摩诃婆罗多 · 章 6.83
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.83.1
बहूनि हि विचित्राणि द्वैरथानि स्म सञ्जय ।
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥ ६.८३.१ ॥
桑贾耶啊,我从你的叙述中听到了般度之子与我方之间许多奇异的单人决斗。
6.83.2
न चैव मामकं किंचिद्धृष्टं शंससि सञ्जय ।
नित्यं पाण्डुसुतान्हृष्टानभग्नान्संप्रशंससि ॥ ६.८३.२ ॥
桑贾耶啊,你从不讲述我方的任何勇敢事迹,却总是称赞般度之子欢欣而不败。
6.83.3
जीयमानान्विमनसो मामकान्विगतौजसः ।
वदसे संयुगे सूत दिष्टमेतन्न संशयः ॥ ६.८३.३ ॥
御者啊,你说我方之人在战斗中被击败、心情沮丧、失去威势;这是命运,毫无疑问。
6.83.4
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः ।
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥ ६.८३.४ ॥
人中之牛啊,你的人马依其力量与热忱在战场上奋力作战,以其威力展现至高的勇武。
6.83.5
गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम् ।
महोदधिसमभ्याशे लवणत्वं निगच्छति ॥ ६.८३.५ ॥
正如天河恒河的甘甜之水,流近大海时便变成咸水。
6.83.6
तथा तत्पौरुषं राजंस्तावकानां परंतप ।
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥ ६.८३.६ ॥
王啊,敌人的烧灼者啊,同样,你的人马之勇武,一旦遭遇般度的英雄之子,在战斗中便归于徒劳。
6.83.7
घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम् ।
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि ॥ ६.८३.७ ॥
库族之最,你不应因过失而责备那些依其力量努力、完成艰难事业的俱卢人。
6.83.8
तवापराधात्सुमहान्सपुत्रस्य विशांपते ।
पृतिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः ॥ ६.८३.८ ॥
人民之主啊,因你的过失,连同你的儿子们,大地遭受了巨大而可怕的毁灭,使阎摩的国度日益壮大。
6.83.9
आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप ।
न हि रक्षन्ति राजानः सर्वथाऽत्रापि जीवितम् ॥ ६.८३.९ ॥
国王啊,因自己的过失而生之事,你不应悲伤;因为在此,国王们绝不保全自己的性命。
6.83.10
युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः ।
चमूं विगाह्य युद्ध्यन्ते नित्यं स्वर्गपरायणाः ॥ ६.८३.१० ॥
渴望在战斗中获得善人之界,以天界为归宿的地上之王,常常投入军队中作战。
6.83.11
पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः ।
तं त्वमेकमना भूत्वा शृणु देवासुरोपमम् ॥ ६.८३.११ ॥
大王啊,上午人群的屠戮开始了。请你专心倾听,那场战斗如同天神与阿修罗之战。
6.83.12
आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ ।
युधामन्युमभिप्रेक्ष्य समेयता रणोत्कटौ ॥ ६.८३.१२ ॥
阿凡提的两位王子,都是大弓手,拥有庞大军队与强大力量,在战场上凶猛无比。他们见到优陀摩尼,便奋勇迎上前去。
6.83.13
तेषां प्रववृते युद्धं समुहद्रोणहर्षणम् ।
युधामन्युः सुसंक्रुद्धो भ्रातरौ देवरूपिणौ ॥ ६.८३.१३ ॥
他们之间爆发了一场足以搅动大海与众多战士的激战。极度愤怒的 Yudhāmanyu 攻击了那两位容貌如神的兄弟。
6.83.14
विव्याध निशितैस्तूर्णं शरैः सन्नतपर्वभिः ।
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥ ६.८३.१४ ॥
他迅速以带有弯曲节的锐利箭矢射穿了他们,那两位奇妙的战士也在战斗中反击了他。
