Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.85.1

स ताड्यमानस्तु शरैर्धनंजयः ।
पदाहतो नाग इव श्वसन्बली ।
बाणांश्च बाणेन महारथानां ।
चिच्छेद चापानि रणे प्रसह्य ॥ ६.८५.१ ॥

丘耶ダ遏耶(阿周那)虽被箭所射,犹如被脚踩的强大象一般喘息,在战斗中强力斩断了大战车武士的箭与弓。

6.85.2

संछिद्य चापानि च तानि राज्ञां ।
तेषां रणे वीर्यवतां क्षणेन।
विव्याध बाणैर्युगपन्महात्मा ।
निःशेषतां तेष्वथ मन्यमानः ॥ ६.८५.२ ॥

斩断那些国王的弓之后,这位大德者想要将那些勇猛的武士彻底消灭,在顷刻间同时以箭射穿了他们。

6.85.3

निपेतुराजौ रुधिरप्रदिग्धा-
स्ते ताडिताः शक्रसुतेन राजन्।
विभिन्नगात्राः पतितोत्तमाङ्गा ।
गतासवश्छिन्नतनुक्रकायाः ॥ ६.८५.३ ॥

大王啊!他们被因陀罗之子击中,浑身沾满鲜血,倒在战场上。身躯破碎,头颅落地,气息已绝,肢体和躯干都被斩断。

6.85.4

महीं गताः पर्थबलाभिभूता ।
विचित्ररूपा युगपद्विनेशुः।
दृष्ट्वा हतांस्तान्युधि राजपुत्रां-
स्त्रिगर्तराजः प्रययौ रथेन ॥ ६.८५.४ ॥

被帕尔沙的力量所压倒,那些形貌各异的人一起倒在地上同时丧命。见那些王子在战斗中被杀,特里迦尔塔之王乘车离去了。

6.85.5

तेषां रथानामथ पृष्ठगोपा ।
द्वात्रिंशदन्येऽभ्यपतन्त पार्थम्।
तथैव ते तं परिवार्य पार्थं ।
विकृष्य चापानि महारवाणि ॥ ६.८५.५ ॥

随后,那些战车的三十二名后卫也冲向帕尔沙。他们同样包围了帕尔沙,拉开发出巨大响声的弓。

6.85.6

अवीवृषन्बाणमहौघवृष्ट्या ।
यथा गिरिं तोयधरा जलौघैः।
संपीड्यमानस्तु शरौघवृष्ट्या ।
धनंजयस्तान्युधि जातरोषः ॥ ६.८५.६ ॥

如同载水的云向山上倾泻洪流,他们以大量箭雨覆盖了他。被箭流之雨逼迫的达南家耶在战斗中怒火大起,

6.85.7

षष्ट्या शरैः संयति तैलधौतै-
र्जघान तानप्यथ पृष्ठगोपान्।
रथांश्च तांस्तनवजित्य सङ्ख्ये ।
धनञ्जयः प्रीतमना यशस्वी ॥ ६.८५.७ ॥

他在战斗中以六十支油洗的箭射杀了那些后卫,又轻易地战胜了那些战车,名声显赫的达南家耶心中欢喜。

6.85.8

अथात्वरद्भीष्मवधाय जिष्णु-
र्बलानि राजन्समरे निहत्य।
त्रिगर्तराजो निहतान्समीक्ष्य ।
महात्मना तानथ बन्धुवर्गान् ॥ ६.८५.८ ॥

于是,大王啊,胜者(阿周那)急于杀死毗湿摩;在战斗中歼灭了军队,而三重国王见到被杀的亲族后,这位崇高的人……

6.85.9

रणे पुरस्कृत्य नराधिपांस्तान् ।
जगाम पार्थं त्वरितो वधाय
अभिद्रुतं चास्त्रभृतां वरिष्ठं ।
धनंजयं वीक्ष्य शिखण्डिमुख्याः ॥ ६.८५.९ ॥

他在战斗中将那些人主置于前列,急忙朝普利塔之子走去要杀他;而看见最杰出的持武者达南家耶冲来,尸犍底等为首的战士……

6.85.10

अभ्यद्ययुस्ते शितशस्त्रहस्ता ।
रिरक्षिषन्तो रथमर्जुनस्य।
पार्थोऽपि तानापततः समीक्ष्य ।
त्रिगर्तराज्ञा सहितान्नृवीरान ॥ ६.८५.१० ॥

