Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.81.1

अथात्मजं तव पुनर्गाङ्गेयो ध्यानमास्थितम् ।
अब्रवीद्भरतश्रेष्ठः सम्प्रहर्षकरं वचः ॥ ६.८१.१ ॥

此时,婆罗多族中最优秀的恒河之子(毗湿摩)再次对沉思中的你的儿子说了令他十分欢喜的话。

6.81.2

अहं द्रोणश्च शल्यश्च कृतवर्मा च सात्वतः ।
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ सैन्धवः ॥ ६.८१.२ ॥

我、德罗纳、沙利耶、萨特瓦塔的迦尔塔瓦尔曼、马嘶、毗迦尔纳、索摩达多,然后是信度王(胜车)。

6.81.3

विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः ।
त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ॥ ६.८१.३ ॥

阿槃提的两位王子毗湯陀与阿努毗湯陀,巴赫利迦与巴赫利迦人,三伽陀王(强大者),以及极难战胜的摩揭陀王。

6.81.4

बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः ।
रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ॥ ६.८१.४ ॥

广力、憍萨罗王、持军与毗文沙提,以及上千辆饰有大旗、光彩熠熠的战车。

6.81.5

देशजाश्च हया राजन्स्वारूढा हयसादिभिः ।
गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥ ६.८१.५ ॥

大王啊!各地的良马,骑士们骑得稳稳当当;发情狂怒的象王,颊额与口鼻之间流淌着发情的液汁。

6.81.6

पदाताश्च तथा शूरा नानाप्रहरणायुधाः ।
नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥ ६.८१.६ ॥

还有步兵勇士,手持各式兵器,生于各地,为你的缘故准备好了作战。

6.81.7

एते चान्ये च बहवस्त्वदर्थे त्यक्तजीविताः ।
देवानपि रणे जेतुं समर्था इति मे मतिः ॥ ६.८१.७ ॥

这些人和其他许多人都为了您而舍弃了性命。依我看,他们在战场上连天神也能战胜。

6.81.8

अवश्यं तु मया राजंस्तव वाच्यं हितं सदा ।
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ ६.८१.८ ॥

大王啊,我必须常常对您说有益的话。即使是因陀罗率领的众神,也无法战胜般度之子。

6.81.9

सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव ।
पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ॥ ६.८१.९ ॥

王中之王啊,我将完全遵从您的话。在战场上,我要么战胜般度之子,要么被般度之子战胜。

6.81.10

एवमुक्त्वा ददौ चास्मै विशल्यकरणीं शुभाम् ।
ओषधीं वीर्यसम्पन्नां विशल्यश्चाभवत्तदा ॥ ६.८१.१० ॥

说完这话,他把名为毗舍利耶迦兰尼的吉祥而有效力的草药交给他,于是他便从箭头的痛苦中解脱了。

6.81.11

ततः प्रभाते विमले स्वेनानीकेन वीर्यवान् ।
अव्यूहत स्वयं व्यूहं भीष्मो व्यूहविशारदः ॥ ६.८१.११ ॥

于是在清晨,精通阵法的勇猛的毗湿摩亲自率领自己的军队布下了阵型。

6.81.12

मण्डलं मनुजश्रेष्ठ नानाशस्त्रसमाकुलम् ।
सम्पूर्णं योधमुख्यैश्च तथा दन्तिपदातिभिः ॥ ६.८१.१२ ॥

人中之最啊,那圆形阵列布满了各式兵器,满是主要的武士、象兵和步兵。

6.81.13

रथैरनेकसाहस्रैः समन्तात्परिवारितम् ।
अश्ववृन्दैर्महद्भिश्च ऋष्टितोमरधारिभिः ॥ ६.८१.१३ ॥

四面被数千辆战车所环绕,并有手持长矛和投枪的庞大马军所护卫。

6.81.14

नागे नागे रथाः सप्त सप्त चाश्वा रथे रथे ।
अन्वश्वं दश धानुष्का धानुष्के सप्त चर्मिणः ॥ ६.८१.१४ ॥

每头象配七辆战车,每辆战车配七匹马;每匹马后有十名弓手,每名弓手有七名持盾者相随。

6.81.15

एवंव्यूहं महाराज तव सैन्यं महारथैः ।
स्थितं रणाय महते भीष्मेण युधि पालितम् ॥ ६.८१.१५ ॥

