Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.77.1

आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् ।
न हि दुर्योधनस्तानि पश्यते भरतर्षभ ॥ ६.७७.१ ॥

大王啊,你因自己的过错招致了这样的灾祸。婆罗多族的雄牛啊,难敌看不到那些。

6.77.2

यानि त्वं पश्यसे राजन्धर्मसंकरकारणात् ।
तव दोषात्पुरा वृत्तं द्यूतमेतद्विशांपते ॥ ६.७७.२ ॥

大王啊,你所见的一切,都是因为法的混乱而起。人民之主啊,从前这场赌博正是因你的过错而发生。

6.77.3

तव दोषेण युद्दं च प्रवृत्तं सह पाण्डवैः ।
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ॥ ६.७७.३ ॥

因你的过错,与般度子孙的战争已经开始。现在请你自己承受其果报,因为罪过是你自己造成的。

6.77.4

आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते ।
इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥ ६.७७.४ ॥

自己所作的业,唯有自己承受,无论今生还是来世。大王啊,你所得到的正是如此。

6.77.5

तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् ।
शृणु युद्धं यथा वृत्तं शंसतो मे नराधिप ॥ ६.७७.५ ॥

因此,大王啊,即使遭遇这场巨大的灾难,也请保持坚定。人主啊,请听我讲述这场战争是如何发生的。

6.77.6

भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् ।
आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ॥ ६.७७.६ ॥

毗摩先那以极锐利的箭射穿了那支大军,然后这位英雄抵达了难敌的所有幼弟面前。

6.77.7

दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् ।
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ॥ ६.७७.७ ॥

他看见难以抵挡、难以忍受、狂傲的难降(Duḥśāsana),以及Jaya、Jayatsena、Vikarṇa、Citrasena和Sudarśana。

6.77.8

चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च ।
एतांश्चान्यांश्च सुबहून्समीपस्थान्महारथान् ॥ ६.७७.८ ॥

Cārucitra、Suvarman、Duṣkarṇa和Karṇa,以及他们和附近站立的许多其他大车战士。

6.77.9

धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महारथः ।
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥ ६.७७.९ ॥

大车勇士怖军见到持国之子极为愤怒,便冲入那支在战斗中由毗湿摩守护的大军。

6.77.10

अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु ।
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ॥ ६.७७.१० ॥

见他冲入,他们都说:"诸位人王啊,我们要活捉他!"

6.77.11

स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः ।
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ॥ ६.७७.११ ॥

那位普利塔之子(怖军)被决心坚定的兄弟们环绕,犹如在万物毁灭之时,太阳被凶残的大行星所环绕。

6.77.12

संप्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत् ।
यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान् । ॥ ६.७७.१२ ॥

到达军队中央时,般度之子没有恐惧,正如在神与阿修罗之战中,因陀罗接近檀那婆时并无恐惧。

6.77.13

ततः शतसहस्राणि रथिनां सर्वशः प्रभो ।
उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे ॥ ६.७७.१३ ॥

于是,主啊,四面八方数十万车战士举起锐利的箭,独独将他包围。

6.77.14

स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः ।
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥ ६.७७.१४ ॥

这位英雄不顾持国之子,在战场上击杀了他们骑象、骑马、乘车的精锐武士。

6.77.15

तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् ।
समस्तानां वधे राजन्मतिं चक्रे महामनाः ॥ ६.७७.१५ ॥

得知他们想擒住怖军,大王啊,这位大度者决意将他们全部杀死。

6.77.16

ततो रथं समुत्सृज्य गदामादाय पाण्डवः ।
उवाच सारथिं भीमं स्थीयतामिति भारत ॥ ६.७७.१६ ॥

于是,般度之子弃车,手持钉棒,对御者怖军说:“停在这里吧,婆罗多啊。”

6.77.17

यावदेतान्हनिष्यामि धार्तराष्ट्रान्सहानुगान् ।
इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम् ।
जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम् ॥ ६.७७.१७ ॥

