Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.96.1

पुत्रं विनिहतं श्रुत्वा इरावन्तं धनञ्जयः ।
दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा ॥ ६.९६.१ ॥

闻知其子伊罗梵已被杀死,财富征服者(阿周那)满怀巨大悲痛,像蛇一样长叹。

6.96.2

अब्रवीत्समरे राजन्वासुदेवमिदं वचः ।
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥ ६.९६.२ ॥

大王啊,阿周那在战场上对婆苏提婆说了这些话:这一定是大智慧的毗杜罗很早以前就已看见的。

6.96.3

कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक ।
स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ॥ ६.९६.३ ॥

那位大智慧者预见了俱卢与般度子孙可怕的毁灭,于是他劝阻了人主德拉施特拉。

6.96.4

अन्ये च बहवो वीराः संग्रामे मधुसूदन ।
निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः ॥ ६.९६.४ ॥

摩图苏陀那啊,在战斗中,许多其他英雄被俱卢族所杀,同样,俱卢族也被我们所杀。

6.96.5

अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् ।
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः ॥ ६.९६.५ ॥

人中最优秀者啊,为了财富而行可耻之事。为了那些财富而如此毁灭亲族的,真是可耻!

6.96.6

अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् ।
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥ ६.९६.६ ॥

对于无财之人,死亡更好;杀害族人之后,即使去森林也不更好。克里希那啊,杀死聚集在此的族人,我们能得到什么呢?

6.96.7

दुर्योधनापराधेन शकुनेः सौबलस्य च ।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥ ६.९६.७ ॥

因为难敌的过错、苏波罗之子沙古尼的过错,以及迦尔纳的恶劣谋划,刹帝利正走向灭亡。

6.96.8

इदानीं च विजानामि सुकृतं मधुसूदन ।
कृतं राज्ञा महाबाहो याचता त सुयोधनम् ॥ ६.९६.८ ॥

如今我明白了,摩豆苏陀那啊;大臂者啊,国王向苏由陀那恳求,是一件善行。

6.96.9

राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक ।
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ॥ ६.९६.९ ॥

那恶意之人连半个王国、五个村庄都不肯给。看见英勇的刹帝利躺卧在大地之上——

6.96.10

निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् ।
अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ॥ ६.९६.१० ॥

我深深地责备自己。刹帝利的生计真可耻!在战场上,这些刹帝利会认为我软弱无力。

6.96.11

एतदर्थं मया युद्धं रोचितं मधुसूदन ।
संचोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति ॥ ६.९६.११ ॥

正是为此我才选择了战斗,摩豆苏陀那啊。快速驱策马匹,朝向持国之子的军队前进。

6.96.12

प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं क्लीबायितुं कालो विद्यते माधव क्वचित् ॥ ६.९६.१२ ॥

我将以双臂渡过战斗这片大海。摩陀婆啊,现在绝不是表现懦弱的时候。

6.96.13

एवमुक्तस्तु पार्थेन केशवः परवीरहा ।
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥ ६.९६.१३ ॥

阿周那如此说后,杀敌英雄的克沙婆(克里希那)驱策那些疾如风的白色马匹。

6.96.14

अथ शब्दो महानासीत्तव सैन्यस्य भारत ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ ६.९६.१४ ॥

婆罗多啊,此时你的军队中升起巨大的喧声,如同大海在潮汐时被风激荡。

6.96.15

अपराह्णे महाराज संग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥ ६.९६.१५ ॥

大王啊,午后,毗湿摩与般度之子之间爆发了战斗,声如雷鸣的雨云。

6.96.16

ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।
परिवार्य रणे द्रोणं वसवो वासवं यथा ॥ ६.९६.१६ ॥

大王啊,此时你的儿子们冲向怖军,在战场上围住德罗纳,如同诸婆薮围绕因陀罗。

6.96.17

ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः ।
भगदत्तः सुशर्मा च धनंजयमुपाद्रवन् ॥ ६.९६.१७ ॥

于是,檀那之子毗湿摩、车战中的佼佼者克里帕,以及婆伽达多和苏舍尔摩,冲向财主(阿周那)。

6.96.18

हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।
अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ॥ ६.९६.१८ ॥