大王啊,您的军队如此列阵,与大战车武士们一同严阵以待,准备投入大战,并在战斗中由毗湿摩守护。

6.81.16

दशाश्वानां सहस्राणि दन्तिनां च तथैव च ।
रथानामयुतं चापि पुत्राश्च तव दंशिताः ॥ ६.८१.१६ ॥

数以千计的万匹马,象群亦然;万辆战车;以及您的儿子们,皆披甲备战。

6.81.17

रक्ष्यमाणश्च तैः शूरैर्गोप्यमानाश्च तेन ते ।
संनद्धाः समदृश्यन्त राजानश्च महाबलाः ॥ ६.८१.१७ ॥

在那些勇士的护卫下,并由他守护,您的披甲国王和强大的战士们清晰可见。

6.81.18

दुर्योधनस्तु समरे दंशितो रथमास्थितः ।
व्यभ्राजत श्रिया जुष्टो यथा शक्रस्त्रिविष्टपे ॥ ६.८१.१८ ॥

而杜尔约陀那披甲立于战车之上,在战场上光辉闪耀,如天上的因陀罗一般。

6.81.19

ततः शब्दो महानासीत्पुत्राणां तव भारत ।
रथघोषश्च तुमुलो वादित्राणां च निस्वनः ॥ ६.८१.१९ ॥

此时,你的儿子们发出巨大的喧声,婆罗多的后裔啊,战车的轰鸣与乐器的猛烈鸣响交织在一起。

6.81.20

भीष्मेण धार्तराष्ट्राणां व्यूढः प्रत्यङ्मुखो युधि ।
मण्डलः सुमहाव्यूहो दुर्भेद्योऽमित्रघातिनाम् ॥ ६.८१.२० ॥

毗湿摩将持国之子的军队在战场上排列成面向西方的圆形巨大阵势,即便是歼灭敌人的勇士也难以攻破。

6.81.21

मण्डलं तु समालोक्य व्यूहं परमदारुणम् ।
स्वयं युधिष्ठिरो राजा व्यूहं वज्रमथाकरोत् ॥ ६.८१.२१ ॥

然而,见到那极为可怖的圆形阵势,国王坚战亲自布置了金刚(vajra)阵。

6.81.22

तथा व्यूढेष्वनीकेषु यथास्थानमवस्थिताः ।
रथिनः सादिनश्चैव सिंहनादमथानदन् ॥ ६.८१.२२ ॥

如此,军队排列就位,各自站在自己的位置上,车兵与骑兵便发出狮子般的吼声。

6.81.23

बिभित्सवस्ततो व्यूहं निर्ययुर्युद्धकाङ्क्षिणः ।
इतरेतरतः शूराः सहसैन्याः प्रहारिणः ॥ ६.८१.२३ ॥

于是那些渴望冲破阵势、盼望战斗的勇士,率领各自的军队冲出阵列,彼此相互攻击。

6.81.24

भारद्वाजो ययौ मत्स्यं द्रौणिश्चापि शिखण्डिनम् ।
स्वयं दुर्योधनो राजा पार्षतं समुपाद्रवत् ॥ ६.८१.२४ ॥

婆罗堕阇(德罗纳)冲向摩差国王,德罗纳之子(阿湿婆摩)也冲向湿ిखण्डी;国王难敌亲自扑向俱沙多之子(持双)。

6.81.25

नकुलः सहदेवश्च राजन्मद्रेशमीयतुः ।
विन्दानुविन्दावावन्त्याविरावन्तमभिद्रुतौ ॥ ६.८१.२५ ॥

大王啊,那库拉与萨哈迪瓦冲向摩德罗国之主;阿梵提的王子文达与阿努文达猛扑向阿梵多。

6.81.26

सर्वे नृपास्तु समरे धनञ्जयमयोधयन् ।
भीमसेनो रणे यत्तो हार्दिक्यं समवारयत् ॥ ६.८१.२६ ॥

诸王皆在战场上与阿周那交战;在战斗中警觉的毗湿摩那阻挡了哈尔迪基亚。

6.81.27

चित्रसेनं विकर्णं च तथा दुर्मर्षणं विभो ।
आर्जुनिः समरे राजंस्तव पुत्रानयोधयत् ॥ ६.८१.२७ ॥