6.83.15
युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत ।
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥ ६.८३.१५ ॥
国王啊,此时交战的众人之间看不出任何差别。他们都力图消灭敌人,并寻求反击与报复。
6.83.16
युधामन्युस्ततो राजन्ननुविन्दस्य सायकैः ।
चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥ ६.८३.१६ ॥
然后,国王啊,Yudhāmanyu 以四支箭将 Anuvinda 的四匹马送往阎摩的居所。
6.83.17
भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥ ६.८३.१७ ॥
马利沙啊,国王啊,他以两支极为锐利的婆罗箭在战斗中斩断了对方的弓和旗帜,那情景显得奇妙无比。
6.83.18
त्यक्त्वाऽनुविन्दोऽथ रथं विन्दस्य रथमास्थितः ।
धनुर्गृहीत्वा परमं भारसाधनमुत्तमम् ॥ ६.८३.१८ ॥
于是 Anuvinda 舍弃自己的战车,登上 Vinda 的战车,手持至上的良弓——承担战争重担的殊胜工具。
6.83.19
तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ ।
शरान्मुमुचतुस्तूर्णं युधामन्यौ महात्मनि ॥ ६.८३.१९ ॥
这两位英雄,阿槃提兄弟,车战之中的最强者,并肩立于战场,迅速向大度的优陀摩尼射出箭矢。
6.83.20
ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम् ॥ ६.८३.२० ॥
他们射出的、速度极快、饰以黄金的箭矢,抵达太阳之路,遮蔽了天空。
6.83.21
युधामन्यू रणे क्रुद्धो भ्रातरौ तौ महारथौ ।
ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥ ६.८३.२१ ॥
优陀摩尼在战斗中愤怒,向那两位大车战勇士兄弟倾泻箭雨,又射倒了他们的御者。
6.83.22
तस्मिंस्तु पतिते भूमौ गतसत्वे तु सारथौ ।
रथः प्रदुद्राव दिशः समुद्धान्तहयस्ततः ॥ ६.८३.२२ ॥
御者倒地气绝之后,受惊的马匹四散奔逃,拖着战车向各个方向狂奔。
6.83.23
तौ स जित्वा महाराज यज्ञसेनसुतः प्रभुः ।
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥ ६.८३.२३ ॥
大王啊,那位英勇的祭祀王之子击败了那二人,展现了自己的勇武,迅速冲散了您的军队。
6.83.24
सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।
वेगान्बहुविधांश्चक्रे विषं पीत्वेन मानवः ॥ ६.८३.२४ ॥
那支在战场上被击杀的持国诸子大军,像饮下毒药的人一样,以种种方式痛苦翻滚。
6.83.25
हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत् ।
रथेनादित्यवर्णेन सध्वजेन महाबलः ॥ ६.८३.२५ ॥
罗刹之主海迪姆巴便冲向婆伽达多,乘坐一辆太阳色、带旗的战车,这位大力者。
6.83.26
ततः प्राग्ज्योतिषो राजा नागराजं समास्थितःक ।
यथा वज्रधरः पूर्वं संग्रामे तारकामये ॥ ६.८३.२६ ॥
于是普拉格约提沙王骑上象王,犹如往昔在与塔拉卡的战争中手持金刚杵者(因陀罗)。
6.83.27
तत्र देवाः सगन्धर्वा ऋषयश्च समागताः ।
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः ॥ ६.८३.२७ ॥
诸天神与乾闼婆及仙人都聚集于此,他们竟分辨不出海迪姆巴与婆伽达多之间的区别。
6.83.28
यथा सुरपतिः शक्रस्त्रासयामास दानवान् ।
तथैव समरे राजा द्रावयामास पाण्डवान् ॥ ६.८३.२८ ॥
正如诸神之主因陀罗惊吓达那婆,那位国王也在战场上使般度之子们溃散逃跑。
6.83.29
तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम् ।
त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत ॥ ६.८३.२९ ॥
般度之子被他驱散,四面八方逃散;婆罗多啊,他们在自己的军队中竟找不到一个保护者。
