摩诃婆罗多 · 章 6.82
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.82.1
प्रवृत्तमात्रे संग्रामे निवृत्ते च सुशर्मणि ।
भग्नेषु चापि वीरेषु पाण्डवेन महात्मना ॥ ६.८२.१ ॥
战斗刚刚开始,苏沙尔曼退却,英雄们溃散之际,大人般的般度之子
6.82.2
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव ।
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥ ६.८२.२ ॥
你的军队如大海般骚动,恒河之子迅速向胜利挺进,
6.82.3
दृष्ट्वा दुर्योधनो राजा रणे पार्थस्य विक्रमम् ।
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥ ६.८२.३ ॥
国王难敌见阿周那在战场上的威勇,急忙走到那些国王面前,对他们说道。
6.82.4
ेषां तु प्रमुखे शूरं सुशर्माणं महाबलम् ।
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्निव ॥ ६.८२.४ ॥
……在他们的前列,勇猛强大的苏沙尔曼,在全军中央,似乎极力以喜悦振奋着他们。
6.82.5
एष भीष्मः शान्तनवो योद्धुकामो धनञ्जयम् ।
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥ ६.८२.५ ॥
看那是尚坦努之子毗湿摩,俱卢族中的最优者,他舍弃了自己的生命,全心想与持财者(阿周那)交战。
6.82.6
तं प्रयान्तं रणे वीरं सर्वसैन्येन भारतम् ।
संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥ ६.८२.६ ॥
你们全军严阵以待,守护祖父,那位婆罗多族的英雄正在战场上前进。
6.82.7
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः ।
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥ ६.८२.७ ॥
众王的那些军队说道“好的”,大王啊,从四面八方聚集到祖父身边。
6.82.8
ततः प्रयातः सहसा भीष्मः शान्तनवोऽर्जुनम् ।
रणे भारतमायान्तमाससाद महाबलः ॥ ६.८२.८ ॥
于是大力的山塔努之子毗湿摩突然前进,迎战走向战场的婆罗多人阿周那。
6.82.9
महाश्वेताश्वयुक्तेन भीमवानरकेतुना ।
महता मेघनादेन रथेनातिविराजता ॥ ६.८२.९ ॥
乘坐那辆大战车,套着巨大的白马,旗帜上有可怕的猴子,如云般轰鸣,光辉灿烂。
6.82.10
समरे सर्वसैन्यानामुपयानं धनञ्जयम् ।
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥ ६.८२.१० ॥
在战场上,当持车王阿周那在诸军之间来临时,众人见到戴冠的阿周那,因恐惧而发出一片喧嚣之声。
6.82.11
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् ।
मध्यंदिनगतं सङ्ख्ये न शेकुः प्रतिवीक्षितुम् ॥ ६.८२.११ ॥
看见手持缰绳的克里希纳,如正午的另一个太阳,在战场上他们无法直视。
6.82.12
तथा शान्तनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् ।
न शेकुः पाण्डवा द्रष्टुं श्वेतं ग्रहमिवोदितम् ॥ ६.८२.१२ ॥
同样,般度子孙也无法直视山塔努之子毗湿摩,他拥有白马与白弓,犹如升起的白色行星。
6.82.13
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः ।
भ्रातृभिः सह पुत्रैश्च तथाऽन्यैश्च महारथैः ॥ ६.८२.१३ ॥
他四面被三伽多人、诸位大心的兄弟、儿子以及其他大战车武士所包围。
6.82.14
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा ।
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥ ६.८२.१४ ॥
然而婆罗堕遮之子(德罗纳)在战斗中以箭射中了摩差王,并以一箭斩断了他的旗帜和弓。
6.82.15
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः ।
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ॥ ६.८२.१५ ॥
维罗吒将那张断弓抛开,迅速取过另一张坚固、能承受拉力的弓,他是军队的统帅。
6.82.16
शरांश्चाशीविषाकाराज्ज्वलितान्पन्नगानिव ।
