摩诃婆罗多 · 章 6.93
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.93.1
विमुखीकृत्य वर्सांस्तु तावकान्युधि राक्षसः ।
जिघांसुभरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥ ६.९३.१ ॥
婆罗多之最啊!罗刹在战场上使你的部队溃退,怀着杀意向难敌冲去。
6.93.2
तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् ।
अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाःक ॥ ६.९३.२ ॥
看到他向国王疾速冲来,你那些沉醉于战斗狂热的战士,怀着杀意向他扑去。
6.93.3
तालमात्राणि चापानि विकर्षन्तो महारथाः ।
तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत् ॥ ६.९३.३ ॥
拉开如棕榈树般长的弓,像狮群一样怒吼,大战车武士们向他这一人冲去。
6.93.4
अथैनं शरवर्षेण समन्तात्पर्यवाकिरन् ।
पर्वतं वारिधाराभिः शरदीव वलाहकाः ॥ ६.९३.४ ॥
于是,就像秋云以水流覆盖山峰一样,他们从四面以箭雨将他淹没。
6.93.5
स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः ।
उत्पपात तदाऽऽकाशं समन्ताद्वैनतेयवत् ॥ ६.९३.५ ॥
他身中深箭,痛苦不堪,如同被象钩刺痛的大象,随即像迦楼罗一样从四面向天空跃起。
6.93.6
व्यनदत्सुमहानादं जीमूत इव शारदः ।
दिशः खं विदिशश्चैव नादयन्भैरवस्वनः ॥ ६.९३.६ ॥
他发出巨大吼声,如同秋季的雨云,以可怖的声音震荡四方、天空与各个方位。
6.93.7
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।
उवाच भरतश्रेष्ठ भीमसेनमरिन्दमम् ॥ ६.९३.७ ॥
国王坚战听到罗刹的那声音,对婆罗多最优秀的、制敌者怖军说道。
6.93.8
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः ।
यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम् ॥ ६.९३.८ ॥
罗刹必定正在与持明的大车战士,即持国之子们交战,因为能听到他那可怕吼叫的声音。
6.93.9
अतिभारं च पश्यामि तस्मिन्राक्षसपुङ्गवे ।
पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः ॥ ६.९३.९ ॥
我看见那位罗刹之首身负沉重的负担,而祖父也怒气冲冲,准备杀害般遮罗人。
6.93.10
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ।
एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम् ॥ ६.९३.१० ॥
为保护他们,法尔古那正与敌人作战。知道此事后,啊,大臂者,两件任务已摆在面前。
6.93.11
गच्छ रक्षस्व हैडिम्बं शंशयं परमं गतम् ।
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ॥ ६.९३.११ ॥
去保护陷入极大危险的希迪姆芭之子(Ghaṭotkaca,罗刹鲸腹)。怖军领会了兄长的话,急速前往。
6.93.12
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ।
वेगेन महता राजन्पर्वकाले यथोदधिःक ॥ ६.९३.१२ ॥
他以狮吼之声奔赴而去,震慑所有的国王,以巨大的速度,啊,国王,如同满月潮时的大海。
6.93.13
तमन्वगात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ ६.९३.१३ ॥
真实坚定者、在战斗中狂喜的索奇提、室利尼曼、婆苏陀那,以及迦尸王之子阿毗部,都紧随着他。
6.93.14
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः ।
क्षत्रदेवश्च विक्रन्तः क्षत्रधर्मा तथैव च ॥ ६.९३.१४ ॥
以阿毗摩u为首的德劳跋蒂诸子大车武士,勇猛的刹提提婆,以及同样的刹提达磨。
6.93.15
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः ।
महता रथवंशेन हैडिम्बं पर्यवारयन् ॥ ६.९३.१५ ॥
阿奴波国之主那罗也率自己的军队屹立,以大批战车包围了希丁巴之子(罗提迦)。
6.93.16
कुञ्चरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिःक ।
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥ ६.९३.१६ ॥
与六千头发情、冲撞的象群一同,他们始终护卫着罗刹之王乔托迦。
6.93.17
सिंहनादेन महता नेमिघोषेण चैव ह ।
खुरशब्दनिपातैश्च कम्पयन्तो वसुंधराम् ॥ ६.९३.१७ ॥
以巨大的狮吼、车轮的轰鸣和马蹄的踏声,震动着大地。
6.93.18
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् ।
भीमसेनभयोद्विग्नं विवर्णवदनं तथा ॥ ६.९३.१८ ॥
听到他们冲锋的声响,你的军队因畏惧怖军而惊惶,面色都变得苍白。
6.93.19
परिवृत्य महाराज परित्यज्य घटोत्कचम् ।
ततः प्रववृते युद्धंक तत्र तेषां महात्मनाम् ॥ ६.९३.१९ ॥
大王啊,他们舍弃了迦托迦查,将他包围;于是那些大德之人之间展开了激战。
6.93.20
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् ।
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ॥ ६.९३.२० ॥
你方与敌方的那些在战斗中不退缩的大车战士,投掷着各种形状的兵器。
6.93.21
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ।
व्यतिष्यक्तं महारौद्रं युद्धं भीरुभयावहम् ॥ ६.९३.२१ ॥
彼此冲杀,他们展开了激烈的搏斗;那场交织混杂、极其可怖的战斗,令怯懦者胆寒。
6.93.22
हया हयैः समाजग्मुः पादाताश्च पदातिभिः ।