心主之子(克里特婆尔曼)与巴赫利迦都冲向萨谛奇,而安婆湿陀迦王则挡住了阿毗曼纽。

6.96.19

शेषास्त्वन्ये महाराज शेषानेव महारथान् ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥ ६.९६.१९ ॥

大王啊,其余的人与其余的大车武士交战。于是一场可怖、令人恐惧的战斗开始了。

6.96.20

भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव विशांपते ।
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥ ६.९६.२० ॥

人主啊,婆罗摩那(Bhīmasena)见到你的儿子们,怒火在战场上燃烧,如同以酥油浇灌的祭火。

6.96.21

पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः ।
प्रावृषीव महाराज जलदा इव पर्वतम् ॥ ६.९६.२१ ॥

大王啊,你的儿子们用箭遮盖了昆提之子,如同雨季的云层遮盖山岳。

6.96.22

स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते ।
सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः ॥ ६.९६.२२ ॥

人主啊,那位英雄被你的儿子们从多方面遮蔽,他舔着嘴角,如同骄傲的老虎。

6.96.23

व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् ।
क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे ॥ ६.९६.२३ ॥

于是宽胸的婆罗摩那在大战中以极为锋利、射得很准的剃刀头箭,将那位国王击倒。

6.96.24

ताडयामास संक्रुद्धः सोऽभवद्व्यथितेन्द्रियः ।
अपरेण तु भल्लेन पीतेन निशितेन तु।
अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा ॥ ६.९६.२४ ॥

他愤怒地击打他,那人的感官为之动摇。随后他又以另一支黄色箭杆、锋利的婆罗(bhalla)箭,将那蜷缩之人击倒,如同狮子击倒小鹿。

6.96.25

ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् ।
स सप्त संदधे हन्तुं पुत्रास्ते भरतर्षभ ॥ ६.९६.२५ ॥

于是毗摩森那将七支用石头磨利的锐箭搭上弓弦,要杀死你的儿子们,婆罗多族的雄牛啊。

6.96.26

प्रेषिता भिमसेनेन शरास्ते दृढधन्वना ।
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥ ६.९६.२६ ॥

你的那些大车战士之子,被坚定持弓的毗摩森那射出的箭从战车上射落。

6.96.27

अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् ।
दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम् ॥ ६.९६.२७ ॥

阿那德利斯提、昆陀毗丁、毗罗阇、明目者、长臂者、苏跋忽,以及摩伽罗旗。

6.96.28

प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ ।
वसन्ते पुष्पशबलाः किंशुकाः पतिता इव ॥ ६.९६.२८ ॥

你的勇士们倒下时闪耀着光芒,婆罗多族的雄牛啊,如同春天里缀满花朵的金苏树坠落一般。

6.96.29

ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे ।
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥ ६.९६.२९ ॥

于是在大战中你剩下的儿子们逃走了,他们把那位大力的毗摩森那视为死神本身。

6.96.30

द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव ।
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥ ६.९६.३० ॥

然而德罗纳在战斗中,用箭从四面八方覆盖了那个焚烧你儿子们的英雄,如同水流覆盖山岳。

6.96.31

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥ ६.९६.३१ ॥

我们在那里看到了昆蒂之子的奇妙勇力:尽管德罗纳阻拦,他仍杀死了你的儿子们。

6.96.32

यथा गोवृषभो वर्षं संधारयति स्वात्पतत् ।
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥ ६.९६.३२ ॥

如同牛群中的公牛承受落在自身的雨水,怖军也承受住了德罗纳所发的箭雨。

6.96.33

अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।
यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत् ॥ ६.९६.३३ ॥

大王啊,怖军在那里做了一件奇迹般的事:他在战斗中杀了你的儿子们,也阻住了德罗纳。

6.96.34

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥ ६.९६.३४ ॥

大王啊,如同强大的老虎在鹿群中游荡,阿周那的长兄在你的英勇儿子们之中纵横驰骋。

6.96.35

यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः ।
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥ ६.९६.३५ ॥

如同狼在牛群中驱散牲畜,怖军也在战场上驱散了你的儿子们。

6.96.36

गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः ।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥ ६.९६.३६ ॥

大车战士甘伽之子、薄伽陀多和瞿昙三人,试图阻挡急速冲入战斗的般度之子阿周那。

6.96.37

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे ।
प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥ ६.९६.३७ ॥

