Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.89

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.89.1

दृष्ट्वा मे निहतान्पुत्रान्बहूनेकेन सञ्जय ।
भीष्मो द्रोणः कृपश्चैव किमकुर्वत संयुगे ॥ ६.८९.१ ॥

桑闍耶啊,见我众多儿子竟被一人所杀,毗湿摩、德罗纳与钶巴在战场上做了什么?

6.89.2

अहन्यहनि मे पुत्राः क्षयं गच्छन्ति सञ्जय ।
मन्येऽहं सर्वथा पुत्रान्दैवेनोपहतान्भृशम् ॥ ६.८९.२ ॥

桑闍耶啊,我的儿子们日复一日走向毁灭。我想,我的儿子们确实被命运彻底而严重地击倒了。

6.89.3

यत्र मे तनयाः सर्वे जीयन्ते न जयन्त्युत ।
यत्र भीष्मस्य द्रोणस्य कृपस्य च महात्मनः ॥ ६.८९.३ ॥

我的众子皆败北而不得胜之处,有大心的毗湿摩、德罗纳与钶巴所在之地——

6.89.4

सौमदत्तेश्च वीरस्य भगदत्तस्य चोभयोः ।
अश्वत्थाम्नस्तथा तात शूराणामनिवर्तिनाम् ॥ ६.८९.४ ॥

英雄索摩达塔之子,英雄跋伽达多二人,还有阿湿婆他摩,孩子啊,以及从不退缩的诸勇士——

6.89.5

अन्येषां चैव शूराणां मध्यगास्तनया मम ।
यदहन्यन्त संग्रामे किमन्यद्भागधेयतः ॥ ६.८९.५ ॥

我的儿子们置身于其他勇士之中,却在战斗中被杀——除了命运,还能有什么别的缘由呢?

6.89.6

न हि दुर्योधनो मन्दः पुरा प्रोक्तमबुध्यत ।
वार्यमाणो मया तात भीष्मेण विदुरेण च ॥ ६.८९.६ ॥

愚昧的难敌未曾理解先前所说的话,孩子啊,尽管我、毗湿摩与毗杜罗都曾阻止他。

6.89.7

गन्धार्या चैव दुर्मेधाः सततं हितकाम्यया ।
नाबुध्यत पुरा मोहात्तस्य प्राप्तमिदं फलम् ॥ ६.८९.७ ॥

甘陀利常常怀着对他的善意劝告,但这愚钝之人因迷惑,先前未能领悟;如今他得到的便是这个果报。

6.89.8

यद्भीमसेनः समरे पुत्रान्मम विचेतसः ।
अहन्यहनि संक्रुद्धो नयते यमसादनम् ॥ ६.८९.८ ॥

毗摩先那在战中愤怒,日复一日地把我那心智迷乱的儿子们送往阎摩之居。

6.89.9

इदं तत्समनुप्राप्तं क्षत्तुर्वचनमुत्तमम् ।
न बुद्धवानस्मि विभो प्रोच्यमानमिदं तदा ॥ ६.८९.९ ॥

主啊,刹帝(维杜罗)这些上好的言语如今已完全降临于我;当时说出时,我并未领会。

6.89.10

निवारय सुतं द्यूतात्पाण्डवान्मा द्रुहेति च ।
सुहृदां हितकामानां ब्रुवतां तत्तदेव च ॥ ६.८९.१० ॥

“要阻止你的儿子赌博;不要伤害般度之子”——那些愿他好的朋友所说的,正是这些。

6.89.11

न शृणोमि पुरा वाक्यं मर्त्यः पथ्यमिवौषधम् ।
तदिदं समनुप्राप्तं वचनं साधु भाषितम् ॥ ६.८९.११ ॥

从前我不听那话,就像凡人不听有益的药一样;那些说得好的话,如今已降临于我。

6.89.12

विदुरद्रोणभीष्माणां तथाऽन्येषां हितैषिणाम् ।
अकृत्वा वचनं पथ्यं क्षयं गच्छन्ति कौरवाः ॥ ६.८९.१२ ॥

俱卢族人不听维杜罗、德罗纳、毗湿摩及其他善意者有益的话语,正走向毁灭。

6.89.13

तदेतत्समतिक्रान्तं पूर्वमेव हि सञ्जय ।
तस्मान्मे वद तत्त्वेन यथा युद्धमवर्तत ॥ ६.८९.१३ ॥

桑闍耶啊,那已经过去了。所以请如实告诉我战斗是如何进行的。

6.89.14

मध्याह्ने मुमहारौद्रः संग्रामः समुपद्यत ।
लकक्षयकरो राजंस्तन्मे निगदतः शृणु ॥ ६.८९.१४ ॥

