摩诃婆罗多 · 章 6.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.8.1
वर्षाणां चैव नामानि पर्वतानां च संजय ।
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥ ६.८.१ ॥
桑闍耶,请如实告诉我诸varṣa的名字、诸山的名字,以及居住在山上的人。
6.8.2
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु ।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ ६.८.२ ॥
在白山之南、青山之北,有名为Ramaṇaka的varṣa;人们生于彼处。
6.8.3
शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः ।
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥ ६.८.३ ॥
生于彼处的人,皆出身清净,容貌极其可爱,且无敌手。
6.8.4
दशवर्षसहस्राणि शतानि दश पञ्च च ।
जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥ ६.८.४ ॥
大王,他们寿命为一万又一千五百年,心中常怀喜悦。
6.8.5
दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु ।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥ ६.८.५ ॥
在Śṛṅgin之南、Śveta之北,有名为Hiraṇmaya的varṣa,那里流淌着Hairaṇvatī河。
6.8.6
यत्र चायं महाराज पक्षिराट् पतगोत्तमः ।
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ॥ ६.८.६ ॥
大王,那里住着鸟王,最优秀的飞禽(迦楼罗);大王,那里还有夜叉的随从,富有而容貌可爱。
6.8.7
महाबलास्तत्र जना राजन्मुदितमानसाः ।
एकादशसहस्राणि वर्षाणां ते जनाधिप ॥ ६.८.७ ॥
那里的大力之人,大王啊,心怀喜悦,活到一万一千岁,人主啊。
6.8.8
आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च ।
श्रृङ्गाणि वै श्रृङ्गवतस्त्रीण्येव मनुजाधिप ॥ ६.८.८ ॥
他们的寿命为一千五百年。舍龙伽婆山的山峰确实有三座,人主啊。
6.8.9
एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ।
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।
तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ॥ ६.८.९ ॥
那里有一座由宝石构成,另一座是奇妙的黄金所成,还有一座由一切珍宝构成,以楼阁庄严。那里自光女神舍丹迪利常住。
6.8.10
उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप ।
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥ ६.८.१० ॥
在山峰之北,人主啊,海边有名为爱罗婆多的州,在舍龙伽婆山之外。
6.8.11
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः ।
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥ ६.८.११ ॥
那里太阳不炙热,人也不衰老;连同星宿的月亮,仿佛被光明所包围。
6.8.12
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ।
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ ६.८.१२ ॥
那里生出的人,光彩如莲花,颜色如莲花,眼睛如莲瓣,香气如莲瓣。
6.8.13
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः ।
देवलोकच्युताः सर्वे तथा विरजसो नृप ॥ ६.८.१३ ॥
君王啊,他们都从天界坠落,静止不动,散发香气,不食,已调伏诸根,远离了激情的尘垢。
6.8.14
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप ।
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ॥ ६.८.१४ ॥
人主啊,婆罗多中最优秀者,他们的寿命有一万三千年。
6.8.15
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ।
हरिर्वसति वैकुण्ठः शकटे कनकोञ्ज्वले ॥ ६.८.१५ ॥
同样,在乳海之北,主神哈里以毗湿奴的名号居于金光闪耀的车中。
6.8.16
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ।
अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ॥ ६.८.१६ ॥
那辆车有八个轮子,以诸大元素驾驭,快如意念,色如火焰,极其光辉,并以阎浮檀金装饰。
6.8.17
स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ ।
संक्षेपो विस्तरश्चैव कर्ता कारयिता तथा ॥ ६.८.१७ ॥
他是一切众生之主,遍在一切,婆罗多中的雄牛啊,他既是收缩也是扩展,既是作者也是使作者行动者。
6.8.18
पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव ।
स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ॥ ६.८.१८ ॥
君王啊,地、水、空、风、火便是他;他即是祭祀,而献祭之火是他的口,是一切众生的口。
6.8.19
एवमुक्तः संजयेन धृतराष्ट्रो महामनाः ।
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥ ६.८.१९ ॥
善思的国王持国听了全阁耶的话,便陷入对诸子的沉思之中,人主啊。
6.8.20
स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः ।
असंशयं सूतपुत्र कालः संक्षिपते जगत् ॥ ६.८.२० ॥
他沉思之后,又说出这些话:毫无疑问,御者之子啊,时间收缩着世界。
6.8.21
सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ।
नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ॥ ६.८.२१ ॥
他又创造一切;此间无一是常存的。那罗与那罗延是全知者,夺取一切众生者。
6.8.22
देवा वैकुण्ठ इत्याद्दुर्वेदा विष्णुरिति प्रभुम् ॥ ६.८.२२ ॥
诸天称他为吠昆陀,而学识浅薄者称那位主为毗湿奴。