他以自己的兵器挡开他们的兵器,在战场上将你方军中的勇士送往死亡。

6.96.38

अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥ ६.९६.३८ ॥

而阿毗曼尤以箭使闻名世间的国王安巴斯陀失去战车,他是车战者中的最佳者。

6.96.39

विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ॥ ६.९६.३९ ॥

被名声显赫的苏跋陀罗之子击伤、失去战车的大地之主安巴斯陀,迅速从车上跳下。

6.96.40

असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ॥ ६.९६.४० ॥

那位大力者在战斗中向高尚的苏跋陀罗之子掷出宝剑,然后登上了希尔迪基亚的战车。

6.96.41

आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥ ६.९६.४१ ॥

精通战斗之道、能杀敌中英雄的苏跋陀罗之子,凭借敏捷将落向自己的剑击偏。

6.96.42

व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा ।
साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते ॥ ६.९६.४२ ॥

在战斗中看到苏跋陀罗之子将剑击偏,此时军中响起一片“好啊,好啊!”的喝彩,啊,人主。

6.96.43

धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् ।
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥ ६.९६.४३ ॥

以德里斯塔德尤姆那为首的其他人与你的军队作战;你的所有人也同样与般度的军队作战。

6.96.44

तत्राक्रन्दो महानासीत्तव तेषां च भारत ।
निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ॥ ६.९६.४४ ॥

婆罗多啊,那里你的人和他们的人发出巨大的喧嚣,他们彼此猛烈击打,做着艰难的壮举。

6.96.45

अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः ।
नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥ ६.९६.४५ ॥

在战斗中,骄傲的英雄们互相揪住头发,用指甲和牙齿、用拳头和膝盖搏斗。

6.96.46

तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः ।
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥ ६.९६.४६ ॥

他们用手掌、用刀剑、用站位得当的手臂,寻到空隙,便把彼此送往阎摩的居所。

6.96.47

न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा ।
व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः ॥ ६.९६.४७ ॥

父亲杀死儿子,儿子杀死父亲;就这样,心意混乱的人们在那里战斗。

6.96.48

रणे चारूणि चापानि हेमपृष्ठानि मारिष ।
हतानामपविद्धानि कलापाश्च महाधनाः ॥ ६.९६.४८ ॥

在战场上,主公啊,被杀者那美丽的金背弓和昂贵的箭袋被丢弃在地。

6.96.49

जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः ।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥ ६.९६.४९ ॥

镶金羽、银头的锐利箭矢,经油洗过,闪耀如蜕去旧皮的蛇。

6.96.50

खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः ।
चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां ॥ ६.९६.५० ॥

象牙柄、饰以黄金的刀剑,以及弓手镶金彩绘的盾牌,从弓上被抛下,散落各处。

6.96.51

सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः ।
जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः ॥ ६.९६.५१ ॥

未损的金饰长矛已折断而仍饰以黄金;金杖;以及如黄金般闪耀的投枪。

6.96.52

अवस्कन्दाश्च पतिता मुसलानि गुरूणि च ।
परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष ॥ ६.९६.५२ ॥

倒落的突击器械、沉重的铁棒、铁杵、阔剑,以及投枪,啊,阁下。

6.96.53

पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः ।
कुथा बहुविधाकाराश्चामरा व्यजनानि च ॥ ६.९६.५३ ॥

倒落的各式弓,彩绘并饰以黄金;多种样式的马衣,牦牛尾拂尘与扇子。

6.96.54

नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः ।
जीवन्त इव दृश्यनते गतसत्त्वा महारथाः ॥ ६.९६.५४ ॥

手持各种兵器倒地的人看起来仿佛仍然活着,而那些大车战士已失去生命。

6.96.55

गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः ।
गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥ ६.९६.५५ ॥

头颅被铁杵砸裂、身体被象群践踏的人们,以及被象、马和战车碾压的人,倒卧在地上。

6.96.56

तथैवाश्वनृनागानां शरीरैर्विबभौ तदा ।
संछन्ना वसुधा राजन्पर्वतैरिव शातितैः ॥ ६.९६.५६ ॥