他们手持锋利的兵器,想要保护阿周那的战车,向他冲去;普利塔之子看见那些英雄与三重国王一同扑来,

6.85.11

विध्वंसयित्वा समरे धनुष्मान् ।
गाण्डीवमुक्तैर्निशितैः पृषत्कैः ।
भीष्मं यियासुर्युधि संददर्श ।
दुर्योधनं सैन्धवादींश्च राज्ञः ॥ ६.८५.११ ॥

战斗中击溃敌军后,这位善射者想以从干提弓射出的锐利箭矢前往毗湿摩,于是在战场上看见了难敌和信度等诸王。

6.85.12

गाङ्गेयमाजौ शरचापपाणिः ॥ ६.८५.१२ ॥

手持弓箭的恒河之子(毗湿摩)在战场上……

6.85.13

भीष्मोऽपि दृष्ट्वा समरे कृतास्त्रान् ।
स पाण्डवानां रथिनोऽभ्युदारान्।
विहाय संग्राममुखे धनंजयं ।
जवेन पार्थं पुनराजगाम ॥ ६.८५.१३ ॥

毗湿摩也看见战场上通晓武艺的般度子弟高贵车战者,便在战阵前方舍弃了财主(阿周那),迅速又回到了贡提之子那里。

6.85.14

र्भीष्मं ययौ शान्तनवं रणाय ॥ ६.८५.१४ ॥

……沙antanu之子毗湿摩前往战斗。

6.85.15

तैः संप्रयुक्तैः स महारथाग्र्यै-
र्गङ्गासुतः समरे चित्रयोधी।
न विव्यधे शान्तनवो महात्मा ।
समागतैः पाण्डुसुतैः समस्तैः ॥ ६.८५.१५ ॥

那些最杰出的大车战士所发之箭,都没有伤到战场上的恒河之子,这位奇妙的战士、高尚的沙antanu之子,因为般度的诸子都聚集在一起。

6.85.16

अथैत्य राजा युधि सत्यसन्धो ।
जयद्रथोऽत्युग्रबलो मनस्वी।
चिच्छेद चापानि महारथानां ।
प्रसह्य तेषां धनुषा वरेण ॥ ६.८५.१६ ॥

于是,誓言坚定、力量极其猛烈、心志高远的国王胜车,在战斗中挺身而出,以他那上好的弓,强行折断了那些大车战士的弓。

6.85.17

युधिष्ठिरं भीमसेनं यमौ च ।
पार्थं कृष्णं युधि संजातकोपः ।
दुर्योदनः क्रोधविषो महात्मा ।
जघान बाणैरनलप्रकाशैः ॥ ६.८५.१७ ॥

在战斗中,心怀怒火、以愤怒为毒的大心者难敌,用如火焰般明亮的箭射伤了坚战、怖军、双生子、阿周那和黑天。

6.85.18

कृपेण शल्येन शलेन चैव ।
तथा विभो चित्रसेनेन चौजौ।
विद्धाः शरैस्तेऽतिविवृद्धकोपै-
र्देवा यथा दैत्यगणैः समेतैः ॥ ६.८५.१८ ॥

啊,大力者!克里巴、沙利亚、沙拉、奇特拉塞纳和二位奥迦斯,怒火极盛,以箭射伤了他们,正如诸天被聚集的阿修罗群所伤。

6.85.19

छिन्नायुधं शान्तनवेन राजा ।
शिखण्डिनं प्रेक्ष्य च जातकोपः।
अजातशत्रुः समरे महात्मा ।
शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥ ६.८५.१९ ॥

看见被善天之子毗湿摩砍断兵器的尸犍陀,战场上的大心王阿阇世(坚战)怒火中烧,愤怒地对尸犍陀说道。

6.85.20

उक्त्वा तथा त्वं पितुरग्रतो मा-
महं हनिष्यामि महाव्रतं तम्।
भीष्मं शरौघैर्विमलार्कवर्णैः ।
सत्यं वदामीति कृता प्रतिज्ञा ॥ ६.८५.२० ॥

你在父亲面前如此说道,立下誓言:“我将以如纯净太阳般光辉的箭雨,杀死大愿者毗湿摩。我所言为真,这便是我的誓言。”