正午时分,爆发了极其惨烈的战斗,大王啊,它造成了人众的毁灭。请听我讲述。

6.89.15

ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात् ।
संरब्धान्यभ्यवर्तन्त भीष्ममेव जिघांसया ॥ ६.८९.१५ ॥

于是,依法王之子的命令,所有军队怒火中烧,唯独冲向毗湿摩,意欲杀他。

6.89.16

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।
युक्तानीका महाराज भीष्ममेव समभ्ययुः ॥ ६.८९.१६ ॥

大王啊,猛将檀瑟玛、室建底,以及大车将萨迭吉,率领列阵的军队,直奔毗湿摩而去。

6.89.17

विराटो द्रुपदश्चैव सहिताः सर्वसोमकैः ।
अभ्यद्रवन्त संग्रामे भीष्ममेव महारथम् ॥ ६.८९.१७ ॥

毗罗吒与德鲁帕达与全体索摩迦人一同,在战斗中直扑大车将毗湿摩。

6.89.18

केकया धृष्टकेतुश्च कुन्तिभोजश्च दंशितः ।
शुक्तानीका महाराज भीष्ममेव समभ्ययुः ॥ ६.८९.१८ ॥

大王啊,甲胄齐整的甘迦族人、猛剑檀瑟玛(达利斯塔克图)与坤蒂婆阇,率领列阵的军队,直奔毗湿摩而去。

6.89.19

अर्जुनो द्रौपदश्चैव कुन्तिभोजश्च दंशितः ।
दुर्योधनसमादिष्टान्राज्ञः सर्वान्समभ्ययुः ॥ ६.८९.१९ ॥

阿周那、德罗波蒂之子与贡提跋阳,披甲而进,冲向奉难敌之命而来的所有国王。

6.89.20

अभिमन्युस्तथा शूरो हैडिम्बश्च महारथः ।
भीमसेनश्च संक्रुद्धस्तेऽभ्यधावन्त कौरवान् ॥ ६.८९.२० ॥

英勇的阿毗曼纽、希丁芭之子(迦陀迦)、大车战士,以及愤怒的毗摩森,冲向俱卢族人。

6.89.21

त्रिधाभूतैरवध्यन्त पाण्डवैः कौरवा युधि ।
तथैव कौरवै राजन्नवध्यन्त परे रणे ॥ ६.८९.२१ ॥

大王啊,俱卢族人被分成三路的般度族人在战中击杀;同样,敌人也被俱卢族人在战场上击杀。

6.89.22

द्रोणस्तु रथिनां श्रेष्ठः सोमकान्सृञ्जयैः सह ।
अभ्यधावत संक्रुद्धः प्रेषयिष्यन्यमक्षयम् ॥ ६.८९.२२ ॥

战车手中最优秀的德罗纳愤怒地与索摩迦人和斯林遮耶人一起冲向他们,仿佛要把他们送往阎摩的住所。

6.89.23

तत्राक्रन्दो महानासीत्सृञ्जयानां महात्मानाम् ।
वध्यतां समरे राजन्भारद्वाजेन धन्विना ॥ ६.८९.२३ ॥

大王啊,在那里,高尚的斯林遮耶人中爆发出巨大的哀号,因为他们正被持弓的婆罗堕遮之子(德罗纳)在战场上杀戮。

6.89.24

द्रोणेन निहतास्तत्र क्षत्रिया बहवो रणे ।
विचेष्टन्तो हृदृश्यन्त व्याधिक्लिष्टा वरा इव ॥ ६.८९.२४ ॥

在那里,许多被德罗纳在战场上杀死的刹帝利者可见正在挣扎翻滚,好似被疾病折磨的贤良之人。

6.89.25

कूजतां क्रन्दतां चैव स्तनतां चैव भारत ।
अनिशं शुश्रुवे शब्दः क्षुत्क्लिष्टानां नृणामिव ॥ ६.८९.२५ ॥

婆罗多啊,呻吟、哭号和叹息之声不绝于耳,就像饥饿折磨下的人们发出的哀声。

6.89.26

तथैव कौरवेयाणां भीमसेनो महाबलः ।
चकार कदनं घोरं क्रुद्धः काल इवापरः ॥ ६.८९.२६ ॥

同样,大力的毗摩娑那在俱卢族人中造成了可怕的杀戮;他愤怒之时,宛如另一位死神迦罗。

6.89.27

वध्यतां तत्र सैन्यानामन्योन्येन महारणे ।
प्रावर्तत नदी घोरा रुधिरौघपरवाहिनी ॥ ६.८९.२७ ॥