द्रोणं त्रिभिश्च विव्याध चतुर्भिश्चास्य वाजिनः ॥ ६.८२.१६ ॥
他用如毒蛇般燃烧的箭,以三箭射中德罗纳,以四箭射中他的马。
6.82.17
ध्वजमेकेन विव्याधक सारथिं चास्य पञ्चभिः ।
धनुरेकेषुणाऽविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥ ६.८२.१७ ॥
他一箭射中旗帜,五箭射中御者,一箭射中弓;那位婆罗门中的雄牛于是愤怒了。
6.82.18
तस्य द्रोणोऽवधीदश्वाञ्शरैः सन्नतपर्वभिः ।
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥ ६.८२.१८ ॥
德罗纳,婆罗多中最优秀的人啊,以八支羽翎精良的箭射倒了他的马,又以一箭射倒了御者。
6.82.19
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः ।
आरुरोह रथं तूर्णं पुत्रस्य रथिनां वरः ॥ ६.८२.१९ ॥
他的马被杀,便从车上跳下;御者也已战死。他迅速登上了儿子的战车,那儿子是车战者中最杰出的。
6.82.20
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ ।
महता शरवर्षेण वारयामाससतुर्बलात् ॥ ६.८२.२० ॥
于是父子二人立于战车之上,以密集的箭雨强行阻挡薄伽婆(德罗纳)。
6.82.21
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् ।
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वरः ॥ ६.८२.२१ ॥
于是德罗纳(薄伽婆)愤怒,迅速在战斗中向商佉射出一支如毒蛇般的箭,啊,人主。
6.82.22
स तस्य हृदयं भित्त्वा पीत्त्वा शोणितमाहवे ।
जगाम धरणीं बाणो लोहितार्द्रवरच्छदः ॥ ६.८२.२२ ॥
那支箭穿透他的心脏,在战斗中饮尽鲜血,以被血浸湿的精美羽翎落到了地上。
6.82.23
स पपात रणे तूर्णं भारद्वाजशराहतः ।
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥ ६.८२.२३ ॥
他被婆罗堕遮之箭射中,立刻倒于战场,丢下弓与箭,就在父亲身边。
6.82.24
हतं तमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् ।
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥ ६.८२.२४ ॥
毗罗吒见儿子被杀,惊恐逃走,丢下了战场上的德罗纳——他如张口的死神一般。
6.82.25
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् ।
दारयामास समरे शतशोऽथ सहस्रशः ॥ ६.८२.२५ ॥
于是婆罗堕阇之子(德罗纳)迅速在战斗中将般度之子的大军冲散,成百上千地击溃。
6.82.26
शिखण्डी तु महाराज द्रौणिमासाद्य संयुगे ।
आजघान भ्रवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥ ६.८२.२६ ॥
然而,大王,湿婆坎丁在战斗中接近德罗纳之子,以三支迅捷的铁箭射中他的双眉之间。
6.82.27
स बभौ रथशार्दूलो ललाटे संस्थितैस्त्रिभिः ।
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥ ६.८२.२७ ॥
这位车师中的猛虎,额上立着三支金色的尖端,光彩照人,如同高耸三峰的须弥山。
6.82.28
अश्वत्थाम ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः ।
ध्वजं सूतमथो राजंस्तुरगानायुधानि च ॥ ६.८२.२८ ॥
于是,愤怒的阿湿婆陀摩在半瞬之间,摧毁了湿婆坎丁的旗帜、御者,大王啊,还有他的马匹与兵器。
6.82.29
शरैर्बहुभिराच्छिद्य पातयामास संयुगे ष ।
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ॥ ६.८२.२९ ॥
他以众多箭矢将其斩断,使其在战斗中倒下。于是那车中最勇的战士从马匹已死的战车上跳下。
6.82.30
खङ्गमादाय सुशितं विमलं च शरावरम् ।
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥ ६.८२.३० ॥
执起锋利洁净的剑与盾牌,愤怒的湿婆坎丁——敌人的折磨者——如鹰一般盘旋游走。
6.82.31
सखङ्गस्य महाराज चरतस्तस्य संयुगे ।
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥ ६.८२.३१ ॥