“在我将持国之子连同他们的随从全部杀尽之前……”说完,怖军便冲入那庞大的军队,击打持国之子军队的那片如海洋般的汹涌兵流。

6.77.18

गदया भिमसेनेन ताडिता वारणोत्तमाः ।
भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच ॥ ६.७७.१८ ॥

被怖军钉棒击中的良象,额头崩裂,身躯庞大,脊背折断,同样倒下了。

6.77.19

भिन्नगात्राः सहारोहैः शेरते पर्वता इव ।
रथाश्च भग्नास्तिलशः सयोधाः शतशो रणे ॥ ६.७७.१९ ॥

肢体破碎的象与其骑士一同倒卧,如同群山;战车被击得粉碎如芝麻粒,连同战士成百地横陈于战场。

6.77.20

अश्वाश्च सादिनश्चैव पादातैः सह भारत ।
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ॥ ६.७७.२० ॥

婆罗多啊,马与骑兵连同步兵都倒卧在那里;在那里,我们亲眼看见了毗摩斯那的神奇勇力。

6.77.21

यदेकः समरे राजन्बहुभिः समयोधयत् ।
अन्तकाले प्रजाः सर्वा दण्डपाणिरिवान्तकः ॥ ६.७७.२१ ॥

大王啊,犹如临终时手持刑杖的阎摩与一切众生争斗,他一人在战场上与众多敌人搏斗。

6.77.22

भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः ।
द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः ॥ ६.७७.२२ ॥

毗摩娑那冲入之后,般遮罗王之子持军也舍弃德罗纳,迅速奔向狼腹(毗摩)所在之处。

6.77.23

विदार्य महतीं सेनां तावकानां नरर्षभः ।
आससाद रथं शून्यं भीमसेनस्य संयुगे ॥ ६.७७.२३ ॥

他劈开你们的庞大军队,这位人中雄牛在战斗中抵达了毗摩娑那的空车。

6.77.24

दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् ।
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥ ६.७७.२४ ॥

大王啊,持军见毗摩娑那的御者在战斗中安然无恙,心中沮丧,几乎失去知觉。

6.77.25

अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् ।
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥ ६.७७.२५ ॥

他哽咽含泪,叹息而言,痛苦地问道:"比我的性命更亲爱的毗摩在哪里?"

6.77.26

विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः ।
संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी ॥ ६.७७.२६ ॥

毗舍迦合掌对持军者(Dhṛṣṭadyumna)说道:"让我留在此处,那位强大而勇猛的般度之子(毗摩)……

6.77.27

प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् ।
मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः ॥ ६.७७.२७ ॥

"他已进入持国诸子军队这片大海之中。"对我说了这话后,人中之虎以充满爱意的话语说道……

6.77.28

प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् ।
यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः ।
अभ्यधावद्गदापाणिस्तद्बलं स महाबलः ॥ ६.७७.२८ ॥

"御者啊,勒住马匹,等我片刻,直到我今日诛杀这些意图杀我的人。"说罢,手持狼牙棒的大力者冲向那支军队。

6.77.29

ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् ।
सर्वेषामेव सैन्यानां संहर्षः समजायत ॥ ६.७७.२९ ॥

此时,众人见那大力者手持狼牙棒冲来,全军之中顿时兴奋激昂。

6.77.30

तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके ।
भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ॥ ६.७७.३० ॥

大王啊,正当那场可怕而喧嚣的战斗进行之际,您的朋友(毗摩)冲破大阵,直入其中。

6.77.31

विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः ।
प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥ ६.७७.३१ ॥

毗舍迦的话被听到后,般沙塔之子德里什塔笃姆那于战阵中对御者作答,此人大力。

6.77.32

न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् ।
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ॥ ६.७७.३२ ॥

