摩诃婆罗多 · 章 6.86
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.86.1
विरथं तं समासाद्य चित्रसेनं यशस्विनम् ।
रथमारोपयामास विकर्णस्तनयस्तव ॥ ६.८६.१ ॥
你的儿子毗迦尔纳走近失去战车的著名的旃陀罗那,让他登上了一辆战车。
6.86.2
तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम् ।
भीष्मः शान्तनवस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥ ६.८६.२ ॥
当那场喧嚣混乱的激战正猛烈进行时,山遮图之子毗湿摩迅速向坚战冲去。
6.86.3
ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः ।
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम् ॥ ६.८६.३ ॥
于是,连同战车、象和马的斯兰遮人全都一起颤抖起来,他们认为坚战已经落入死亡之口。
6.86.4
युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः ।
महेष्वासं नरव्याघ्रं भीष्मं शान्तनवं ययौ ॥ ६.८६.४ ॥
俱卢族的主君坚战也与两位双生子(那恭那与偕天)一同,前往山遮图之子毗湿摩——那位大弓手、人中之虎。
6.86.5
ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि ।
भीष्मं संछादयामास यथा मेघो दिवाकरम् ॥ ६.८६.५ ॥
于是,这位般度之子在战斗中射出千万支箭,将毗湿摩完全遮蔽,如同云遮蔽太阳。
6.86.6
तेन सम्यक्प्रणीतानि शरजालानि मारिष ।
प्रतिजग्राह गाङ्गयः शतशोऽथ सहस्रशः ॥ ६.८६.६ ॥
尊者啊,他所善射出的箭网,被恒河之子毗湿摩成百上千地挡下了。
6.86.7
तथैव शरजालानि भीष्मोणास्तानि मारिष ।
आकाशे समदृश्यन्त स्वगमानां व्रजा इव ॥ ६.८६.७ ॥
同样,尊者啊,毗湿摩炽热的箭网射出,在空中看去如同飞行的天鹅群。
6.86.8
निमेषार्धेन कौन्तेयं भीष्मः शान्तनवो युधि ।
अदृश्यं समरे चक्रे शरजालेन भारत ॥ ६.८६.८ ॥
霍,婆罗多啊,珊塔奴之子毗湿摩在半瞬之间,以箭网使俱卢之子在战场上不可见。
6.86.9
ततो युधिष्ठिरे राजा कौरव्यस्य महात्मनः ।
नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम् ॥ ६.८६.९ ॥
于是,俱卢族的伟大君王愤怒地向坚战射出一支如毒蛇般的铁箭。
6.86.10
असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः ।
चच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम् ॥ ६.८६.१० ॥
国王啊,于是大战车武士毗湿摩在它到达之前,以剃刀头箭将那支箭斩断,他的弓也随之坠落。
6.86.11
तं तु च्छित्वा रणे भीष्मो नाराचं कलसंमितम् ।
नजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान् ॥ ६.८६.११ ॥
毗湿摩在战场上斩断那支箭后,又以一支如量箭般的箭射杀了俱卢之王的饰金战马。
6.86.12
हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः ।
आरुरोह रथं तूर्णं नकुलस्य महात्मनःक ॥ ६.८६.१२ ॥
马匹被杀后,法之子坚战弃车,迅速登上了大度的无种的战车。
6.86.13