在那场大战中,两军相互残杀,一条可怕的河流开始流动,携带着汹涌的血流。

6.89.28

स संग्रामो महाराज घोररूपोऽभवन्महान् ।
कुरूणां पाणडवानां च यमराष्ट्रविवर्धनः ॥ ६.८९.२८ ॥

大王啊,那场大战在俱卢族与般度族之间呈现出可怕的景象,扩大了阎摩的领地。

6.89.29

ततो भीमो रणे क्रुद्धो रभसश्च विशेषतः ।
गजानीकं समासाद्य प्रेषयामास मृत्यवे ॥ ६.८९.२९ ॥

于是毗摩在战斗中愤怒,尤其是狂奔冲击,抵达象军,把它们送往死亡。

6.89.30

तत्र भारत भीमेन नाराचाभिहता गजाः ।
पेतुर्नेदुश्च सेदुश्च दिशश्च परिबभ्रमुः ॥ ६.८९.३० ॥

婆罗多啊,在那里,被毗摩的铁箭射中的象群倒下了,嘶鸣着,瘫倒下来,又向四面八方奔走。

6.89.31

छिन्नहस्ता महानागाश्छिन्नगात्राश्च मारिष ।
क्रौञ्चवद्व्यनदन्भीताः पृथिवीमधिशेरते ॥ ६.८९.३१ ॥

断鼻的大象,身体残破,哦尊贵者,它们惊恐地像鹤一样鸣叫,躺卧在大地上。

6.89.32

नकुलः सहदेवश्च हयानीकमभिद्रुतौ ।
ते हयाः काञ्चनापीडा रुक्मभाण्डपरिच्छदाः ॥ ६.८९.३२ ॥

那古拉与萨哈德瓦冲向马军;那些马佩戴着金额饰,配有镶金的鞍具。

6.89.33

वध्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ।
पतिद्भिस्तुरगै राजन्समास्तीर्यत मेदिनी ॥ ६.८९.३३ ॥

它们成百上千地被杀,可以看见;哦王,大地被倒下的马匹所覆盖。

6.89.34

निर्जिह्वैश्च श्वसद्भिश्च कूजद्भिश्च गतासुभिः ।
हयैर्बभौ नरश्रेष्ठ नानारूपधरैर्धरा ॥ ६.८९.३४ ॥

舌头伸出,喘息嘶鸣,失去生命的马匹,哦人中之最,大地呈现出种种形状。

6.89.35

अर्जुनेन हतैः सङ्ख्ये तथा भारत राजभिः ।
प्रबभौ वसुधा घोरा तत्रतत्र विशांपते ॥ ६.८९.३५ ॥

在战场上被阿周那及诸王所杀,哦婆罗多,哦人主,可怕的大地到处闪耀。

6.89.36

रथैर्भग्नैर्ध्वजैश्छिन्नैर्निकृत्तैश्च महायुधैः ।
चामरैर्व्यजनैश्चैव च्छत्रैश्च सुमहाप्रभैः ॥ ६.८९.३६ ॥

破碎的战车,断裂的旗帜,被砍断的大武器,牦牛尾拂尘,扇子和极其华丽的伞盖,大地闪耀。

6.89.37

हरैर्निष्कैः सकेयूरैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैरपविद्धैश्च पताकाभिश्च सर्वशः ॥ ६.८९.३७ ॥

金项链、金饰、臂钏、带耳环的头颅、被抛弃的头巾和旗幡,遍布各处。

6.89.38

अनुकर्षैः शुभै राजन्योक्रैश्चैव सरश्मिभिः ।
संकीर्णा वसुधा भाति वसन्ते कुसुमैरिव ॥ ६.८९.३८ ॥

大王啊,大地上散落着精美的轭、辕与缰绳,闪耀如同春天被花朵覆盖。

6.89.39

एवमेष क्षयो वृत्तः पाण्डूनामपि भारत ।
क्रुद्धे शान्तनवे भीष्मे द्रोणे च रथसत्तमे ॥ ६.८९.३९ ॥

婆罗多的后裔啊,当山countanu之子毗湿摩与最优秀的战车武士德罗纳愤怒之时,般度之子们也遭受了如此的毁灭。

6.89.40

अश्वत्थाम्नि कृपे चैव तथैव कृतवर्मणि ।
तथेतरेषु क्रुद्धेषु तावकानामपि क्षयः ॥ ६.८९.४० ॥

同样,当阿摄婆多摩、克里帕、克里塔瓦尔曼以及其他愤怒的勇士怒起之时,你的一方也遭受了毁灭。