Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.87

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.87.1

परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः ।
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः ॥ ६.८७.१ ॥

度过那一夜之后,熟睡安眠的人主,即俱卢族与般度族,再次出发投入战斗。

6.87.2

ततः शब्दो महानासीत्सेनयोरुभयोर्नृप ।
निर्गच्छमानयोः सङ्ख्ये यथा सागरयोरिव ॥ ६.८७.२ ॥

那时,大王啊,两军出征之际,战场上响起巨大的声音,如同两片大海。

6.87.3

ततो दुर्योधनो राजा चित्रसेनो विविंशतिः ।
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः ॥ ६.८७.३ ॥

随后,国王难敌、citrasena、Vivinśati、车战者中最优秀的毗湿摩,以及婆罗门婆罗堕阇之子上前。

6.87.4

एकीभूताः सुसंयत्ताः कौरवाणां महाचमूम् ।
व्यूहाय विदधू राजन्पाण्डवान्प्रतिदंशितान् ॥ ६.८७.४ ॥

俱卢族人团结一心、准备充分,大王啊,他们将庞大的军队排成阵势,以对抗已列阵待战的般度五子。

6.87.5

कूर्मव्यूहं ततः कृत्वा पिता तव विशांपते ।
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम् ॥ ६.८७.५ ॥

于是,众民之主啊,你的父亲布下龟形阵,它如大海般可怖,车马如同波浪。

6.87.6

अग्रतः सर्वसैन्यानां भीष्मः शान्तनवो ययौ ।
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः ॥ ६.८७.६ ॥

在所有军队之前,檀努之子毗湿摩率领摩罗婆人、南方人和阿般提人前进。

6.87.7

ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान ।
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः ॥ ६.८७.७ ॥

紧随其后的是勇猛的婆罗堕闍之子(德罗纳),与布林达人、帕拉达人、克沙德拉卡人和摩罗婆人同行。

6.87.8

द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान् ।
मगधैश्च कलिङ्गैश्च पिशाचैश्च विशांपते ॥ ६.८७.८ ॥

德罗纳之后,勇猛的婆伽陀已做好准备而来,与摩揭陀人、羯陵伽人和毗舍遮人同行。啊,人民之主!

6.87.9

प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः ।
मेकलैः कुरुविन्दैश्च त्रैपुरैश्च समन्विताः ॥ ६.८७.९ ॥

在普拉格约提沙之后,国王憍萨罗的布哈德巴拉到来,与美喀拉人、俱卢般陀人和三城人同行。

6.87.10

बृहद्बलादनु नृपस्त्रिगर्तः प्रस्थलाधिपः ।
काम्भोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः ॥ ६.८७.१० ॥

布哈德巴拉之后,普罗斯塔拉之主、国王三伽多来到,与众多憍商尼人和成千上万的耶那人同行。

6.87.11

द्रौणिस्तु रभसः शूरस्त्रैगर्तादनु भारत ।
प्रययौ सिंहनादेन नादयानो धरातलम् ॥ ६.८७.११ ॥

在三伽多之后,德罗纳之子、猛烈的英雄啊,婆罗多之后裔,如狮子般吼叫,使大地回响,向前进发。

6.87.12

तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा ।
द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः ॥ ६.८७.१२ ॥

同样,当时国王难敌率领全军跟随德罗纳之子前进,被他的兄弟们簇拥着。

6.87.13

दुर्योधनादनु ततः कृपः शारद्वतो ययौ ।
एवमेष महाव्यूहः प्रययौ सागरोपमः ॥ ६.८७.१३ ॥

随后,沙罗堕多之子克利巴跟随在难敌之后。这大阵如大海一般向前推进。

6.87.14

रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि भारत ।
अङ्गदान्यत्र चित्राणि महार्हाणि धनूंषि च ॥ ६.८७.१४ ॥

这里旗帜与白伞闪耀,婆罗多啊,此处还有灿烂珍贵的臂钏与弓箭闪光。

6.87.15

तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः ।
युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम् ॥ ६.८७.१५ ॥

见到你方的那大阵,大车将坚战迅速对作为军队统帅的般沙塔之子说道。

6.87.16

पश्य व्यूहं महेष्वास निर्मितं सागरोपमम् ।
प्रतिव्यूहं रणे शूर कुरु क्षिप्रं महारथ ॥ ६.८७.१६ ॥

大弓箭手啊,看这如大海般布置的大阵。英雄啊,大车将,请在战斗中迅速布下对阵之阵。

6.87.17

ततः स पार्षतः क्रूरो व्यूहं चक्रे सुदारुणम् ।
श्रृङ्गाटकं महाराज परव्यूहविनाशनम् ॥ ६.८७.१७ ॥

于是那残暴的般沙塔之子布下了极其可怖的大阵,大王啊,那便是能摧毁敌阵的三角阵。

6.87.18

श्रृङ्गाभ्यां भीमसेनश्च सात्यकिश्च महारथः ।
रथैरनेकसाहस्रैस्तथा हयपदातिभिः ॥ ६.८७.१८ ॥

两角之上是毗摩修那与大车将萨谛奇,随之的有成千上万的战车、骑兵与步兵。

6.87.19

नाभावभून्नरश्रेष्ठः श्वेताश्वः कृष्णसारथिः ।
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ॥ ६.८७.१९ ॥

人中之最、白马之主、以黑天为御者的阿周那也并非不在。中央是国王坚战,以及摩德利的两个儿子般度五子。

6.87.20

अथेतरे महेष्वासाः सहसैन्या नराधिपाः ।
व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः ॥ ६.८७.२० ॥