6.85.21

त्वया च नैनां सफलां करोषि ।
देवव्रतं यन्न निहंसि युद्धे।
मिथ्याप्रतिज्ञो भव मात्र वीर ।
रक्षस्व धर्मं स्वकुलं यशश्च ॥ ६.८५.२१ ॥

若你在战斗中不杀死天誓者毗湿摩,便不能使这誓言成就。英雄啊,不要成为违背誓言之人;请守护法、你的家族与名声。

6.85.22

प्रेक्षस्व भीष्मं युधि भीमवेगं ।
सर्वांस्तपन्तं मम सैन्यसङ्घान्।
शरौघजालैरतितिग्मवेगैः ।
कालं यथा कालकृतं क्षणेन ॥ ६.८५.२२ ॥

看那在战场上的毗湿摩,其速度可怖,他以箭网与极其迅猛的速度焚烧我军所有的部队,如时间在刹那间使万物归于死亡。

6.85.23

निकृत्तचापः समरेऽनपेक्षः ।
पराजितः शान्तनवेन चाजौ ।
विहाय बन्धूनथ सदरांश्च ।
क्व यास्यसे नानुरूपं तवेदम् ॥ ६.८५.२३ ॥

弓已断裂,在战斗中漠不关心,被山塔努之子在战斗中击败,你抛弃亲族与妻子,将去往何处?这于你不相称。

6.85.24

दृष्ट्वा हि भीष्मं तमनन्तवीर्यं ।
भग्नं च सैन्यं द्रवमाणमेवम् ।
भीतोऽसि नूनं द्रुपदस्य पुत्र ।
तथा हि ते मुखवर्णोऽप्रहृष्टः ॥ ६.८५.२४ ॥

你看见了无穷勇力的毗湿摩,又看见我军如此溃散奔逃,德鲁帕达之子啊,你定然恐惧了,因为你面色并不欢喜。

6.85.25

अज्ञायमाने च धनंजये तु ।
महाहावे संप्रसक्ते नृवीरे।
कथं हि भीष्मात्प्रथितः पृथिव्यां ।
भयं त्वमद्य प्रकरोषि वीर ॥ ६.८५.२५ ॥

当阿周那不在、正陷于大战之时,英雄啊,你在大地上比毗湿摩更为著名,今日为何竟生起恐惧?

6.85.26

स धर्मराजस्य वचो निशम्य ।
रूक्षाक्षरं विप्रलापानुबद्धम् ।
प्रत्यादेशं मन्यमानो महात्मा ।
प्रतत्वरे भीष्मवधाय राजन् ॥ ६.८५.२६ ॥

听了法王那些尖刻又夹杂哀叹的话语,这位大德者以为是责备,于是,国王啊,急速前往杀害毗湿摩。

6.85.27

तमापतन्तं महता जवेन ।
शिखण्डिनं भीष्ममभिद्रवन्तम्।
निवारयामास हि शल्य एन-
मस्त्रेण घोरेण सुदुर्जयेन ॥ ६.८५.२७ ॥

沙利耶以可怕而难以战胜的武器,确实阻挡了高速冲向毗湿摩的湿икхандин。

6.85.28

शरैस्तदस्त्रं प्रतिबाधमानः ॥ ६.८५.२८ ॥

以箭矢抵挡那件武器。

6.85.29

अथाददे वारुणमन्यदस्त्रं ।
शिखण्ड्यथोऽग्रं प्रतिघातमस्य।
तदस्त्रमस्त्रेण विदार्यमाणं ।
खस्थाः सुरा ददृशुः पार्थिवाश्च ॥ ६.८५.२९ ॥

于是湿икхандин取了另一件伐如那之武器,以对抗彼之武器;天空中的诸神与诸王看见那件武器被另一件武器劈裂。

6.85.30

भीष्मस्तु राजन्समरे महात्मा ।
धनुश्च चित्रं ध्वजमेव चापि।
छित्त्वाऽनदत्पाण्डुसुतस्य वीरो ।
युधिष्ठिरस्याजमीढस्य राज्ञः ॥ ६.८५.३० ॥

