摩诃婆罗多 · 章 6.95
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.95.1
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा ।
पराजयं राक्षसेन नामृष्यत परंतपः।
गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च ॥ ६.९५.१ ॥
在那场巨大的喧嚣中,灼烧敌人的国王难敌无法忍受被罗刹所败。他走近恒河之子,谦恭地向他行礼。
6.95.2
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे ।
घटोत्कचस्य विजयमात्मनश्च पराजयम् ॥ ६.९५.२ ॥
他开始如实叙述一切经过:瓶首(迦托嘎恰)的胜利和他自己的失败。
6.95.3
कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः ।
अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम् ॥ ६.९५.३ ॥
这位难以抵挡的人一再叹息地讲述。国王啊,他便对库鲁的祖父毗湿摩说道。
6.95.4
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह ।
पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो ॥ ६.९५.४ ॥
祖父啊,我完全依靠您和德罗纳,开始了与般度之子们的可怕战斗,主啊。
6.95.5
एकादश समाख्याता अक्षौहिण्यश्च या मम ।
निदेशे तव तिष्ठन्ति मया सार्धं परंतप ॥ ६.९५.५ ॥
我那被计算过的十一个阿克舒亨尼大军,听从您的命令,与我同在,灼烧敌人者啊。
6.95.6
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः ।
घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः ॥ ६.९५.६ ॥
婆罗多之虎啊,我依靠瓶首,却在战斗中被以怖军为首的般度之子们击败了。
6.95.7
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः ।
तदिच्छामि महाभाग त्वत्प्रसादात्परंतप ॥ ६.९५.७ ॥
它烧灼我的肢体,如同烈火焚烧枯树。因此,大福者,克敌者啊,我愿凭你的恩典。
6.95.8
राक्षसापशदं हन्तुं स्वयमेव पितामह ।
त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि ॥ ६.९५.८ ॥
这个罗刹中的卑贱者,我愿亲手杀之,祖父啊。投靠你这不可战胜者,为我完成此事才合乎你的身份。
6.95.9
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम ।
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ ६.९५.९ ॥
婆罗多中最优秀者啊,国王听罢此言,檀奴之子毗湿摩便对难敌说了这番话。
6.95.10
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव ।
यथा त्वया महाराज वर्तितव्यं परंतप ॥ ६.९५.१० ॥
国王啊,请听我的话,我将对你说,考罗婆啊。伟大的国王,克敌者啊,你应当如何行事。
6.95.11
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम ।
धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ ॥ ६.९५.११ ॥
孩子啊,征服敌人者,无论何种境况,你都应保护自己。无罪者啊,你必须始终与法王作战。
6.95.12
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः ।
अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति ॥ ६.९५.१२ ॥
无论是阿周那,或是双生子,或是毗摩森那,或是其他地之护卫者,国王遇上国王。
6.95.13
न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा ।
अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः।
शल्यश्च वृषसेनश्च विकर्णश्च महारथः ॥ ६.९५.१३ ॥
大王啊,你不必为那个希丁巴之子的恶人忧虑。我、德罗纳、克里帕、德罗纳之子、萨多伐人克里塔瓦尔曼、沙利耶、伐里舍那和大车士毗迦尔纳——
6.95.14
शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः ।
त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम् ॥ ६.९५.१४ ॥
其余以难降为首的兄弟,也将为你而与那位大力罗刹作战。
6.95.15
रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् ।
अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः ॥ ६.९५.१५ ॥
若你心中对那凶猛的罗刹王怀有深仇,那就让此人前来战场,与那恶念之徒交战吧。