啊,强者!还有citrasena、vikarṇa与durmarṣaṇa;大王啊,阿周那之子在战场上与你的儿子们交战。

6.81.28

प्राग्ज्योतिषं महेष्वासं हैडिम्बो राक्षसोत्तमः ।
अभिदुद्राव वेगेन मत्तो मत्तमिव द्विपम् ॥ ६.८१.२८ ॥

希迪巴之子,罗刹中的最优者,疾速扑向普拉格约提沙的伟大弓手,犹如狂象冲向另一头狂象。

6.81.29

अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् ।
ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ॥ ६.८१.२९ ॥

随后,大王啊,愤怒的罗刹阿兰布沙率军在战场上猛扑向因好战之狂而醉的萨提奇。

6.81.30

भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ।
श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ॥ ६.८१.३० ॥

在战场上警觉的布利什拉瓦斯与德里什塔科图交战;而正法之子坚战则与国王室鲁塔尤斯交战。

6.81.31

चेकितानस्तु समरे कृपमेवान्वयोधयत् ।
शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ॥ ६.८१.३१ ॥

而车基当在战中独与克利帕交战,其余待命的武士则向大战车手毗摩进发。

6.81.32

ततो राजसहस्राणि परिवव्रुर्धनञ्जयम् ।
शक्तितोमरनाराचगदापरिघपाणयः ॥ ६.८१.३२ ॥

于是千千万万的国王包围了阿尔延,手中持着标枪、长矛、箭、铁棒与铁杵。

6.81.33

अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् ।
पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ॥ ६.८१.३३ ॥

阿周那大怒,对筏尔施涅耶说:“摩陀婆啊,看看在战场上难敌的军队吧。”

6.81.34

युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् ।
त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥ ६.८१.३४ ॥

摩陀婆啊,看那些渴望战斗、披甲的勇士;羯舍婆啊,看与兄弟们在一起的特利伽陀王。

6.81.35

अद्यैतान्पातयिष्यामि पश्यतस्ते जनार्दन ।
य इमे मां यदुश्रेष्ठ योद्धुकामा रणाजिरे ॥ ६.८१.३५ ॥

今天我将在你的注视下击倒他们,遮那陀那啊,这些想在战场上与我交战的人,你这位耶度最优秀的人啊。

6.81.36

एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च ।
ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥ ६.८१.३६ ॥

说完这话,贡蒂之子擦拭弓弦,向诸王的军队降下箭雨。

6.81.37

तेऽपि तं परमेष्वासाः शरवर्षैरपूरयन् ।
तडागमिव धाराभिर्यथा प्रावृषि तोयदा ॥ ६.८१.३७ ॥

那些至高的弓手也以箭雨淹没了他,如雨季里的云以细流灌满池塘。

6.81.38

हाहाकारो महानासीत्तव सैन्ये विशां पते ।
छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ॥ ६.८१.३८ ॥

人主啊,在大战中见两位黑天被箭矢重重覆盖,你的军中响起一片巨大的哀叹之声。

6.81.39

देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः ।
विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ॥ ६.८१.३९ ॥

诸天、天仙、乾闼婆与大蛇见到两位黑天如此处境,皆生出极大的惊异。

6.81.40

ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् ।
तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥ ६.८१.४० ॥

于是,大王,愤怒的阿周那发出了因陀罗的神箭;我们在那里见到了胜利者的神奇威勇。

6.81.41

शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् ।
न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ॥ ६.८१.४१ ॥

敌人射出的兵器之雨,他以箭流挡住;人主啊,那里即便如此,也无一人未被射中。

6.81.42

तेषां राजसहस्राणां हयानां दन्तिनां तथा ।
द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥ ६.८१.४२ ॥

那数千国王的马匹与象群,以及其他人,尊者啊,般遮罗之子用两三支箭射穿了它们。

6.81.43

ते हन्यमानाः पार्थेन भीष्मं शान्तनवं ययुः ।
अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ॥ ६.८१.४३ ॥

他们被阿周那击伤,便投奔珊塔努之子毗湿摩。对于沉溺于无底深渊者,毗湿摩当时成为了他们的庇护者。

6.81.44

आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् ।
सञ्चुक्षुभे महाराज वातैरिव महार्णवः ॥ ६.८१.४४ ॥

在那里,冲上前来的敌人使你的军队溃散。大王啊,它如同大海被狂风卷动一般骚动起来。