若我在战中舍弃毗摩舍那,抛弃对般度诸子的情谊,那么今日即使有生命,于我也毫无意义。

6.77.33

यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति ।
एकायनगते भीमे मयि चावस्थिते युधि ॥ ६.७७.३३ ॥

若我离开毗摩而去,刹帝利族会如何说我?毗摩已走上那唯一的道路,而我仍立于战阵之中。

6.77.34

तस्य न स्वस्ति कुर्वन्ति देवाः शक्रपुरोगमाः ।
यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहम् ॥ ६.७७.३४ ॥

以帝释为首的诸神,不会赐福给那抛弃盟友、安然回家的人。

6.77.35

रौरवे नरके मञ्जेदप्लवे दुस्तरे नृभिः ।
मम भीमः सखा चैव संबन्धी च महाबलः ।
भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥ ६.७७.३५ ॥

若毗摩于我而言不是朋友、亲属与大力之人,愿我沉入那无船渡人的罗罗婆地狱;他是我们的信徒,我也是那敌人的毁灭者的信徒。

6.77.36

सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः ।
निघ्नन्तं मां रिपून्पश्य दानवानिव वासवम् ॥ ६.७७.३६ ॥

故我将往伐迦陀罗所去之处。请看我歼灭敌人,犹如婆娑伐死诸檀那婆。

6.77.37

एवमुक्त्वा ततो वीरो ययौ मध्येन वाहिनीम् ।
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ॥ ६.७७.३७ ॥

这样说完,英雄穿过军队的中央,走向毗摩娑那所行之路,那里躺着被铁杵砸碎的象群。

6.77.38

स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम् ।
वातो वृक्षानिव बलात्प्रभञ्जन्तं रणे रिपून् ॥ ६.७७.३८ ॥

那时他看见毗摩焚烧敌军,在战场上摧毁敌人,如风猛烈折断树木一般。

6.77.39

ते वध्यमानाः समरे रथिनः सादिनस्तथा ।
पादाता दन्तिनश्चैव चक्रुरात्स्वरं महत् ॥ ६.७७.३९ ॥

那些在战斗中被杀的车兵、骑兵、步兵和象兵,发出了巨大的哀号。

6.77.40

हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष ।
वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥ ६.७७.४० ॥

尊者啊,你的军中发出一片哀嚎,因为他们正被技艺高超、神奇的勇士毗摩娑那所杀。

6.77.41

ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् ।
अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप ॥ ६.७७.४१ ॥

于是他们个个精通武艺,将狼腹(毗摩)团团围住,无所畏惧地在箭矢如雨中站定,啊,烧敌者。

6.77.42

अभिद्रुतं शस्त्रभृतां वरिष्ठं ।
समन्ततः पाण्डवं लोकवीरः।
सैन्येन घोरेण सुसंहितेन ।
दृष्ट्वा बली पार्षतो भीमसेनम् ॥ ६.७७.४२ ॥

力大的世界英雄、普利沙塔之子看见持兵器者中最优秀的般度之子毗摩娑那,四面被可怕而严整的大军所攻击,于是望见了毗摩娑那。

6.77.43

अथोपगच्छच्छरविक्षताङ्गं ।
पदातिनं क्रोधविषं वमन्तम्।
आश्वासयन्पार्षतो भीमसेनं ।
गदाहस्तं कालमिवान्तकाले ॥ ६.७७.४३ ॥

于是,般遮罗之子走近身被箭伤、步行、吐出愤怒之毒的怖军,安慰他,如同末劫时手持金刚杵的死神。

6.77.44

विशल्यमेनं च चकार तूर्ण-
मारोपयच्चात्मरथे महात्मा।
भृशं परिष्वज्य च भीमसेन-
माश्वासयामास स शत्रुमध्ये ॥ ६.७७.४४ ॥

