Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.88.1

भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः ।
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम् ॥ ६.८८.१ ॥

在战场上愤怒、四面焚烧的毗湿摩,般度之子无法直视,如同无法直视灼热的太阳。

6.88.2

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः ॥ ६.८८.२ ॥

于是,遵从法之子的命令,所有军队冲向恒河之子,他正用利箭摧毁敌军。

6.88.3

स तु भीष्मो रणश्लाघी तोमकान्सहसृज्जयान् ।
पाञ्चालांश्च महेष्वासान्पातयामास सायकैः ॥ ६.८८.३ ॥

那位以战功自夸的毗湿摩,开始用箭射倒托摩罗人、萨诃斯兰阁耶人以及大弓手般遮罗人。

6.88.4

ते वध्यमाना भीष्मेण पाञ्चालाः पाण्डवैः सह ।
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम् ॥ ६.८८.४ ॥

被毗湿摩杀戮的般遮罗人与般度之子一同抛开死亡的恐惧,迅速冲向毗湿摩。

6.88.5

स तेषां रथिनां वीरो भीष्मः शान्तनवो युधि ।
चिच्छेद सहसा राजन्बाहूनथ शिरांसि च ॥ ६.८८.५ ॥

大王啊!在那些车战勇士中,沙antanu之子毗湿摩英勇地在战斗中瞬间斩断了他们的手臂与头颅。

6.88.6

विरथान्रथिनश्चक्रे पिता देवव्रतस्तव ।
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम् ॥ ६.८८.६ ॥

您的父亲提婆跋陀(毗湿摩)使车战勇士失去战车;骑兵的头颅从马上纷纷坠落。

6.88.7

निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान् ।
अपश्याम महाराज भीष्मास्त्रेण प्रमाथितान् ॥ ६.८८.७ ॥

大王,我们看见被毗湿摩之箭击倒、如山般躺卧、无人驾驭的象群。

6.88.8

न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशांपते ।
अन्यत्र रथिनां श्रेष्ठद्भीमसेनान्महाबलात् ॥ ६.८८.८ ॥

人民之主啊,那里除了最优秀的战车武士、大力的毗摩森那之外,般度之子中再无他人。

6.88.9

स हि भीष्मं समासाद्य छादयामास सायकैः ।
ततो निष्टानको घोरो भीष्मभीमसमागमे ॥ ६.८८.९ ॥

他逼近毗湿摩,以箭将其遮蔽。于是在毗湿摩与毗摩相遇之时,爆发了可怕的喧嚣。

6.88.10

बभूव सर्वसैन्यानां घोररूपो भयानकः ।
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन् ॥ ६.८८.१० ॥

对所有军队而言,那成了可怖骇人的景象;而欢喜的般度之子也同样发出狮子般的吼声。

6.88.11

ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।
भीष्मं जुगोप समरे वर्तमाने जनक्षये ॥ ६.८८.११ ॥

于是,国王难敌被兄弟们环绕,在那场人命丧亡的战斗中保护毗湿摩。

6.88.12

भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः ।
प्रद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः ॥ ६.८८.१२ ॥

然而,战车武士中最优秀的毗摩杀死了毗湿摩的御者;那辆战车的马惊逃,战车四处奔驰。

6.88.13

सुनाभस्य शरेणाशु शिरश्चिच्छेद भारत ।
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ ६.८८.१३ ॥

婆罗多之子啊,他迅速用一支锋利的刀刃箭斩下了苏纳跋的头颅。他被击杀,倒在地上。

6.88.14

हते तस्मिन्महाराज तव पुत्रे महारथे ।
नामृष्यन्त रणे शूराः सोदराः सप्त संयुगे ॥ ६.८८.१४ ॥

大王啊,当您那位大车士之子在战斗中被杀,他的七位兄弟英雄们在战斗中无法忍受。

6.88.15

आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः ।
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः ॥ ६.८८.१५ ॥

阿底耶氏、巴赫伐施、军陀达罗、摩诃陀罗、无胜、班迪塔迦、广目与苏耶遮。

6.88.16

पाण्डवं चित्रसन्नाहा विचित्रकवचध्वजाः ।
अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः ॥ ६.८८.१६ ॥