यमावपि हि संक्रुद्धः समासाद्य रणे तदा ।
शरैः संछादयामास भीष्मः परपुरंजयः ॥ ६.८६.१३ ॥
当时在战斗中,愤怒的毗湿摩走近两位双生者(Yama),用箭矢将他们覆盖;他是征服敌城的英雄。
6.86.14
तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ ।
जगाम परमां चिन्तां भीष्मस्य वधकाङ्क्षया ॥ ६.८६.१४ ॥
大王啊,见到那二人被毗湿摩的箭所困扰,他陷入极大的忧虑,渴望杀死毗湿摩。
6.86.15
ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत् ।
भीष्मं शान्तनवं सर्वे निहतेति सुहृद्गणान् ॥ ६.८६.१५ ॥
于是坚战激励那些臣服的国王,并告诉所有盟友的群体:山塔努之子毗湿摩已被杀死。
6.86.16
ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम् ।
महता रथवंशेन परिवव्रुः पितामहम् ॥ ६.८६.१६ ॥
于是,所有那些国王听了阿周那的话,便以庞大的战车军队包围了祖父。
6.86.17
स समन्तात्परिवृतः पिता देवव्रतस्तव ।
चिक्रीड धनुषा राजन्पातयानो महारथान् ॥ ६.८६.१७ ॥
大王啊,你的父亲提婆跋罗陀(毗湿摩)被四面包围;他挥弓如戏,不断射倒大战车武士。
6.86.18
तं चरन्तं रणे पार्था ददृशुः कौरवं युधि ।
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने ॥ ६.८६.१८ ॥
普利塔之子们看见那位俱卢在战斗中穿行,就像狮子幼崽闯入森林中的鹿群之中。
6.86.19
तर्जयानं रमे वीरांस्त्रासयानं च सायकैः ।
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव ॥ ६.८६.१९ ॥
大王啊,他们看见那头威胁勇士、以箭矢惊吓众人的狮子,便像鹿群一样战栗起来。
6.86.20
रणे भारत सिंहस्य ददृशुः क्षत्रिया गतिम् ।
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः ॥ ६.८६.२० ॥
婆罗多啊,战场上刹帝利们看见那狮子的行进,如同风助火势烧毁林丛。
6.86.21
शिरांसि रथिनां भीष्मः पातयामास संयुगे ।
तालेभ्यः परिपक्वानि फलानि कुशलो नरः ॥ ६.८६.२१ ॥
在战斗中,毗湿摩使车战者的头颅纷纷落下,如同熟练之人从棕榈树上摘下熟果。
6.86.22
पतद्भिश्च महाराज शिरोभिर्धरणीतले ।
बभूव तुमुलः शब्दः पततामश्मनामिव ॥ ६.८६.२२ ॥
大王啊,头颅落在地上时,发出如落石般的轰然巨响。
6.86.23
तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके ।
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥ ६.८६.२३ ॥
在那场极其可怖而喧嚣的战斗进行之时,所有军队之间出现了巨大的混乱。
6.86.24
भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम् ।
एकमेकं समाहूय युद्धायैवावतस्थिरे ॥ ६.८६.२४ ॥
那些阵形被冲散后,刹帝利们彼此挑战,一对一地挺身迎战。
6.86.25
शिखण्डी तु समासाद्य भरतानां पितामहम् ।
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ॥ ६.८६.२५ ॥
然而,石纪坦(Śikhaṇḍin)走近婆罗多族的祖父,疾速冲向他,说道:“站住,站住!”