6.83.30
भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥ ६.८३.३० ॥
婆罗多啊,我们在那里看见毗摩森之子站在战车上;其余的大车士则沮丧地逃走了。
6.83.31
निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।
आसीन्निष्ठानको घोरस्तव सैन्यस्य संयुगे ॥ ६.८३.३१ ॥
婆罗多之子啊,当般度之子的军队再次撤退时,你的军中在战场上响起了可怕的尼施塔那伽(战鼓)之声。
6.83.32
घटोत्कचस्ततो राजन्भगदत्तं महारणे ।
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥ ६.८३.३२ ॥
大王啊,于是瓶首(迦托特迦查)在那场大战中以箭矢覆盖了婆伽达多,犹如乌云遮盖须弥山。
6.83.33
निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्र्युतान् ।
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥ ६.८३.३३ ॥
国王斩落了罗刹弓中射出的那些箭,随即在战场上迅速击中了毗摩森之子,击中其所有要害之处。
6.83.34
स ताड्यमानो बहुभिः शरैः सन्नतपर्वभिः ।
न विव्यथे राक्षसन्द्रो भिद्यमान इवाचलः ॥ ६.८३.३४ ॥
虽被许多弯曲箭杆的箭射中,罗刹之王却不为所动,宛如被劈裂的山岳,岿然不动。
6.83.35
तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश ।
प्रेषयामास समरे तांश्चिच्छेद स राक्षसः ॥ ६.८३.३५ ॥
普拉格约提沙之王勃然大怒,在战斗中向他射出十四支投枪,罗刹将它们一一斩断。
6.83.36
स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः ।
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥ ६.८३.३६ ॥
那位大臂者以锐利的箭斩断那些投枪,并以七十支插着鹤羽的箭射穿了婆伽达多。
6.83.37
ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत ।
तस्याश्वांश्चतुरः सङ्ख्ये पातयामास सायकैः ॥ ६.८३.३७ ॥
于是普拉格迦欧提沙王仿佛在笑,婆罗多啊,在战斗中用他的箭射倒了他的四匹马。
6.83.38
स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् ।
शक्तिं चिक्षेप वेगेन प्रग्ज्योतिषगजं प्रति ॥ ६.८३.३८ ॥
那位威猛的罗刹王,站在马匹已死的战车上,猛力向普拉格迦欧提沙的象投出长矛。
6.83.39
तामापतन्तीं सहसा हेमदण्डां सुवेगिनीम् ।
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीं ॥ ६.८३.३९ ॥
国王将那支突然飞来的金柄、极其迅疾的长矛斩为三段,它散落在大地上。
6.83.40
शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥ ६.८३.४० ॥
看到长矛被毁,海迪巴因恐惧而逃跑,正如往昔阿修罗中最优者那牟质在因陀罗的战斗中逃走一样。
6.83.41
तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।
अजय्यं समरे वीरं यमेन वरुणेन च ॥ ६.८३.४१ ॥
在战斗中战胜了那位英勇、威名赫赫、在战争中不可战胜、连阎摩与伐楼那也无法制服的英雄。
6.83.42
पाण्डवीं समरे सेनां संममर्द स कुञ्जरः ।
यथा वनगजो राजन्मृद्गश्चरति पद्मिनीम् ॥ ६.८३.४२ ॥
正如野象踩踏莲花池而游荡,大王啊,那头象在战斗中踏碎了般度军。
6.83.43
मद्रेश्वरस्तु समरे यमाभ्यां समसञ्जत ।
स्वस्त्रीयौ छादयांचक्रे शरौघैः पाण्डुनन्दनौ ॥ ६.८३.४३ ॥
摩德羅之主在戰場上與閻摩的兩個兒子交戰,以箭雨遮蔽了他姊妹的兩個兒子,即潘杜之子。
6.83.44
सहदेवस्तु समरे मातुलं दृश्य संगतम् ।
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥ ६.८३.४४ ॥
偕天見到在戰場上前來的母舅,便以箭群阻住他,正如烏雲遮蔽太陽。