这位大德迅速为他拔去箭矢,扶他登上自己的战车;在敌阵之中紧紧拥抱怖军,安慰他。

6.77.45

तथा तस्मिन्वर्तमानेऽतिवेगं ।
भ्रातॄनथोपेत्य तवापि पुत्रः ।
तस्मिन्विमर्दे तव संप्रवृत्ते ।
दृष्ट्वा रणे वाक्यमिदं बभाषे ॥ ६.७७.४५ ॥

当那场激烈的交战如此迅猛进行时,你的儿子也来到兄弟们身边,看到那场厮杀的战场,说出了这些话。

6.77.46

अयं दुरात्मा द्रुपदस्य पुत्रः ।
समागतो भीमसेनेन सार्धम् ॥ ६.७७.४६ ॥

这个邪恶的德鲁帕达之子,已与怖军相遇。

6.77.47

तं याम सर्वे महता बलेन ।
मा वो रिपुः प्रार्थयतामनीकम्।
श्रुत्वा तु वाक्यं तममृष्यमाणा ।
ज्येष्ठज्ञया नोदिता धार्तराष्ट्राः ॥ ६.७७.४७ ॥

我们大家以大军前去迎击他;愿敌人不要觊觎你们的军队。听到这些话,不能忍受的持国之子们在长兄的命令下受到激励。

6.77.48

वधाय निष्पेतुरुदायुधास्ते ।
युगक्षये केतवो यद्वदुग्राः।
प्रगृह्य चास्त्राणि धनूंषि वीरा ।
ज्यां नेमिघोषैः प्रविकम्पयन्तः ॥ ६.७७.४८ ॥

他们举起武器扑向杀戮,如同末劫之时凶猛的彗星。英雄们执起兵器与弓,拉紧弓弦,以战车轮的轰鸣使大地震颤。

6.77.49

शरैरवर्षन्द्रुपदस्य पुत्रं ।
यथाम्बुदा भूधरं वारिजालैः ।
निहत्य तांश्चापि शरैः सुतीक्ष्णै-
र्न विव्यथे समरे चित्रयोधी ॥ ६.७७.४९ ॥

他们向德鲁帕达之子倾泻箭雨,犹如乌云向山岳倾注水流。虽然他击杀了他们,那位神奇的勇士在战斗中以极锐利的箭矢仍未动摇。

6.77.50

न्दैत्येषु यद्वत्समरे महेन्द्रः ॥ ६.७७.५० ॥

如因陀罗(摩亨德罗)在战斗中于阿修罗之间屹立不动。

6.77.51

स वै ततोऽस्त्रं सुमहाप्रभावं ।
प्रमोहनं द्रोणदत्तं महात्मा।
प्रयोजयामास उदारकर्मा ।
तस्मिन्रणे तव सैन्यस्य राजन् ॥ ६.७७.५१ ॥

于是那位大德、行事高尚的英雄施放了德罗纳所授、威力极大、令人迷惑的神箭。大王啊,在那场战斗中,向你的军队。

6.77.52

न्मोहोपेतांस्तव पुत्रान्निशम्य ॥ ६.७७.५२ ॥

……看到你的儿子们陷入迷惑之中。

6.77.53

एतस्मिन्नेव काले तु भीमः प्रहरतां वरः ।
विश्रम्य च तदा राजन्पीत्वाऽमृतरसं जलम् ॥ ६.७७.५३ ॥

就在此时,大王啊,战士中最优秀的婆罗摩(怖军)休息之后,饮下甘露般的水,

6.77.54

पुनः सन्नह्य संक्रुद्धो योधयामास संयुगे ।
धृष्टद्यम्नेन सहितः कालयामास भारत ॥ ६.७७.५४ ॥

他再次披甲,怒气冲冲地在战斗中奋战。与德里斯塔尤姆那一同,婆罗多的后裔啊,他使敌人疲惫不堪。

6.77.55

एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः ।
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥ ६.७७.५५ ॥