此时,其余精通阵法之学的大弓箭手、人主们与其军队一同充实了那个大阵。

6.87.21

एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः ।
अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः ॥ ६.८७.२१ ॥

如此,婆罗多啊,般度之子们布成那大阵,怀着战斗之心、求胜之志,作为英雄立于战场。

6.87.22

भेरीशब्दैश्च विमलैर्विमिश्रैः शङ्खनिःस्वनैः ।
क्ष्वेडितास्फोटितोत्क्रुष्टैर्नादिताः सर्वतो दिशः ॥ ६.८७.२२ ॥

鼓声清亮,与海螺之声交织,四面八方回响着吼声、拍击与呼喊。

6.87.23

ततः शूराः समासाद्य समरे ते परस्परम ।
नेत्रैरनिमिषै राजन्नवैक्षन्त परस्परम् ॥ ६.८७.२३ ॥

于是,大王啊,那些英雄在战场上彼此逼近,以不眨的双眼互相凝视。

6.87.24

मनोभिस्ते मनुष्येन्द्र युद्धं योधाः प्रचक्रिरे ।
पुनराहूय तेऽन्योन्यं शरीरैरपि चक्रिरे ॥ ६.८७.२४ ॥

人中之主啊,战士们以心意展开战斗;随后再次互相挑战,又以身体交战。

6.87.25

ततः प्रववृते युद्धं घोररूपं भयावहम् ।
तावकानां परेषां च निघ्नतामितरेतरम् ॥ ६.८७.२५ ॥

于是开始了一场可怖而令人恐惧的战斗,你方与敌方的人互相击杀。

6.87.26

नाराचा निशिताः सङ्ख्ये संपतन्ति स्म भारत ।
व्यात्तानना भयकरा उरगा इव सङ्घशः ॥ ६.८७.२६ ॥

婆罗多啊,战场上锋利的那罗遮箭成群坠落,如张口的可怖毒蛇。

6.87.27

निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः ।
अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः ॥ ६.८७.२७ ॥

国王啊,经油洗净、明亮锋利的标枪飞出,闪耀如云中的百道闪电。

6.87.28

गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः ।
पतन्त्यस्तत्र दृस्यन्ते गिरिशृङ्गोपमाः शुभाः ॥ ६.८७.२८ ॥

那里可见金饰的铁锤被明亮的带子缠绕着坠落,美如山峰。

6.87.29

निस्त्रिंशाश्च व्यदृश्यन्त विमलाम्बरसन्निभाः ।
आर्षभाणि च चर्माणि शतचन्द्राणि भारतत ॥ ६.८७.२९ ॥

清澈如天空般明亮的剑出现了,婆罗多啊,还有绘有百月纹的牛皮盾牌。

6.87.30

अशोभन्त रणे राजन्पात्यमानानि सर्वशः ।
तेऽन्योन्यं समरे सेने युध्यमाने नराधिप ॥ ६.८७.३० ॥

那两支军队在战场上互相厮杀,四面倒下,光彩照人,人主啊。

6.87.31

अशोभेतां यथा देवदैत्यसेने समुद्यते ।
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः ॥ ६.८७.३१ ॥

如同诸天与阿修罗之军列阵待发时光辉熠熠,它们也闪耀生辉;在战场上,他们从四面八方相互冲向对方。

6.87.32

रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे ।
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः ॥ ६.८७.३२ ॥

在大战中,车手迅速驱车前进;诸王中的雄牛们以车轭相抵而战。

6.87.33

दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत् ।
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतो दिशम् ॥ ६.८७.३३ ॥

从交战之象的摩擦中生出了火;从它们的象牙中,婆罗多中的最优者啊,带烟的火焰向四方蔓延。

6.87.34

प्रासैरभिहताः केचिद्गजयोधाः समन्ततः ।
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव ॥ ६.८७.३४ ॥

一些被长矛击中的象兵,被看到从四面八方坠落,如同树木从山峰上倒下。

6.87.35

पादाताश्चाप्यदृश्यन्त निघ्नन्तोऽथ परस्परम् ।
चित्ररूपधराः शूरा नखरप्रासयोधिनः ॥ ६.८७.३५ ॥

步兵也被看到相互击打;身披各色装束的勇士用指甲和长矛作战。

6.87.36

अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः ।
अस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम् ॥ ६.८७.३६ ॥

库鲁与般度的士兵彼此相遇,在战场上以各种可怖的武器,将彼此送往阎摩之居。

6.87.37

ततः शान्तनवो भीष्मो रथघोषेण नादयन् ।
अभ्यागमद्रणे पार्थान्धनुःशब्देन मोहयन् ॥ ६.८७.३७ ॥

于是,产生于善舍的毗湿摩以战车的轰鸣震响四方,在战场上向般度之子进发,以弓弦的嗡鸣使他们陷入迷惑。

6.87.38

पाण्डवानां रथाश्चापि नदन्तो भैरवं स्वनम् ।
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः ॥ ६.८७.३८ ॥

般度五子的战车也发出可怕的吼声,整装待战,以猛光为首向他们疾冲而去。

6.87.39

ततः प्रववृते युद्धं तव तेषां च भारत ।
नराश्वरथनागानां व्यतिषक्तं परस्परम् ॥ ६.८७.३९ ॥

于是,婆罗多的后裔啊,你的军队与他们之间爆发了激战,人、马、战车与象群彼此交错混杂。