6.83.45
छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥ ६.८३.४५ ॥
他雖被箭雨遮蔽,神情卻更加歡喜;二人之間因母親的緣故,生出無比的親情。
6.83.46
ततः प्रहस्य समरे नकुलस्य महारथः ।
ध्वजं चिच्छेद बाणेन धनुश्चैकेन मारिष ॥ ६.८३.४६ ॥
於是,那大車將在戰場上含笑以一箭斬斷了無種的旗幟;哦,先生,又以同一箭斬斷了他的弓。
6.83.47
अथैनं छिन्नधन्वानं छादयामास भारत ।
निजघान रणे तं तु सूतं चास्य न्यपातयत् ॥ ६.८३.४७ ॥
然後,他以箭雨覆蓋了弓已被斬斷的人,哦婆羅多,在戰場上殺傷了他,又將他的御者也擊倒在地。
6.83.48
ततः प्रसह्य समरे नकुलस्य महारथः ।
अश्वांश्च चतुरो राजंश्चतुर्भिः सायकोत्तमैः ॥ ६.८३.४८ ॥
於是,王啊,那大車將在戰場上猛力以四支上好的箭射中無種的四匹馬。
6.83.49
प्रेषयामास समरे यमस्य सदनं प्रति ।
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ॥ ६.८३.४९ ॥
他在战场上将其送往阎摩之居。随后马已被杀的大车手迅速从车上跳下。
6.83.50
आरुरोह ततो यानं भ्रातुरेव यशस्विनः ।
एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ॥ ६.८३.५० ॥
随后他登上了那位名声显赫的兄长之车。在战场上,两位英雄同立一车,拉开坚固的弓。
6.83.51
मद्रराजरथं तूर्णं च्छादयामासतुः क्षणात् ।
स च्छाद्यमानो बहुभिः शरैः सन्नतपर्वभिः ॥ ६.८३.५१ ॥
二人在刹那间迅速遮蔽了摩德罗王的战车。被众多带弯曲节的箭矢覆盖的他,
6.83.52
स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः ।
प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह ॥ ६.८३.५२ ॥
即便被姐妹之子攻击,那位人中之虎也如山岳般不动摇;他仿佛在笑,也击落了那暴雨般的兵器。
6.83.53
सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान् ।
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥ ६.८३.५३ ॥
于是愤怒而勇猛的萨哈德瓦拿起一支箭,望着摩德罗王,将其射出,婆罗多后裔啊。
6.83.54
स शरः प्रेषितस्तेन गरुडानिलवेगवान् ।
मद्रराजं विनिर्भिद्य निपपात महीतले ॥ ६.८३.५४ ॥
他所射出的那支箭,快如迦楼罗与风,穿透摩德罗王后落于地上。
6.83.55
स गाढविद्धो व्यथितो रथोपस्थे महारथः ।
निषसाद महाराज कश्मलं च जगाम ह ॥ ६.८३.५५ ॥
这位大战车勇士深受重伤、痛苦不堪,坐在车厢底板上,大王啊,他昏厥了。
6.83.56
तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे ।
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥ ६.८३.५६ ॥
战场上,御者见他昏倒在地,便用战车把被孪生兄弟重创的他载离了战场。
6.83.57
दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्भुखम् ।
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥ ६.८३.५७ ॥
众位持国之子见摩德罗国王的战车掉头败退,个个心灰意冷,想道:“这已不可能了。”
6.83.58
निर्जित्य मातुलं सङ्ख्ये माद्रीपुत्रौ महारथौ ।
दध्यतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः ॥ ६.८३.५८ ॥
两位大战车勇士、摩德利之子在战场上战胜了舅父,欢喜地吹响海螺,发出狮子般的吼声。
6.83.59
अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशांपते ।
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥ ६.८३.५९ ॥
君王啊,他们欢喜地冲向您的军队,就像不死的因陀罗与优彭陀罗扑向阿修罗的军队一样。