与此同时,大王啊,持兵者中的最优者德罗纳走近德鲁帕达,用三支凶猛的箭射中了他。

6.77.56

सोऽतिविद्धस्ततो राजन्रणे द्रोणेन पार्थिवः ।
अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् । ॥ ६.७७.५६ ॥

在战斗中被德罗纳重创的那位国王德鲁帕达,大王啊,因想起旧日的仇怨而撤退了。

6.77.57

जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् ।
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥ ६.७७.५७ ॥

德罗纳击败德鲁帕达后,威武的他吹响了法螺。听到那法螺声,所有的索摩迦人都战栗起来。

6.77.58

अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः ।
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥ ६.७७.५८ ॥

于是,威光的德罗纳,持兵者中的最优者,听说你的儿子们在战斗中被迷惑之箭(Pramohana)所迷惑。

6.77.59

ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात् ।
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ॥ ६.७७.५९ ॥

于是,大王啊,德罗纳迅速从战场返回,在那里他看见了伟大的射手、婆罗堕阇之子、威武的(德罗纳)。

6.77.60

धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे ।
मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः ॥ ६.७७.६० ॥

那位大车战士看见在大战中奔走的德里什塔笃姆那与怖军,也看见你的儿子们陷入迷惑之中。

6.77.61

ततः प्रज्ञांस्त्रमदाय मोहनास्त्रं व्यनाशयत् ।
ततः प्रत्यागतप्राणास्तव पुत्रा महारथाः ॥ ६.७७.६१ ॥

于是他取出智慧之箭,摧毁了迷惑之箭。随后你的大车战士们恢复了生气。

6.77.62

पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः ।
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ॥ ६.७७.६२ ॥

他们渴望胜利,再次回身冲向战场。于是坚战召集自己的士兵,说道。

6.77.63

गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि ।
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः ॥ ६.७७.६३ ॥

让他们以全力追随怖军与波罗沙塔在战斗中的足迹吧——由善跋陀罗领头的十二位披甲英雄车战士。

6.77.64

प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः ।
प्रवृत्तिर्भिमसेनस्य पार्षतस्य च संयुगे ॥ ६.७७.६४ ॥

让他们去探明战斗中怖军与波罗沙塔的情况吧,因为我的心不得安宁。战斗中怖军与波罗沙塔的动向。

6.77.65

विज्ञेया समरे शीघ्रं प्रविशध्वं रथार्णवम् ।
गच्छन्तु परया शक्त्या भवन्त इति मे मतिः ॥ ६.७७.६५ ॥

战斗中须迅速查明他们的情况。你们进入战车的海洋,以至高的力量前往——这是我的决定。

6.77.66

त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः ।
बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः ।
मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि ॥ ६.७७.६६ ॥

众英雄勇士得到许可,说“很好”,以自己的勇武为傲,待正午太阳高升时,全部出发。

6.77.67

केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् ।
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥ ६.७७.६७ ॥

迦伊人王子、德罗波蒂之子以及勇猛的德里斯塔刻杜,以阿毗摩竺那居前,被庞大的军队环绕(前进)。

6.77.68

ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमम् ।
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥ ६.७७.६८ ॥

他们在战斗中布成“针尖阵”,以制服敌人,在战斗中刺穿了持国之子的那支战车军队。

6.77.69

तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् ।
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ॥ ६.७७.६९ ॥

你的军队看见以阿毗摩竺那为首前进的那些大弓箭手,被怖畏毗摩之力所侵,又为猛光所迷惑……

6.77.70

न संवारयितुं शक्ता तव सेना जनाधिप ।
मदमूर्च्छन्वितात्मा वै प्रमदेवाध्वनि स्थिता ॥ ६.७७.७० ॥

人主啊,你的军队无法阻挡他们;心神被醉意所迷,它像在路上的醉女一样呆立。

6.77.71

तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः ।
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्रवृकोदरौ ॥ ६.७७.७१ ॥