6.86.26
अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे ।
प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं तस्य विचिन्तयन् ॥ ६.८६.२६ ॥
于是毗湿摩在战场上不理会石纪坦,愤怒地想着他的女性身份,向鲜阇耶人冲去。
6.86.27
सृंजयास्तु ततो दृष्ट्वा हृष्टं भीष्म महारणे ।
सिंहनादांश्च विविधांश्चक्रुः शङ्खविमिश्रितान् ॥ ६.८६.२७ ॥
于是鲜阇耶人见毗湿摩在大战中欢喜,便发出各种狮吼,与海螺声交织在一起。
6.86.28
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।
पश्चिमां दिशमासाद्य स्थिते सवितरि प्रभो ॥ ६.८६.२८ ॥
主啊,那时太阳已到达西方并停留在那里,战斗开始了,战车与象群相互交错。
6.86.29
धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः ।
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः ॥ ६.८६.२९ ॥
于是般遮罗王子持法王与大车手萨提亚基,以投枪与标枪的雨点猛烈攻击敌军。
6.86.30
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे ।
ते हन्यमानाः समरे तावका भरतर्षभ ॥ ६.८६.३० ॥
王啊,他们二人以众多武器在战场上杀害了你的战士。婆罗多族的俊杰啊,你的那些战士正在战场上被杀。
6.86.31
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम् ।
यथोत्साहं तु समरे निजघ्नुस्तावका रणे ॥ ६.८६.३१ ॥
他们在战斗中怀着高尚的决心,不放弃激战;依照各自的勇气,你的战士们在混战中奋力杀敌。
6.86.32
तत्राक्रन्दो महानासीत्तावकानां महात्मानाम् ।
वध्यतां समरे राजन्पार्षतेन महात्मना ॥ ६.८६.३२ ॥
那里,你的英豪们发出巨大的哀号,大王啊,他们正被普利沙塔之子这位英豪在战场上杀死。
6.86.33
तं श्रुत्वा निनदं घोरं तावकानां महारथौ ।
विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ ॥ ६.८६.३३ ॥
听到你的人那可怕的喧声,阿槃提的两位大车战士冰达与阿努冰达向普利沙塔之子挺进。
6.86.34
तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ ।
छादयामासतुरुभौ शरवर्षेण पार्षतम् ॥ ६.८६.३४ ॥
那两位大车战士急速杀死了他的马匹,两人以箭雨遮蔽了普利沙塔之子。
6.86.35
अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः ।
आरुरोहक रथं तूर्णं सात्यकेस्तु महात्मनः ॥ ६.८६.३५ ॥
于是,强大的般遮罗王子迅速从车上跃下,立即登上了英豪萨提亚吉的战车。
6.86.36
ततो युधिष्ठिरो राजा महत्या सेनया वृतः ।
आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ ॥ ६.८६.३६ ॥
于是,被庞大军队环绕的国王坚战,向两位愤怒的阿槃提王子——敌人的焚烧者——在战场上挺进。
6.86.37
तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष ।
विन्दानुविन्दौ समरे परिवार्यावतस्थिवान् ॥ ६.८६.३७ ॥
同样,你的儿子,尊者啊,竭尽全力,在战场上包围了毗因达和阿奴毗因达而屹立。
6.86.38
अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभः ।
अयोधयत संग्रामे वज्रपाणिरिवासुरान् ॥ ६.८६.३८ ॥
勇士中的雄牛阿周那也极为愤怒,在战场上与刹帝利作战,如持金刚杵的因陀罗与阿修罗作战一般。
6.86.39
द्रोणास्तु समरे क्रुद्धः पुत्रस्य प्रियकृत्तव ।
व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः ॥ ६.८६.३९ ॥
令你儿子欢喜的德罗纳在战场上愤怒,如火焚散棉絮堆一般,将所有般遮罗人驱散。
6.86.40
दुर्योधनपुरोगास्तु पुत्रास्तव विशांपते ।
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह ॥ ६.८६.४० ॥
人主啊,以难敌为首的你的儿子们,在战场上包围毗湿摩,与般度之子们交战。
6.86.41
ततो दुर्योधनो राजा लोहितायति भास्करे ।
अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत ॥ ६.८६.४१ ॥