他们身披华丽甲胄,旗帜斑斓,渴望战斗,是敌人的摧毁者,在战斗中向般度之子冲去。

6.88.17

महोदरस्तु समरे भीमं विव्याध पत्रिभिः ।
नवभिर्वद्रसंकाशैर्नमुचिं वृत्रहा यथा ॥ ६.८८.१७ ॥

摩诃陀罗在战斗中以九支如雷霆般的箭射中了毗摩,正如杀死弗栗多的因陀罗射中了那木then。

6.88.18

आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः ।
नवत्या कुण्डधारश्च विशालाक्षश्च पञ्चभिः ॥ ६.८८.१८ ॥

阿底耶氏以七十箭,巴赫伐施也以五箭,军陀达罗以九十箭,广目以五箭(射中)。

6.88.19

अपराजितो महाराज पराजिष्णुर्महारथम् ।
शरैर्बहुभिरानर्च्छद्भीमसेनं महाबलम् ॥ ६.८८.१९ ॥

大王啊,阿波罗阇多与波罗阇湿努以众多箭矢攻击了大力的毗摩那,那位大车战士。

6.88.20

रणे पण्डितकश्चैनं त्रिभिर्बाणैः समार्पयत् ।
स तं न ममृषे भीमः शत्रुभिर्वधमाहवे ॥ ६.८८.२० ॥

在战斗中,班迪塔卡以三支箭射中了他。毗摩不能忍受敌人在战场上的这一攻击。

6.88.21

धनुः प्रपीड्य वामेन करेणामित्रकर्सनः ।
शिरश्चिच्छेद समरे शरेणानतपर्वणा ॥ ६.८८.२१ ॥

用左手紧压弓身,这位制服敌人者在战场上以一支节部弯曲的箭斩下了他的头颅。

6.88.22

अपराजितस्य सुनसं तव पुत्रस्य संयुगे ।
पराजितस्य भीमेन कृत्तं गामपतच्छिरः ॥ ६.८८.२२ ॥

在战斗中,你的儿子阿波罗阇多被毗摩所败,那颗有美丽鼻子的头颅被斩下,落在地上。

6.88.23

अथापरेण भल्लेन कुण्डधारं महारथम् ।
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः ॥ ६.८८.२३ ॥

接着,他以另一支婆罗箭,在众人注视之下,将大车战士昆陀陀罗送往死亡之境。

6.88.24

ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम् ।
प्रेषयामास समरे पण्डितं प्रति भारत ॥ ६.८८.२४ ॥

然后,那位心志无量者搭上箭,婆罗多啊,在战斗中射向班迪塔。

6.88.25

स शरः पण्डितं हत्वा विवेश धरणीतलम् ।
यथा नरं निहत्याशु भुजगः कालचोदितः ॥ ६.८८.२५ ॥

那支箭射倒班底多,钻入大地之中,如被时间驱使的毒蛇咬了人,迅速没入地下。

6.88.26

विशालाक्षशिरश्छित्त्वा पातयामास भूतले ।
त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम् ॥ ६.८८.२६ ॥

他斩下那大眼者的头颅,使其倒伏于地;以无畏之心,追念往昔的苦楚,他用三支箭完成了这一击。

6.88.27

महोदरं महेष्वासं नाराचेन स्तनान्तरे ।
विव्याध समरे राजन्स हतो न्यपतद्भुवि ॥ ६.८८.२७ ॥

大王啊,他在战场上以铁箭射穿了那大肚子的大弓手的胸膛;他被杀死,倒落于地。

6.88.28

आदित्यकेतोः केतुं च च्छित्त्वा बाणेन संयुगे ।
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद भारत ॥ ६.८८.२८ ॥

在战斗中,他以箭斩断了阿提耶克图的旗帜,又以极为锋利的薄箭斩下了他的头颅,婆罗多啊。

6.88.29

बह्वाशिनं तत भीमः शरेणानतर्वणा ।
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥ ६.८८.२९ ॥