那些出身高贵、旗帜饰以金纹的大弓手,想要保护猛光与狼腹,便向他们冲去。

6.77.72

तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् ।
बभूवतुर्मुदायुक्तौ निघ्नन्तौ तव वाहिनीम् ॥ ६.७७.७२ ॥

他们看到以阿毗曼尤为先锋的那两位大弓箭手,心中充满欢喜,开始痛击你的军队。

6.77.73

द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम् ।
दृष्ट्वा तु सहसायान्तं पाञ्चाल्यो गुरुमात्मनः ।
नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥ ६.७७.७३ ॥

当他看到精通箭术与兵器、通晓一切学问的德罗纳突然逼近时,般遮罗的英雄般利沙塔虽是他自己的老师,却并未期望你的儿子们遭受杀戮。

6.77.74

ततो रथं समारोप्य कैकेयस्य वृकोदरम् ।
अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम् ॥ ६.७७.७४ ॥

于是,他极为愤怒,让凯吉耶王子与狼腹(怖军)同乘战车,冲向精通箭术与兵器的德罗纳。

6.77.75

तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् ।
क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः ॥ ६.७७.७५ ॥

当他迅猛冲来时,威猛的婆罗堕阇之子德罗纳大怒,以一支箭斩断了他的弓;他是摧毁敌人的人。

6.77.76

अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते ।
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ॥ ६.७७.७६ ॥

为了杜尔约陀那的利益,念及主人的饭食之恩,他又向般遮陀的后裔射出数百支箭。

6.77.77

अथान्यद्धनुरादाय पार्षतः परवीरहा ।
द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः ॥ ६.७७.७७ ॥

于是,摧毁敌方英雄的般遮陀之子取过另一张弓,以二十支金羽、在石上磨利的箭射中了德罗纳。

6.77.78

तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक ।
हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ॥ ६.७७.७८ ॥

折磨敌人的德罗纳再次砍断他的弓,并迅速用四支上好的箭射倒了他的四匹马。

6.77.79

वैवस्वतक्षयं घोरं प्रेषयामास भारत ।
सारथिं चास्य भल्लेन प्रेषयामास भारत । ॥ ६.७७.७९ ॥

婆罗多啊,他把他送往可怕的毗婆娑多(阎摩)之地;婆罗多啊,他又用一支婆罗箭把他的御者也送往那里。

6.77.80

हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः ।
आरुरोह महाबाहुरभिमन्योर्महारथम् ॥ ६.७७.८० ॥

于是这位大车士,马匹已被杀死,迅速从车上跳下,登上了大臂的阿毗摩豆的大车。

6.77.81

ततः सरथनागाश्वा समकम्पत वाहिनी ।
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥ ६.७७.८१ ॥

于是这支由车、象、马组成的军队颤抖起来,而毗摩森和波利沙塔都在看着。

6.77.82

तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा ।
नाशक्रुवन्वारयितुं समस्तास्ते महारथाः ॥ ६.७७.८२ ॥

看到军队被无量光辉的德罗纳击溃,所有那些大车士都无法阻挡。

6.77.83

वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः ।
व्यभ्रमत्तत्रतत्रैव क्षोभ्यमाण इवार्णवः ॥ ६.७७.८३ ॥

那支军队被德罗纳锐利的箭射杀,四处奔逃,如同被搅动的大海。

6.77.84

तथा दृष्ट्वा च तत्सैन्यं जहृषे तावकं बलम् ।
दृष्ट्वाचार्यं सुसंक्रुद्धं तपन्तं रिपुवाहिनीम् ।
तुष्टुवुः सर्वतो योधाः साधुसाध्विति भारत ॥ ६.७७.८४ ॥

看到那支军队正被屠戮,你的军队欢喜起来。看到老师极度愤怒、焚烧敌军,各方战士纷纷赞叹:“善哉,善哉!”,婆罗多之子啊。