大王啊,他手持利剑在战斗中来回移动,德罗纳之子在他身上看不到任何破绽;这看来令人惊异。
6.82.32
ततः शरसहस्राणि बहूनि भरतर्षभ ।
प्रेषयामास समरे द्रौणिः परमकोपनः ॥ ६.८२.३२ ॥
于是,婆罗多族的雄牛啊,德罗纳之子极度愤怒,在战斗中射出了成千上万支箭。
6.82.33
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् ।
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥ ६.८२.३३ ॥
战斗中倾泻而下的那场极可怕的箭雨,力士中的最强者用锋利的剑将其斩断。
6.82.34
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् ।
चर्माच्छिनदसिं चास्थ खण्डयामास संयुगे ॥ ६.८२.३४ ॥
于是德罗纳之子斩断了他那洁净、如百月般美丽的盾牌,并在战斗中将他的剑砍成碎片。
6.82.35
शितैस्तु बहुशो राजंस्तं च विव्याध पत्रिभिः ।
शिखण्डी तु ततः खङ्गं खण्डितं तेन सायकैः ॥ ६.८२.३५ ॥
大王啊,德罗纳之子用锐利的箭多次射中了他(尸骨那提),而尸婆那提的剑被他的箭打得粉碎。
6.82.36
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ।
तमापतन्तं सहसा कालानलसमप्रभम् ॥ ६.८२.३६ ॥
尸婆那提将其挥舞后迅速掷出,如同燃烧的毒蛇;它突然向他扑来,光芒如末劫之火。
6.82.37
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।
शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥ ६.८२.३७ ॥
在战斗中,德罗纳之子展示手上的敏捷,斩断了它,并用许多铁箭射穿了湿婆坎迪。
6.82.38
शिखण्डी तु भृशं राजंस्तड्यमानः शितैः शरैः ।
आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥ ६.८२.३८ ॥
国王啊,湿婆坎迪被锐利的箭矢大力击中,迅速登上了伟大灵魂摩陀婆(克里希那)的战车。
6.82.39
सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे ।
अलम्बुसं शरैस्तीक्ष्णैर्विव्याध बलिनां वरः ॥ ६.८२.३९ ॥
萨提亚基也极为愤怒,在战斗中用锐利的箭射穿了残暴的罗刹阿兰布沙,他是强者中的第一。
6.82.40
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत ।
अर्धचन्द्रेण समरे तं च विव्याध सायकैः ॥ ६.८२.४० ॥
那时,罗刹之王啊,婆罗多!他在战斗中用半月箭斩断了他的弓,也用箭射穿了他。
6.82.41
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ।
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ॥ ६.८२.४१ ॥
他施展罗刹的幻术,用箭雨将他遮蔽;在那里我们看到了湿尼之子(萨提亚基)惊人的勇武。
6.82.42
असंभ्रमस्तु समरे वध्यमानः शितैः शरैः ।
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ॥ ६.८२.४२ ॥
然而,这位毗户尼后裔虽被锐利的箭所击中,仍镇定自若,婆罗多啊,他施放了因陀罗的神箭。
6.82.43
विजयाद्यदनुप्राप्तं माधवेन यशस्विना ।
तदस्त्रं भस्मासात्कृत्वा मायां तां राक्षसीं तदा ॥ ६.८२.४३ ॥
那件由胜利所得的武器,被光荣的摩陀婆所用,当时将那罗刹幻术化为灰烬。
6.82.44
अलम्बुसं शरैरन्यैरभ्याकिरत सर्वतः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ६.८२.४४ ॥
他用其他箭从四面八方覆盖阿兰布沙,如雨季的云以水流覆盖山峰。
6.82.45
तत्तथा पीडितं तेन माधवेन यशस्विना ।
प्रदुद्राव भयाद्रक्षस्त्यक्त्वा सात्यकिमाहवे ॥ ६.८२.४५ ॥
那罗刹被光荣的摩陀婆如此逼迫,恐惧之下在战场上抛下萨提奇而逃走。
6.82.46
… माघवता जित्वा भारत सात्यकिः ।
शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ॥ ६.८२.४६ ॥
……被摩陀婆所胜,婆罗多之子啊,希尼之后萨提奇得以保全性命,而你的战士们在旁观看。
6.82.47
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः ।