6.95.16
भगदत्तो महीपालः पुरन्दरसमो युधि ।
एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत् ॥ ६.९५.१६ ॥
大地的守护者婆伽达多,在战场上与因陀罗(富兰达罗)相当,对国王说了这些话后,又对婆伽达多说道。
6.95.17
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः ।
गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम् ॥ ६.९५.१७ ॥
在诸王之王面前,善辩者说道:“大王啊,快去那位在战斗中狂傲的希丁巴之子那里吧。”
6.95.18
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् ।
राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा ॥ ६.९५.१८ ॥
在战场上保持戒备,让所有射手看着,去阻挡那残忍行事的罗刹,正如往昔因陀罗阻挡了多罗迦。
6.95.19
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप ।
समागमश्च बहुभिः पुराऽभूदमरैः सह ॥ ६.९५.१९ ॥
啊,摧敌者!你拥有神圣的兵器和勇力,往昔你也曾与众多不死者交战。
6.95.20
त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे ।
स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम् ॥ ६.९५.२० ॥
王中之虎啊,在这场大战中,与他对敌的正是你。你被自己的军队簇拥而去,杀死那位罗刹之王。
6.95.21
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः ।
प्रययौ सिंहनादेन परानभिमुखको द्रुतम् ॥ ६.९५.२१ ॥
听了军队统帅毗湿摩的这番话,他发出狮子般的吼声,迅速朝敌人迎面冲去。
6.95.22
तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् ।
अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः ॥ ६.९५.२२ ॥
看见他如雷鸣的乌云般冲来,怒不可遏的般度族大车战士们向他迎击而去。
6.95.23
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः ।
द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत ॥ ६.९५.२३ ॥
毗摩先那、阿毗曼尤、罗刹迦陀迦查、德罗波蒂之子们、萨提耶提与刹多提婆,啊,婆罗多之后。
6.95.24
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा ।
सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत् ॥ ६.९५.२४ ॥
车底国之主婆苏陀那与十城之主,同样地,连同苏普拉提迦,还有婆伽陀也冲向了他们。
6.95.25
ततः समभवद्युद्धं घोररूपं भयानकम् ।
पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम् ॥ ६.९५.२५ ॥
于是般度之子与婆伽达多之间爆发了可怕骇人的大战,使阎摩的国度不断扩张。
6.95.26
प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः ।
ते निपेतुर्महाराज नागेषु च रथेषु च ॥ ६.९५.२६ ॥
由车战武士射出的、速度骇人而锋利的箭矢,啊大王,落在象背与战车之上。
6.95.27
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः ।
परस्परं समासाद्य संनिपेतुरभीतवत् ॥ ६.९५.२७ ॥
发情而狂躁的大象,经驭象者调教,彼此迎面相遇,无所畏惧般猛烈相撞。
6.95.28
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे ।
बिभिदुर्दन्तमुसलैः समासाद्य परस्परम् ॥ ६.९५.२८ ॥
发情蒙蔽、怒火冲天的大象在那场大战中彼此相遇,以象牙尖端和如杵般的象牙互相刺穿。
6.95.29
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः ।
चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम् ॥ ६.९५.२९ ॥
装饰着牦牛尾拂的骏马,被手持长矛的骑手迅速驱策,彼此相互冲击。
6.95.30
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः ।
न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः ॥ ६.९५.३० ॥
步兵们被成群的步卒以长矛和投枪击中,于是成百上千地倒在地上。
6.95.31
रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः ।
निहत्य समरे वीरान्सिंहनादान्विनेदिरे ॥ ६.९५.३१ ॥
车战勇士与车上战士,那些光彩夺目者,以卡尔尼箭、那利迦箭和投枪在战场上击杀英雄,发出狮子般的吼声。