此时,难敌王见太阳变红,对你的所有人说:“快些!”婆罗多的后裔啊。
6.86.42
युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम् ।
अस्तं गिरिमथारूढे अप्रकाशति भास्करे ॥ ६.८६.४२ ॥
当他们奋战并完成艰难的功业时,太阳爬上了落日之山,光芒渐渐暗淡。
6.86.43
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ।
गोमायुगणसंकीर्णा क्षणेन क्षणदामुखे ॥ ६.८६.४३ ॥
夜幕降临之际,转瞬之间涌出一条可怖的河流,血流成波,满是豺狼群。
6.86.44
शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम् ।
घोरमायोधनं जज्ञे भूतसङ्घैः समाकुलम् ॥ ६.८६.४४ ॥
豺狼与不祥的雌豺发出可怖的嚎叫,那可怕的战场充满了鬼怪的群众。
6.86.45
राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशिनः ।
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ ६.८६.४५ ॥
罗刹、毕舍遮及其他食肉者,四面八方可见,成百上千。
6.86.46
अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान् ।
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति ॥ ६.८६.४६ ॥
然后阿周那在军中击败了那些国王——苏舍尔曼等人及其步兵与随从,便向自己的营帐而去。
6.86.47
युधिष्टिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तथा ।
ययौ स्वशिबिरं राजा निशायां सेनया वृतः ॥ ६.८६.४७ ॥
库鲁族后裔国王坚战也与两位兄弟一同,被大军环绕,在夜间回到了自己的营帐。
6.86.48
भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान् ।
अवजित्य ततः सङ्ख्ये ययौ स्वशिबिरं प्रति ॥ ६.८६.४८ ॥
王中之王啊!坚战之弟怖军也在战中击败了以难敌为首的车战勇士,然后向自己的营帐而去。
6.86.49
दुर्योधनोऽपि नृपतिः परिवार्य महारणे ।
भीष्मं शान्तनवं तूर्णं प्रयातः शिबिरं प्रति ॥ ६.८६.४९ ॥
国王难敌也在大战中包围了山塔努之子毗湿摩,迅速朝营地而去。
6.86.50
द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः ।
परिवार्य चमूं सर्वाः प्रययुः शिबिरं प्रति ॥ ६.८६.५० ॥
德罗纳、德罗纳之子、克利帕、沙利耶和萨特瓦塔的克利特哇尔曼,都包围着军队,朝营地而去。
6.86.51
तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः ।
परिवार्य रणे योधान्ययतुः शिबिरं प्रति ॥ ६.८६.५१ ॥
同样,大王啊,萨提亚基和普利沙塔之子达利什塔笃摩在战场上包围着战士,朝营地而去。
6.86.52
एवमेते महाराज तावकाः पाण्डवैः सह ।
पर्यवर्तन्त सहिता निशाकाले परंतप ॥ ६.८६.५२ ॥
如此,大王啊,你的这些人与般度之子一同,在夜幕降临时退回了,啊,焚烧敌人者。
6.86.53
ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा ।
न्यवसन्त महाराज पूजयन्तः परस्परम् ॥ ६.८६.५३ ॥
然后,般度之子与俱卢人各自回到自己的营地,同样留在那里,大王啊,彼此致敬。
6.86.54
रक्षां कृत्वा ततः शूरा न्यस्य गुल्मान्यथाविधि ।
अपनीय च शल्यानि स्नात्वा च विविधैर्जलैः ॥ ६.८६.५४ ॥
然后,勇士们安排了守卫,依照规矩布置了小队,拔去箭矢,并用各种水沐浴。
6.86.55
कृतस्वस्त्ययनाः सर्वे स्तूयमानाश्च बन्दिभिः ।
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः ॥ ६.८६.५५ ॥
诸位声名显赫的勇士举行了吉祥仪式,在歌咏与乐器声中,受到吟游诗人的赞颂,尽情娱乐。
6.86.56
मुहूर्तादिव तत्सर्वमभवत्स्वर्गसन्निभम् ।
न हि युद्धकथां कांचित्तत्राकुर्वन्महारथाः ॥ ६.८६.५६ ॥
片刻之间,整个地方变得如同天界;那里的大战车武士竟没有一人谈论战事。
6.86.57
ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप ।
हस्त्यश्वबहुले रात्रौ प्रेक्षणीये बभूवतुः ॥ ६.८६.५७ ॥
大王啊,那支象马众多的军队在夜间入睡,疲惫的人们安息之时,它们成了值得观看的景象。