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥ ६.८२.४७ ॥
真正勇猛的萨提奇也以许多锐利的箭射倒了你的士兵,他们被恐惧折磨,纷纷逃走。
6.82.48
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली ।
धृष्टद्युम्नो महाराज पुत्रं तव जनेश्वरम् ॥ ६.८२.४८ ॥
就在那时,大王啊,德鲁帕达强大的儿子德里斯塔笃姆那向你的儿子、人主冲去。
6.82.49
छादयामास समरे शरैः सन्नतपर्वभिः ।
स च्छाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ॥ ६.८२.४९ ॥
他在战场上用节部弯曲的箭矢覆盖了他。婆罗多之子啊,当他被猫头鹰般的……被德里什塔君的箭所覆盖时——
6.82.50
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वर ।
धृष्टद्युम्नं च समरे तूर्णं विव्याध पत्रिभिःक ॥ ६.८२.५० ॥
王中之王啊,人主啊,您的儿子并未感到痛苦。他在战场上迅速用箭射穿了德里什塔君。
6.82.51
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ।
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ॥ ६.८२.५१ ॥
六十支与三十支箭,那情景几乎令人惊异。主公啊,他的统帅愤怒地斩断了他的弓。
6.82.52
हयांश्च चतुरः शीघ्रं निजघान महाबलः ।
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥ ६.८२.५२ ॥
这位大力者迅速杀死了四匹马,并以极锐利的箭立即用七支箭射穿了他。
6.82.53
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली ।
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ॥ ६.८२.५३ ॥
马匹被杀,这位大臂的勇士从战车上跃下,徒步举剑,冲向普利沙塔之子。
6.82.54
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः ।
राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥ ६.८२.५४ ॥
勇猛的沙古尼,为国王所牵挂,走近他,让这位世界之王登上了自己的战车。
6.82.55
ततो नृपं पराजित्य पार्षतः परवीरहा ।
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरान् ॥ ६.८२.५५ ॥
随后,击败国王的般遮罗王子(Pārṣata)——杀敌英雄者——击杀你的军队,如执金刚杵的因陀罗击杀阿修罗一般。
6.82.56
कृतवर्मा रणे भीमं शरैरार्च्छन्महारथः ।
प्रच्छादयामास च तं महामेघो रविं यथा ॥ ६.८२.५६ ॥
大车将克里塔瓦尔曼在战场上以箭射击怖军,遮蔽了他,如大云遮蔽太阳。
6.82.57
ततः प्रहस्य समरे भीमसेनः परंतपः ।
प्रेषयामास संक्रुद्धः सायंकान्कृतवर्मणे ॥ ६.८२.५७ ॥
于是在战场上,灼敌者怖军大笑,怒不可遏,向克里塔瓦尔曼射出锐利的箭。
6.82.58
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः ।
नाकम्पत महाराज भीमं चार्च्छच्छितैः शरैः ॥ ६.८२.५८ ॥
虽被那些箭折磨,精通武艺的大车悉伐多(Sātvata)克里塔瓦尔曼并未动摇,大王;他以锐利的箭攻击怖军。
6.82.59
तस्याश्वांश्चतुरो हत्वा भीमसेनो महारथः ।
सारथिं पातयामास सध्वजं सुपरिष्कृतम् ॥ ६.८२.५९ ॥
怖军杀死他的四匹马,大车武士将他装饰精美的御者连同旗帜一起击倒。
6.82.60
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा ।
शकलीकृतसर्वाङ्गः श्वावित्तु शललैर्यथा ॥ ६.८२.६० ॥
灭敌英雄者怖军以各种箭矢覆盖他,使他全身被割成碎片,如豪猪被刺遍。
6.82.61
हताश्वश्च ततस्तूर्णं सुबलस्य रथं ययौ ।
स्वालस्य ते महाराज तव पुत्रस्य पश्यतः ॥ ६.८२.६१ ॥
大王啊,他的马已被杀死,便迅速前往苏跋罗之子的战车,而你的儿子在旁观看。
6.82.62
भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत् ।
निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ॥ ६.८२.६२ ॥
毗摩先那亦大怒,冲向你的军队;他愤怒地如同手持权杖的死神,将其杀戮。