रथा रथैः समागच्छन्नागा नागैश्च संयुगे
अन्योन्यं समरे राजन्प्रार्थयानाः समभ्ययुः ॥ ६.९३.२२ ॥
骑兵与骑兵相遇,步兵与步兵相遇,车与车相遇,象与象在战斗中相遇;大王啊,彼此寻求对战,他们相向而进。
6.93.23
सहसा चाभवत्तीव्रं सन्निपातन्महद्रजः ।
गजाश्वरथपत्तीनां पादनेमिसमुद्धतम् ॥ ६.९३.२३ ॥
突然间,一片浓烈的大尘土升起,那是象、马、车和步兵的脚以及车轮边缘在冲撞的拥挤中扬起的。
6.93.24
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् ।
नैव स्वे न परे राजन्समजानन्परस्परम् ॥ ६.९३.२४ ॥
烟雾般泛红的浓烈尘土笼罩了战场;大王啊,他们既不能辨认自己人,也不能辨认敌人,彼此之间都认不出来。
6.93.25
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा ।
निर्मर्यादे तथाभूते वैशसे रोमहर्षणे ॥ ६.९३.२५ ॥
在那无边无际、令人毛骨悚然的屠杀中,父不识子,子亦不识父。
6.93.26
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च र्जताम् ।
सुमहानभवच्छब्दः प्रेतानामिव भारत ॥ ६.९३.२६ ॥
婆罗多族中最优秀的人啊,兵器与嘶喊的人群发出巨大的喧嚣,犹如亡灵的哀嚎。
6.93.27
गजवाजिमनुष्याणां शोणितान्रतरङ्गिणी ।
प्राववर्तत नदी तत्र केशशैवलशाद्वला ॥ ६.९३.२७ ॥
那里流出一条血浪之河,由象、马与人的血汇成,河中的头发如水藻与青草。
6.93.28
नराणां चैव कायेभ्यः शिरसां पततां रणे ।
शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव ॥ ६.९३.२८ ॥
战场上倒下的人的躯体与头颅,发出巨大的声响,犹如坠落的石块。
6.93.29
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः ।
अश्वैः संभिन्नदेहैश्च संकीर्णाऽभूद्वसुंधरा ॥ ६.९३.२९ ॥
大地被无头的人、断肢的象和躯体破碎的马所覆盖。
6.93.30
नानाविधानि शस्त्राणि विसृजन्तो महारथाः ।
अन्योन्यमभिधावन्तः संप्रहारार्थमुद्यताः ॥ ६.९३.३० ॥
大车将们投掷各种兵器,相互冲杀,急于交锋。
6.93.31
हया हयान्समासाद्य प्रेषिता हयसादिभिः ।
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥ ६.९३.३१ ॥
马匹由骑士驱使冲向敌马,在战场上彼此撞击,失去生命而倒下。
6.93.32
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् ।
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥ ६.९३.३२ ॥
怒目通红的战士猛烈地扑向战士,胸膛相抵,彼此击杀。
6.93.33
प्रेषिताश्च महामात्रैर्वारणाः परवारणैः ।
अभ्यघ्नन्त विषणाग्रैर्वारणानेव संयुगे ॥ ६.९३.३३ ॥
被大象驭者驱使的象群冲向敌象,在战斗中以象牙尖刺向的正是象群本身。
6.93.34
ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः ।
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ ६.९३.३४ ॥
浑身流血,饰以旗帜,彼此纠缠,看上去如同闪电交加的乌云。
6.93.35
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त गर्जमाना धना इव ॥ ६.९३.३५ ॥
有的被象牙尖刺穿,有的被投枪刺破额头,它们吼叫着冲去,如同雷鸣的乌云。
6.93.36
केचिद्धस्तैर्द्विधाच्छिन्नैश्छिन्नगात्रास्तथाऽपरे ।
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥ ६.९३.३६ ॥
有的象鼻被斩成两段,有的肢体被砍断,在那一片喧嚣中倒下,如同断了翅膀的山岳。
6.93.37
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः ।
मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥ ६.९३.३७ ॥
其他被撕裂侧腹的良象大量流血,如同山岳涌出矿脉。
6.93.38
नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त विशृङ्गा इव पर्वताः ॥ ६.९३.३८ ॥
其他被铁箭射杀、被标枪刺穿的象,吼叫着冲上前去,如同没有山峰的大山。
6.93.39
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः ।
रथान्हयान्पदातींश्च ममृदुः शतशो रणे ॥ ६.९३.३९ ॥
有些象充满愤怒,因狂暴而眼盲,无所拘束,在战场上践踏了数百辆战车、马匹和步兵。
6.93.40
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः ।
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥ ६.९३.४० ॥
马匹也同样,被骑兵以长矛和投枪击打,四处冲撞,使各方陷入混乱。
6.93.41
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः ।
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥ ६.९३.४१ ॥
战车武士与战车武士并肩作战,这些高贵家族之子甘愿舍身,凝聚全部力量,无畏地行动。
6.93.42
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् ।
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥ ६.९३.४२ ॥
大王啊,犹如在选婿大会上,在那残酷的搏斗中,热爱战斗的武士彼此攻击,渴望名声或天堂。
6.93.43
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे ।
धार्तराष्ट्रं महत्सैन्यं प्रययौ विमुखीकृतम् ॥ ६.९३.४३ ॥
当那场令人毛骨悚然的战斗如此进行时,持国百子的大军被击溃,转身逃去。