Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 6.84

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.84.1

ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे ।
श्रुतायुपमभिप्रेक्ष्य प्रेषयामास वाजिनः ॥ ६.८४.१ ॥

そのとき王ユディシュティラは、太陽が正午に達したころ、シュルターユスを見やって馬を送り出した。

6.84.2

ततस्तु त्वरितो राजञ्श्रुतायुषमरिन्दमन् ।
निजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिःक ॥ ६.८४.२ ॥

さて王よ、敵を制する者は素早くシュルターユスを、鋭く節の曲がった九本の矢で射た。

6.84.3

स संवार्य रमे राजा प्रेषितान्धर्मसूनुना ।
शरान्सप्त महेष्वासः कौन्तेयाया समार्षयत् ॥ ६.८४.३ ॥

その大弓手の王は、法の子が送った攻撃を防ぎ、クンティーの子に七本の矢を放った。

6.84.4

ते तस्व कवचं भित्त्वा पपुः शोणितमाहवे ।
असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥ ६.८४.४ ॥

それらは彼の鎧を貫き、戦いで血を飲んだ。まるであの偉大な魂の身体の中で命の息を探すかのように。

6.84.5

पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना ।
रणे वराहकर्णेन राजानं हृद्यविध्यता ॥ ६.८४.५ ॥

だがパーンダヴァは激しく怒った。戦いで、猪耳の矢で王の心臓を射抜いたその大魂の者に傷つけられて。

6.84.6

अथापरेण भल्लेन केतुं तस्य महात्मनः ।
रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥ ६.८४.६ ॥

そしてパールタは別の刃状の矢で、戦車の勇士の中の第一人者であるその大魂の者の旗を、戦車から素早く地面へ落とした。

6.84.7

केतु निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः ।
पाण्डवं विशिखैतीक्ष्णै राजन्विव्याध सप्तभिः ॥ ६.८४.७ ॥

旗が倒れたのを見て、王シュルターユスは七本の鋭い矢で般度の子を射抜いた、大王よ。

6.84.8

ततः क्रोघात्प्रजज्वल धर्मपुत्रो युधिष्ठिरः ।
यथा युगान्ते भूतानि दिधक्षुरिव पावकः ॥ ६.८४.८ ॥

そのとき怒りに燃えた法の子ユディシュティラは、劫末に万物を焼き尽くそうとする火のように燃え上がった。

6.84.9

क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः ।
प्रविव्यधुर्महाराज व्याकुलं जाप्यभूज्जगत् ॥ ६.८४.९ ॥

怒れる般度の子を見て、大王よ、神々・ガンダルヴァ・ラークシャサは動揺し、世界は混乱に陥った。

6.84.10

सर्वेषां चैव भूतानामिदमासीन्मनोगतम् ।
त्रींल्लोकान्म संक्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥ ६.८४.१० ॥

すべての存在の心にあった思いは、この怒れる王が三界を焼き尽くすだろうということだった。

6.84.11

ऋष… देवाश्च चक्रुः स्वस्त्ययनं महत् ।
लोकानां नृपाशान्त्यर्थं क्रोधिते पाण्डवे तदा ॥ ६.८४.११ ॥

……聖仙と神々は、怒った般度の子をなだめるため、世界のために大いなる吉祥の儀式を行った。

6.84.12

स च क्रोधसमाविष्टः सृक्विणी परिसंलिहन ।
इवारात्सवपुर्घोरं युगान्तादित्यसन्निभम् ॥ ६.८४.१२ ॥

怒りに満ち、口の端を舌で舐めながら、彼は遠くからでも現れた。その恐ろしい身体は劫末の太陽のようだった。

6.84.13

ततः सैन्यानि सर्वाणि तावकानि विशांपते ।
निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥ ६.८४.१३ ॥

そのとき、人の王よ、あなたの全軍は命への望みを失った、バーラタの子孫よ。

6.84.14

स तु धैर्येण तं कोपं सन्निवार्य महायशाः ।
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः ॥ ६.८४.१४ ॥

しかしその大いなる名声の人は、忍耐でその怒りを抑え、シュルターユスの大弓を握りの所で断ち切った。

6.84.15

अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे ।
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥ ६.८४.१५ ॥

そのとき、全軍が見ている前で、王は弓の折れた彼の胸の真ん中を、戦いのナーラーチャ矢で射抜いた。

6.84.16

सत्वरं च रणे राजंस्तस्य वाहान्महात्मनः ।
निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥ ६.८४.१६ ॥

王よ、その大力の者は戦いで速やかに、その偉大な魂の持ち主の馬を矢で倒し、御者をも倒した。

6.84.17

हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् ।
विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥ ६.८४.१७ ॥

