扑火般灭亡了。
6.74.36
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः ।
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥ ६.७४.३६ ॥
此时,精通射箭之术的 Matsya 与 Kekaya 族人,与他的儿子们一起,将大车手 Pārtha 团团围住。
6.74.37
एवस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति ।
सर्वेषां चैव सैन्यानां प्रमोहः समजायत ॥ ६.७४.३७ ॥
就在此时,太阳将要落下,所有军队中都生出了混乱。
6.74.38
अवहारं ततश्चक्रे पिता देवव्रतस्तव ।
संध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥ ६.७४.३८ ॥
于是你的父亲提婆跋多(毗湿摩)撤退了。大王啊,黄昏时分,各军的坐骑已经疲惫。
6.74.39
पाण्डवानां कुरूणां च परस्परसमागमे ।
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥ ६.७४.३९ ॥
般度之子与俱卢人彼此交战的那两支军队,极其惊惶,各自返回了营地。
6.74.40
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत ।
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधिः ॥ ६.७४.४० ॥
随后,他们回到各自的营地,婆罗多的后裔啊,般度之子与斯林耶人,以及俱卢人,依照规矩在那里安顿下来。