Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.91

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.91.1

इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः ।
संग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ ६.९१.१ ॥

桑闍耶啊,看到伊罗婆多被杀,大车武士般的般度之子们在战场上做了什么?请告诉我。

6.91.2

इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः ।
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः ॥ ६.९१.२ ॥

罗刹瘦托迦(比玛塞那之子)见伊罗婆多在战场上被杀,发出巨大的吼声。

6.91.3

नदतस्तस्य शब्देन पृथिवी सागराम्बरा ।
सपर्वतवना राजंश्चचाल सुभृशं तदा ॥ ६.९१.३ ॥

随着他的吼声,以海洋为衣的大地,连同山岳与森林,大王啊,当时剧烈地震动起来。

6.91.4

अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा ।
चेलुश्च सहसा तत्र तेन नादेन नादिताः ॥ ६.९१.४ ॥

天空、所有方位与次方位,被那吼声所震,在那里骤然颤动起来。

6.91.5

तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ।
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च। ॥ ६.९१.५ ॥

婆罗多啊,你的军队听到那极大的吼声后,大腿僵硬,颤抖和汗水也随之而生。

6.91.6

सर्व एव महाराज तावका दीनचेतसः ।
सर्वतः समचेष्टन्त सिंहभीता गजा इव । ॥ ६.९१.६ ॥

大王啊,你的所有人马心神沮丧,四处慌乱挣扎,好像被狮子惊吓的大象。

6.91.7

नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ।
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम् । ॥ ६.९१.७ ॥

罗刹发出如霹雳般的巨大吼声,高举燃烧的长矛,化作可怖的形貌。

6.91.8

नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ।
आजघान सुसंक्रुद्धः कालान्तकयमोपभः । ॥ ६.९१.८ ॥

被众多形态各异兵器的罗刹勇将包围,他极其愤怒,如死神、灭神与阎摩一般,发起攻击。

6.91.9

तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम् । ॥ ६.९१.९ ॥

看到他愤怒而可怖地冲来,他自己的军队因畏惧他,大多转身逃避。

6.91.10

ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ।
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः । ॥ ६.९१.१० ॥

于是国王难敌持大弓,如狮子般反复吼叫,冲向迦托迦。

6.91.11

पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ।
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम् ॥ ६.९१.११ ॥

在后面跟随他的,是一万头如山般、淌着汁液的大象,还有羯陀国之主亲自率领。

6.91.12

पुत्रं तव महाराज चुकोप स निशाचरः ।
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ ६.९१.१२ ॥

大王啊,那夜游者对您的儿子大怒,于是开始了一场喧嚣而令人毛骨悚然的战斗。

6.91.13

राक्षसानां च राजेन्द्र दुर्योधनबलस्य च ।
गजानीकं च संप्रेक्ष्य मेघबृन्दमिवोदितम् ॥ ६.९१.१३ ॥

啊,诸王之王!看见罗刹与难敌的军队,以及如升起的云团般的象军,

6.91.14

अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः ।
नदन्तो विविधान्नादान्मेघा इव सविद्युतः ॥ ६.९१.१४ ॥

愤怒的罗刹手持兵器冲上前去,发出各种吼声,如同电闪的云团。

6.91.15

शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः ।
भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वथैः ॥ ६.९१.१५ ॥

以箭、矛、投枪和铁箭击杀象兵,又以铁投枪、三叉戟、铁棒和斧钺击杀。

6.91.16

पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् ।
भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान् ॥ ६.९१.१६ ॥

他们以山峰和树木击倒大象,那些象额破裂、浴血、身体残破。

6.91.17

अपश्याम महाराज वध्यमानान्निशाचरैः ।
तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु ॥ ६.९१.१७ ॥

大王啊,我们看见象兵被罗刹杀戮,在他们之中被毁灭、溃散。

6.91.18

दुर्योधनो महाराज राक्षसान्समुपाद्रवत् ।
अमर्षवशमापन्नस्त्यक्त्वा जीवितात्मनः ॥ ६.९१.१८ ॥

大王啊,难敌被愤怒所控,舍弃自身性命,冲向罗刹。

6.91.19

मुमोच निशितान्बाणान्राक्षसेषु परंतप ।
जघान च महेष्वासः प्रधानांस्तत्र राक्षसान् ॥ ६.९१.१९ ॥

噢,摧敌者啊,他向罗刹射出锐利的箭,那位大弓手在那里射倒了他们的首领。

6.91.20

संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव ।
वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम् ॥ ६.९१.२० ॥

婆罗多之最啊,你的儿子难敌愤怒了,他转向那迅疾、极其恐怖、舌如闪电的折磨者。

6.91.21

शरैश्चतुर्भिश्चतुरो निजघान महाबलः ।
ततः पुनरमेयात्मा शरवर्षं दुरासदम् ॥ ६.९१.२१ ॥

这位大力者以四支箭射倒四人;随后,那心灵不可测量的他,降下了无法抵挡的箭雨。

6.91.22

मुमोच भरतश्रेष्ठो निशाचरबलं प्रति ।
तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष ॥ ६.९१.२२ ॥

婆罗多之最向夜行者的军队射出箭矢;而见到你儿子的那一伟大功业,尊贵者啊——

6.91.23

क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः ।
स विष्फार्य महच्चापमिन्द्राशनिसमप्रभम् ॥ ६.९१.२३ ॥

那位大力的毗摩森之子因愤怒而炽烈燃烧;他拉满那张如因陀罗雷霆般闪耀的大弓——

6.91.24

अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् ।
तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम् ॥ ६.९१.२४ ॥

他迅猛地冲向敌人的征服者难敌;见他前来,犹如时间所遣的死神——

6.91.25

न विव्यथे महाराज पुत्रो दुर्योधनस्तव ।
अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः ॥ ६.९१.२५ ॥

大王啊,你的儿子难敌并未动摇。于是他愤怒、残酷,双目通红,对他说道。

6.91.26

अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च ।
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः ॥ ६.९१.२६ ॥

今天我将偿还对父亲们与母亲的债务,你这最残酷之人,长期使他们流亡在外。

6.91.27

यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः ।
यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला ॥ ६.९१.२७ ॥

大王啊,潘杜之子在那场诡诈的骰子赌局中被你击败,而月经中的黑女(黑天之妹)只穿着一件衣服,

6.91.28

सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया ।
तव च प्रियकामेन आश्रमस्था दुरात्मना ॥ ६.९१.२८ ॥

恶念之人啊,你将她带到议会大厅,多方折磨她;那心术不正、想要讨好你的恶人,也在她居住于林中修道处时侵扰了她。

6.91.29

सैन्धवेन परामृष्टा परिभूय पितॄन्मम ।
एतेषामपमानानामन्येषां च कुलाधम ॥ ६.९१.२९ ॥

她被信度王所侮辱、粗暴对待,我的先人也遭到羞辱。低贱之人啊,为了这些侮辱以及他人的侮辱,我将报复。

6.91.30

अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम् ।
एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम् ॥ ६.९१.३० ॥

如果你不放弃战斗,今天我将走向终结。希丁巴之子说完这些,便拉开了他那巨大的弓。

6.91.31

संदश्य दशनैरोष्ठं सृकिणी परिसंलिहन् ।
शरवर्षेण महता दुर्योधनमवाकिरत्।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ६.९१.३१ ॥

他咬紧牙齿,舔着嘴角,用大量箭雨倾泻向难敌,如同雨季的云层以水流覆盖山岳。