馬が倒れた戦車を捨て、この王の勇気を見て、そのとき、シュルターユスは戦いから速やかに逃走した。

6.84.18

तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे ।
दुर्योधनबलं राजन्सर्वमासीत्पराङ्भुखम् ॥ ६.८४.१८ ॥

その大弓の者が戦いで法の子に打ち負かされると、王よ、ドゥルヨーダナの全軍は背を向けて逃げた。

6.84.19

एवं जित्वा महाराज धर्मपुत्रो युधिष्ठिरः ।
व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥ ६.८४.१९ ॥

このように勝利して、偉大な王よ、法の子ユディシュティラは、口を開いた時のように、あなたの軍を打ち倒した。

6.84.20

चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् ।
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥ ६.८४.२० ॥

しかしヴリシュニ族のチェキターナは、全軍が見守る中、戦車兵の中で最も優れたガウタマ(クリパ)を矢で覆い隠した。

6.84.21

संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि ।
चेकितानां रणे यत्तं राजन्विव्याध पत्रिभिः ॥ ६.८४.२१ ॥

しかしシャラドヴァットの子クリパは、それらの矢を防ぎ、王よ、戦いに励んでいたチェキターナを矢で射抜いた。

6.84.22

अथापरेण भल्लेन धनुश्चिच्छेद मारिष ।
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥ ६.८४.२२ ॥

さらに、ああ、彼は別のバッラ矢で相手の弓を断ち切り、素早い手の彼は戦場で御者をも倒した。

6.84.23

अश्वांस्छास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ।
अवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ॥ ६.८४.२३ ॥

王よ、彼はその二人の後方の御者の馬を殺した。すると、サートヴァタは戦車から素早く飛び降り、棍棒を掴んだ。

6.84.24

स तया वीरघातिन्या गदया गदिनां वरः ।
गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥ ६.८४.२४ ॥

棍棒使いの中で最も優れた彼は、英雄を殺すその棍棒でゴータマ(クリパ)の馬を殺し、御者をも倒した。

6.84.25

भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडशक ।
शरास्ते सात्वतं भित्त्वा प्राविशन्धरणीतलम् ॥ ६.८४.२५ ॥

地上に立つガウタマは彼に十六本の矢を放った。その矢はサートヴァタを貫き、大地の表面へと入り込んだ。

6.84.26

चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् ।
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः ॥ ६.८४.२६ ॥

そこで怒ったチェキターナは、ヴリトラを殺そうとしたプランダラ(インドラ)のように、ガウタマを殺す望みから再びその棍棒を投げた。

6.84.27

तामापतन्तीं विमलामश्यमगर्भां महागदाम् ।
शरैरनेकसाहस्त्रैर्वारयामास गौतमः ॥ ६.८४.२७ ॥

光り輝く、石でできた中空でない大棍棒が自分に向かって迫るのを見て、ガウタマは数千本の矢でそれを防いだ。

6.84.28

चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत ।
लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥ ६.८४.२८ ॥

バーラタよ、そこでチェキターナは怒りから剣を振り上げ、この上ない敏捷さをもってガウタマへと突進した。

6.84.29

गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः ।
वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥ ६.८४.२९ ॥

ガウタマもまた弓を捨て剣を取り、極めて冷静に、王よ、大いなる速さで、チェキターナへと突進した。

6.84.30

तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ ।
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः ॥ ६.८४.३० ॥

力に満ちた二人は、優れた剣を携え、極めて鋭い刃で互いを何度も斬りつけ合った。

6.84.31

निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ ।
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥ ६.८४.३१ ॥

剣の勢いに打たれた、その二人の人中の雄牛は、すべての生き物が身を寄せる大地に倒れ込んだ。

6.84.32

मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ ।
ततोऽभ्यधावद्वेगेन भीमसेनः सुहृत्तया ॥ ६.८४.३२ ॥

気絶に四肢を覆われ、疲労に惑わされた彼らのもとへ、友情から、ビーマセーナは勢いよく駆け寄った。

6.84.33

चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः ।
रथमारोपयच्चैनं सर्वसैकन्यस्य पश्यतः ॥ ६.८४.३३ ॥

その状態のチェキターナを見て、戦いの狂気に酔った勇者は、全軍の見ている前で彼を戦車に乗せた。

6.84.34

तथैव शकुनि शूरः स्यालस्तव विशांपतेक ।
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥ ६.८४.३४ ॥

同様に、王よ、あなたの義兄の英雄シャクニは、戦車の戦士の中で最も優れたガウタマを急いで戦車に乗せた。

6.84.35

सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः ।
नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥ ६.८४.३५ ॥

すると、怒れる大力のドリシュタケートゥは、王よ、ソーマダッタの息子の胸を九十本の矢で素早く射抜いた。

6.84.36

सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत ।
मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥ ६.८४.३६ ॥