于是愤怒的毗摩以不失之箭,将那大食者送往阎摩的住所。

6.88.30

प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशांपते ।
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम् ॥ ६.८८.३० ॥

于是,人主啊,你的其他儿子们逃散了,他们认为他在议会中所说的话确是真实的。

6.88.31

ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः ।
अब्रवीत्तावकान्योधान्भीमोऽयं वध्यतामिति ॥ ६.८८.३१ ॥

于是国王难敌因兄弟的灾难而憔悴,对你的战士们说:“让这个怖军被杀死吧。”

6.88.32

एवमेते महेष्वासाः पुत्रास्त्व विशांपते ।
भ्रातॄन्संदृश्य निहतान्प्रस्मरंस्ते हि तद्वचः ॥ ६.८८.३२ ॥

如此,人主啊,你那些大弓箭手之子见到被杀的兄弟,便想起了那番话。

6.88.33

यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम् ।
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः ॥ ६.८८.३३ ॥

那位大智慧的刹埵(毗杜罗)所说的有益而无害的话,那位具天眼者的话,如今已经应验了。

6.88.34

लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप ।
न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत् ॥ ६.८८.३४ ॥

人主啊,你被贪婪和迷惑所控制,因爱子之情,先前未能领悟那真实而重大的话语。

6.88.35

तथैव च वधार्थाय पुत्राणां पाण्डवो बली ।
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान् ॥ ६.८८.३५ ॥

同样,强大的般度之子、大臂者,必定为杀害你的儿子们而生;他杀死俱卢族人。

6.88.36

ततो दुरयोधनो राजा भीष्ममासाद्य संयुगे ।
दुःखेन महताऽऽविष्टो विललाप सुदुःखितः ॥ ६.८८.३६ ॥

于是国王难敌来到战场上的毗湿摩身边,被巨大的悲痛所笼罩,极度哀伤地悲叹起来。

6.88.37

निहता भ्रातरः शूरा भीमसेनेन मे युधि ।
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः ॥ ६.८८.३७ ॥

在战斗中,毗摩先那杀死了我英勇的兄弟,还有其他奋战的人;所有士兵都在被杀。

6.88.38

भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते ।
सोऽहं कुपथमारूढः पश्य दैवमिदं मम ॥ ६.८८.३८ ॥

您总是以中立者自居而冷落我们;而我已踏上邪路——看吧,这就是我的命运。

6.88.39

एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव ।
दुर्योधनमिदं वाक्यमब्रवीत्समाश्रुलोचनः ॥ ६.८८.३९ ॥

听到这些残酷的话,你的父亲提婆跋多(毗湿摩)含泪对难敌说了这番话。

6.88.40

उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च ।
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान् ॥ ६.८८.४० ॥

此事我先前已说过,德罗纳、维杜罗和贤明的甘陀利也说过;孩子,你没有领悟真理。

6.88.41

समयश्च मया पूर्वं कृतो वै शत्रुकर्शन ।
नाहंयुधि नियोक्तव्यो नाप्याचार्यः कथंचना ॥ ६.८८.४१ ॥

噢,敌人的折磨者,我先前立下约定:我绝不可在战斗中被任用,老师(德罗纳)也不可。

6.88.42

यय हि धर्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे ।
हनिष्यति रणे नित्यं सत्यमेतद्ब्रवीमि ते ॥ ६.८८.४२ ॥

毗摩将在战斗中见到持国之子,并在战场上不断杀死他们——我如实对你说。

6.88.43

स त्वं राजन्स्थिरो भूत्वा रणे कृत्वा दृढां मतिम् ।
योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम् ॥ ६.८८.४३ ॥

国王啊,你要坚定,在战斗中下定决心,以天界为最高归宿,与般度之子作战。

6.88.44

न शक्यः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः ।
तस्माद्युद्धे स्थिरां कृत्वा मतिं युद्ध्यस्व भारत ॥ ६.८८.४४ ॥

即使天神与阿修罗加上因陀罗,也不能战胜般度五子。因此,婆罗多啊,要在战斗中坚定决心而战。