6.95.32
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे ।
भगतत्तो महेष्वासो भीमसेनमथाद्रवत् ॥ ६.९५.३२ ॥
当那场令人毛骨悚然的战斗如此激烈进行时,大弓箭手婆伽达多冲向了毗摩森那。
6.95.33
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम् ।
पर्वतेन यथा तोयं स्रवमाणेन सर्वशः ॥ ६.९५.३३ ॥
一头发情的大象,以七道流淌着发情液,如同山上的水四处流淌。
6.95.34
किरञ्छरसहस्राणि सुप्रतीकशिरोगतः ।
ऐरावतस्थो मघवान्वारिधारा इवानघ ॥ ६.९५.३४ ॥
如因陀罗立于爱罗婆多之上,在苏普拉提伽的头顶,洒下千万支箭,无罪者啊,如同水流倾泻。
6.95.35
स भीमं शरधाराभिस्ताजयामास पार्थिवः ।
पर्वतं वारिधाराभिस्तपान्ते जलदो यथा ॥ ६.९५.३५ ॥
那位国王以箭雨击中毗摩,如同夏末的云以水流击打山峰。
6.95.36
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान् ।
निजघान महेष्वासः संरब्धः शरवृष्टिभिः ॥ ६.९५.३६ ॥
然而毗摩森那这位大弓箭手,怒不可遏,以箭雨杀死了数百名护足卫士。
6.95.37
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् ।
चोदयामास नागेन्द्रं भीमसेनरथं प्रति ॥ ६.९५.३७ ॥
见他们被杀,愤怒而勇猛的婆伽达多驱使象王冲向怖军的战车。
6.95.38
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा ।
अभ्यधावत वेगेन भीमसेनपुरोगमाः ॥ ६.९५.३८ ॥
他驱使的那头象如弦上之箭般疾速冲向走在怖军前列的战士。
6.95.39
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः ।
अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः ॥ ६.९५.३९ ॥
众般度大车勇士见其冲来,以怖军为首,迅速转身迎战。
6.95.40
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः ।
दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष ॥ ६.९५.४० ॥
迦迦耶人、阿毗曼尤、德劳巴蒂的诸子,还有达舍尔纳的英勇之主刹多提婆,啊,尊者!
6.95.41
चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते ।
उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः ॥ ६.९५.४१ ॥
赤第王德厘湿吒衡,以及那些愤怒而强大的勇士,纷纷施展至高的神圣兵器。
6.95.42
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् ।
स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः ॥ ६.९५.४२ ॥
众怒者从四面包围那头独象;那头大象被无数箭矢射中,却显得格外威严。
6.95.43
संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट् ।
दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम् ॥ ६.९५.४३ ॥
浑身血流,宛如被矿物色彩染绘的山王;达沙尔纳之主也如那头象,如同承载大地的山岳。
6.95.44
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम् ।
तमापतन्तं समरे जगं जगपतिः स च ॥ ६.९५.४४ ॥
他跃上战象,冲向婆伽达多的大象;在战场上冲来的他,世界之主也迎面而来。
6.95.45
दधार सुप्रतीकोऽपि वेलेव मकरालयम् ।
वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः ॥ ६.९५.४५ ॥
苏普拉提卡也阻挡了他,如同海岸阻挡大海;他看见伟大的达沙尔纳王的象王被阻挡。
6.95.46
साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् ।
ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश ॥ ६.९५.४६ ॥
你的军队高呼“善哉,善哉”称赞他。于是普拉格约提沙王大怒,投出了十四支长矛。
6.95.47
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम ।
तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम् ॥ ६.९५.४७ ॥
王中之最!他将它们投向那头象的前额,那象的额甲饰以黄金。
6.95.48
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः ।
स गाढविद्धो व्यथितो नागो भरतसत्तम ॥ ६.९५.४८ ॥