ソーマダッタの息子は、胸に突き刺さった矢によって大いに輝いた、偉大な王よ、正午の太陽が光線で輝くように。

6.84.37

भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् ।
हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥ ६.८४.३७ ॥

戦いでブーリシュラヴァスは優れた矢によって、大戦士ドリシュタケートゥの御者と馬を殺し、戦車を失わせた。

6.84.38

विरथं तं समालोक्य हताश्वं हतसारथिम् ।
महता शरवर्षेण च्छादयामास संयुगे ॥ ६.८४.३८ ॥

彼が戦車も馬も御者も失ったのを見て、戦いで大量の矢の雨で彼を覆い隠した。

6.84.39

स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः ।
आरुरोह ततो यानं शतानीकस्य मारिष ॥ ६.८४.३९ ॥

その時、大胆なドリシュタケートゥはその戦車を捨て、ああ尊者よ、シャタニーカの戦車に乗った。

6.84.40

चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा ।
रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ॥ ६.८४.४० ॥

王よ、チトラセーナ、ヴィカルナ、ドゥルマルシャナ、そして金の鎧をまとった戦車兵たちが、スバドラーの子に殺到した。

6.84.41

अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत ।
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥ ६.८४.४१ ॥

そしてアビマニユと彼らの間に恐ろしい戦いが起きた。王よ、体内の風・胆汁・粘液の三つのように。

6.84.42

विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे ।
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥ ६.८४.४२ ॥

王よ、あの大戦で彼があなたの息子たちを戦車から降ろしたとき、人中の虎はビーマの言葉を思い出し、その時は彼らを殺さなかった。

6.84.43

ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः ।
संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥ ६.८४.४३ ॥

すると数百の王たちが象や馬、戦車に乗り、戦場でビーシュマを取り囲んだ。神々ですら近づくのは難しかった。

6.84.44

प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव ।
अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥ ६.८४.४४ ॥

君の息子たちを守るために素早く進んでくるのを見て、若き大戦士アビマニユを目指して。

6.84.45

वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ।
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः ॥ ६.८४.४५ ॥

クンティーの子、白馬のアルジュナはヴァースデーヴァに言った。「フリシーケーシャよ、これらの多くの戦車がいる所へ馬を走らせよ。」

6.84.46

एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः ।
यथा हन्युर्न नः सेनां तथा माधव चोदय ॥ ६.८४.४६ ॥

これら多くの英雄は武器に熟達し、戦いの狂気に酔っている。マーダヴァよ、我らの軍を打てぬように御せ。

6.84.47

एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा ।
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥ ६.८४.४७ ॥

無限の力を持つクンティーの子にそう言われ、ヴリシュニ族の末裔は白馬に繋がれた戦車を戦場で前へ進めた。

6.84.48

निष्ठानको महानासीत्तव सैन्यस्य मारिष ।
यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥ ६.८४.४८ ॥

ご主君よ、戦場で怒ったアルジュナが君の兵へと進んだとき、君の軍には大きなどよめきが起こった。

6.84.49

समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः ।
सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥ ६.८४.४९ ॥

王よ、クンティーの子は、ビーシュマを守る王たちのもとに近づき、そしてスシャルマンにこの言葉を語った。

6.84.50

जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् ।
अनयस्याद्य संप्राप्तं फलं पश्य सुदारुणम् ॥ ६.८४.५० ॥

お前は戦士の中の最良者で、古くからの敵だと私は知っている。今日、お前の不正の極めて恐ろしい果実を見よ。

6.84.51

अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः ॥ ६.८४.५१ ॥

今日、お前に古い亡き祖先たちを見せてやろう。敵を打ち倒すビーバトスがこのように語っていると、

6.84.52

श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ।
न चैनमब्रवीत्किंचिच्छुभं वा यदि वाऽशुभम् ॥ ६.८४.५२ ॥

厳しい言葉を聞いても、戦車隊の長スシャルマンは彼に良いことも悪いことも何一つ言わなかった。

6.84.53

अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः ।
पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥ ६.८४.५३ ॥

英雄アルジュナに近づき、多くの王に囲まれ、前から、後ろから、横から、あらゆる方向から。

6.84.54

परिवार्यार्जुनं सङ्ख्ये तव पुत्रैर्महारथः ।
शरैः संछादयामास मेघैरिव दिवाकरम् ॥ ६.८४.५४ ॥

戦場でお前の息子たちとともにアルジュナを取り囲み、その大戦車兵は雲が太陽を覆うように、矢で彼を覆い尽くした。

6.84.55

ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः ।
तावकानां च समरे पाण्डवानां च भारत ॥ ६.८४.५५ ॥

バーラタの末裔よ、そのとき、あなたの軍勢とパーンダヴァの軍勢との間で、血を水とする非常に大きな戦いが戦場に始まった。