然而,大王啊,大心的英雄毗湿摩在战斗中斩断了般度之子、阿遮密荼族之王坚战的华丽弓与旗帜,并发出吼声。

6.85.31

ततः समुत्सृज्य धनुः सबाणं ।
युधिष्ठिरं वीक्ष्य भयाभिभूतम्।
गदां प्रगृह्याभिपपात सङ्ख्ये ।
जयद्रथं भीमसेनः पदातिः ॥ ६.८५.३१ ॥

于是毗摩森那见坚战被恐惧所困,便抛下带箭的弓,握起钵,徒步在战场上扑向胜车。

6.85.32

तमापतन्तं सहसा जवेन ।
जयद्रथः सगदं भीमसेनम्।
विव्याध घोरैर्यमदण्डकल्पैः ।
शितैः शरैः पञ्चशरैः समन्तात् ॥ ६.८५.३२ ॥

胜车忽然以如阎摩杖般可怖锐利的箭矢,从四面将疾速持钵扑来的毗摩森那射穿,每次五支。

6.85.33

अचिन्तयित्वा स शरांस्तरस्वी ।
वृकोदरः क्रोधपरीतचेताः ।
जघान वाहान्समरे समन्तात् ।
सुसंमतान्सिन्धुराजस्य सङ्ख्ये ॥ ६.८५.३३ ॥

不顾箭矢,疾速的狼腹(毗摩)怒火攻心,在战场上四面八方地杀死了信度王最珍爱的马匹。

6.85.34

ततोऽभिवीक्ष्याप्रतिमप्रभाव-
स्तवात्मजस्त्वरमाणो रथेन
अभ्यायौ भीमसेनं निहन्तुं ।
समुद्यतास्त्रः सुरराजकल्पः ॥ ६.८५.३४ ॥

此时你那威力无比的儿子看见毗摩森,便乘车急速上前要杀他;他举起兵器,宛如诸神之王。

6.85.35

जयद्रथो भग्रवाहं रथं त ।
त्यक्त्वा ययौ यत्र राजा कुरूणाम् ।
भयेन भीमस्य समूढचेताः ।
ससौबलस्तत्र युद्धस्य भीतः ॥ ६.८५.३५ ॥

胜车抛下破损的马匹,前往俱卢王所在之处;心因惧怕毗摩而慌乱,他与沙恭尼一同惊惧于战斗,逃到那里。

6.85.36

भीमोऽप्यथैनं सहसा विनद्य ।
प्रत्युद्ययौ गदया तर्जयानः।
समुद्यतां तां यमदण्डकल्पां ।
दृष्ट्वा गदां ते कुरवः समन्तात् ॥ ६.८५.३६ ॥

毗摩也突然怒吼,挥舞着铁杵威吓他,向他冲去;看见那高举的杵如阎摩之杖,俱卢们便四散奔逃。

6.85.37

विहाय सर्वे तव पुत्रमुग्नं ।
पातं गदायाः परिहर्तुकामाः।
अपक्रान्तास्तुमुले संप्रमर्दे ।
सुदूरुणे भारत मोहनीये ॥ ६.८५.३७ ॥

婆罗多啊,他们抛下你那凶猛的儿子,都想躲开铁杵的重击,在那可怕而令人迷惑的激烈混战中纷纷退去。

6.85.38

ज्जगामान्यं भ्रमप भूमिदेशम् ॥ ६.८५.३८ ॥

……他前往另一片地域。

6.85.39

गदापि सा प्राप्य रथं सुचित्रं ।
साश्व ससूतं विनिहत्य सङ्ख्ये।
जगाम भूमिं ज्वलिता महोल्क ।
भ्रष्टाऽम्बराद्गामिव संपतन्ती ॥ ६.८५.३९ ॥

那铁锤也到达了那辆装饰华丽的战车,在战斗中将它连同马匹和御者一并摧毁,如同从天空坠落的燃烧大流星一般落到地上。

6.85.40

आश्चर्यभूतं सुमहत्त्वदीया ।
दृष्ट्वैव तद्भारत संप्रहृष्टाः।
सर्वे विनेदुः सहिताः समन्ता-
त्पुपूजिरे तव पुत्रस्य शौर्यम् ॥ ६.८५.४० ॥

婆罗多啊,你的人看到这极其奇妙的景象,个个欢喜万分,从四面八方一齐呼喊,赞美你儿子的勇武。