它们穿刺而入,迅速钻进去,如同蛇钻入蚁冢。婆罗多中最优秀的人啊!那头象深受重创,痛苦不堪。
6.95.49
उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः ।
स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम् ॥ ६.९५.४९ ॥
它的狂怒很快平息,迅捷的象转身而回。它发出可怕的吼声,猛然奔突而去。
6.95.50
संमर्दमानः स्वबलं वायुर्वृक्षानिवौजसा ।
तस्मिन्पराजिते नागे पाण्डवानां महारथाः ॥ ६.९५.५० ॥
它踩踏着自己的军队,如同狂风猛力拔起树木;那头象被击败之后,般度诸子的大车战士们……
6.95.51
सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे ।
ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन् ॥ ६.९५.५१ ॥
他们高声发出狮吼,便准备迎战。随后,他们让比玛走在前面,冲向跋伽达多。
6.95.52
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च ।
तेषामापततां राजन्संक्रुद्धानाममर्षिणाम् ॥ ६.९५.५२ ॥
大王啊,他们射出各式各样的箭矢,投掷种种兵器,向那些愤怒而不耐烦地逼近的人扑去。
6.95.53
श्रुत्वा स निनदंक घोरममर्षाद्गतसाध्वसः ।
भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत् ॥ ६.९५.५३ ॥
听到那可怕的吼声,大弓手跋伽达多因愤怒而无所畏惧,便驱策他的象向前。
6.95.54
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि ।
तस्मिन्क्षणे समभवत्सांवर्तक इवानलः ॥ ६.९५.५४ ॥
在象钩与拇指的催促下,那头最强的象在战斗中顿时变得如同毁劫之火。
6.95.55
रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः ।
पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशःक ॥ ६.९५.५५ ॥
他极度愤怒,成百上千地碾碎了战车群、象群、马匹、骑兵和步兵。
6.95.56
अमृद्गात्समरे नागः संप्रधावंस्ततस्ततः ।
तेन संलोड्यमानं तु पाण्डवानां बलं महत् ॥ ६.९५.५६ ॥
在战斗中,那头象四处奔冲践踏,般遮军的大军被它搅乱。
6.95.57
संचुकोच महाराज चर्मेवाग्नौ समाहितम् ।
भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता ॥ ६.९५.५७ ॥
大王,它像放在火中的皮革一样收缩;看见自己的军队被聪慧的婆伽达多击溃,(…)。
6.95.58
घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत् ।
विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः ॥ ६.९५.५८ ॥
于是,极其愤怒的迦陀迦求撲向婆伽达多。大王,他狰狞而粗暴,面孔如火焰燃烧,双目炽亮。
6.95.59
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव ।
जग्राह विमलं शूलं गिरीणामपि दारणम् ॥ ६.९५.५९ ॥
他化作恐怖的形象,仿佛怒火燃烧,抓起一柄能劈裂山岳的纯净长矛。
6.95.60
नागं जिघांसुः सहसा चिक्षेप च महाबलः ।
स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम् ॥ ६.९५.६० ॥
他想杀死那头象,这位大力者突然掷出了它;它四周环绕着火花的花环。
6.95.61
तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः ।
चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम् ॥ ६.९५.६१ ॥
见他突然冲来,普拉格扬提沙国王射出一支明亮、锋利、极为可怖的半月形箭。
6.95.62
चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् ।
उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम् ॥ ६.९५.६२ ॥
那支迅捷的箭斩断了那柄巨大的长矛;镶金的长矛被劈成两段,向上飞起。
6.95.63
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता ।
शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः ॥ ६.९५.६३ ॥
如同因陀罗所掷、在空中飞行而坠落的大雷电,那柄坠落并被劈成两段的长矛被国王看见……
6.95.64
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् ।
चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत् ॥ ६.९५.६४ ॥
国王抓起那柄带金柄、如火焰舌头般的大枪,向罗刹掷去,并喊道:“站住,站住!”
6.95.65
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव ।
उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च ॥ ६.९५.६५ ॥
罗刹看见那力量如雷电般穿空而来,立即跃起将其抓住,并发出怒吼。
6.95.66
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत ।
पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत् ॥ ६.९५.६६ ॥
婆罗多啊,他迅速将其置于膝上将其折断;众王之王注视之下,此事看来竟如奇迹一般。
6.95.67
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा ।
दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः ॥ ६.९५.६७ ॥
天上的诸神、乾闼婆与诸仙人见到强大罗刹所作之事,皆感惊异。
6.95.68
पाण्डवाश्च महाराज भीमसेनपुरोगमाः ।
साधुसाध्विति नादेन पृथिवीमन्वनादयन् ॥ ६.९५.६८ ॥
大王啊,以毗摩森那为首的般度之子以“善哉,善哉!”的呼声使大地回响。
6.95.69
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् ।
नामृष्यत महेष्वासो भगदत्तः प्रतापवान् ॥ ६.९५.६९ ॥
听闻那些心怀喜悦的大德们发出的巨大欢呼,勇猛的大弓箭手婆伽达多不能忍受。
6.95.70
स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् ।
अभिदुद्राव वेगेन पाण्डवानां महारथान् ॥ ६.९५.७० ॥
他张开那张如因陀罗金刚杵般明亮的大弓,疾速冲向般度之子的大战车武士。
6.95.71
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् ।
भीममेकेन विव्याध राक्षसं नवभिः शरैः ॥ ६.९५.७१ ॥
他放出清澈锋利、光如烈火的那罗扎箭,一箭射中毗摩,九箭射中罗刹。
6.95.72
अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः ।
पूर्णायतविसृष्टेन शरेणानतपर्वणा ॥ ६.९५.७२ ॥
他以三箭射中阿毗曼尤,以五箭射中每位羯迦耶王子,箭从满弓射出,箭杆在节处弯曲。
6.95.73
बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे ।
पपात सहसा तस्य सशरं धनुरुत्तमम् ॥ ६.९५.७३ ॥
他在战斗中射穿了刹特雷达瓦的右臂,他那张上好的弓连同箭突然坠落。
6.95.74
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् ।
भीमसेनस्य च क्रोधान्निजघान तुरंगमान् ॥ ६.९५.७४ ॥
随后他以五支箭射中德罗婆蒂的五个儿子,每人各五箭;又在愤怒中杀死了毗摩塞那的马。
6.95.75
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः ।
निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः ॥ ६.९५.७५ ॥
他用三支箭射断了他那绘有狮子的旗帜,又用另外三支箭射穿了他的御者。
6.95.76
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विशोको भरतश्रेष्ठ भगदत्तेन संयुगे ॥ ६.९५.७६ ॥
他身受重伤、痛苦不堪,坐在战车的底板上,啊,婆罗多中最优秀的人,他是在战斗中被婆伽达多所伤。
6.95.77
ततो भीमो महाबाहुर्विरथो रथिनां वरः ।
गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात् ॥ ६.९५.७७ ॥
于是大臂的毗摩,车战者中的最优秀者,此时失去了战车,握起铁棍,迅速从他那辆上好的战车上跃下。
6.95.78
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् ।
तावकानां भयं घोरं समपद्यत भारत ॥ ६.९५.७८ ॥
看见他高举铁棍,如同带峰的山岳,你的部众中生起了可怕的恐惧,婆罗多啊。
6.95.79
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः ।
आजगाम महाराज निघ्नञ्शत्रून्समन्ततः ॥ ६.९५.७९ ॥
就在此时,以黑天为御者的般度之子(阿周那)前来,大王啊,四面打击着敌人。
6.95.80
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ ।
प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ ॥ ६.९५.८० ॥
在那里,那两位人中虎,即大力的父子毗摩森那与迦托迦car,正与普拉格乔提沙王交战。
6.95.81
दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् ।
त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान् ॥ ६.९५.८१ ॥
般度之子见兄弟和正在作战的大车战士,婆罗多中最优秀者啊,便急速赶到那里,射出箭雨而战。
6.95.82
ततो दुर्योधनो राजा त्वरमाणो महारथः ।
सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम् ॥ ६.९५.८२ ॥
于是大车战士国王难敌急忙迅速驱动其军,车、象、马密集充满。
6.95.83
तामापतन्तीं सहसा कौरवाणां महाचमूम् ।
अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः ॥ ६.९५.८३ ॥
见那支大军突然扑来,白马之般度子迅速冲击而去。
6.95.84
भगदत्तश्च समरे तेन नागेन भारत ।
विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत् ॥ ६.९५.८४ ॥
婆罗多啊,婆伽达骑着那头象在战场上践踏般度军,向坚战冲去。
6.95.85
तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष ।
पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः ॥ ६.९५.८५ ॥
于是,巴伽达塔与手持举起武器的般遮罗、般度子孙和柯迦耶人展开了一场极大的战斗,尊者啊。
6.95.86
भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ ।
अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम् ॥ ६.९५.८६ ॥
在战斗中,婆罗多首领(怖军)也向那两位——克舍婆与阿周那——讲述了伊罗婆多被杀的真实经过,那是最为卓越的。