大王啊,那时大地也这样被马、人和象的尸体覆盖,发出光芒,犹如被击倒的山岳。

6.96.57

समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः ।
निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः ॥ ६.९६.५७ ॥

战斗中坠落的长矛、投枪、箭矢和标枪,以及剑、宽刃剑、枪、铁棒和战斧。

6.96.58

परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष ।
शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी ॥ ६.९६.५८ ॥

啊,尊者,铁杵、投石索、标枪和百杀器,使大地铺满了被兵器刺穿的尸体。

6.96.59

विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः ।
गतासुभिरमित्रघ्न विबभौ निचिता मही ॥ ६.९६.५९ ॥

消灭敌人者啊,大地上布满了无声或微弱呻吟、浸在血流中的尸体,闪闪发光。

6.96.60

सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ ६.९६.६० ॥

带着手掌与臂钏、洒了檀香、如象鼻般被斩断的手臂,以及勇士的大腿。

6.96.61

बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः ।
पातितै ऋषभाक्षाणां बभौ भारत मेदिनी ॥ ६.९६.६१ ॥

头颅倒地,发髻上缚着上好的宝珠,耳环犹在,婆罗多啊,大地因这些牛眼的勇士而闪耀。

6.96.62

कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।
रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः ॥ ६.९६.६२ ॥

沾满鲜血、四散的金甲使大地极为闪耀,犹如火焰已经熄灭的火堆。

6.96.63

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।
विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ॥ ६.९६.६३ ॥

被抛弃的箭囊、倒地的弓,以及四处散落的金羽箭。

6.96.64

रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः ।
वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ॥ ६.९६.६४ ॥

四处破碎的战车,装饰着小铃网,还有被箭射死、舌头耷拉、沾满鲜血的战马。

6.96.65

अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥ ६.९६.६५ ॥

拖曳的绳索、旗帜、马具带和军旗,以及各位勇将巨大的白色海螺,四散一地。

6.96.66

स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।
नानारूपेरलंकारैः प्रमदेवाभ्यलङ्कृता ॥ ६.९६.६६ ॥

大地因躺卧的大象而闪耀,它们的长鼻软软垂下,装饰着各式各样的饰物,仿佛盛装的美女。

6.96.67

दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः ।
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ॥ ६.९६.६७ ॥

那里还有其他仍活着、剧痛难忍的大象,用鼻子嘶鸣,一次又一次喷洒水花。

6.96.68

विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः ।
नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम् ॥ ६.९६.६८ ॥

那片战场因象身上五彩的毡毯和象鞍装饰而闪耀,宛如流动的山峦。

6.96.69

वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ।
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ॥ ६.९६.६९ ॥

柄上镶嵌青金石的精美象钩散落在地,大象的铃铛也四处散落。

6.96.70

विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा ।
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ॥ ६.९६.७० ॥

这里散落着撕裂的五彩鞍饰、象钩、各式颈饰和金色的肚带。

6.96.71

यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः ।
रराज सुभृशं भूमिस्तत्रतत्र विशांपते
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः ॥ ६.९६.७१ ॥

大地在各处因破碎的战车部件和许多折断的镶金投枪而大放光彩。哦,人主,这里那里还躺着被尘土染成黄褐色的马的金制胸甲。

6.96.72

सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ।
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः ॥ ६.९६.७२ ॥

骑士们被砍断的手臂连同臂环落在那里;明亮锋利的长矛和闪亮的刀剑也在那里。

6.96.73

उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः ।
विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ॥ ६.९६.७३ ॥

还有五颜六色的头巾四处散落,各种箭雨,以及镶金饰的物件。

6.96.74

अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ।
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ॥ ६.९६.७४ ॥

还有成堆的马毯,被碾碎的羂迦婆兽皮,国王的顶冠宝石,以及各色贵重之物。

6.96.75

छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि ।
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ॥ ६.९६.७५ ॥

还有被抛弃的伞盖,牦牛尾拂尘与扇子,以及面如莲花明月、戴着美丽耳环的面孔。

6.96.76

क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ।
अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः ॥ ६.९६.७६ ॥

还有被丢弃的英雄尸体,他们胡须修剪整齐、装饰华丽,哦大王,耳环闪耀如金。

6.96.77

ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा ।
एवमेते महासेने मृदिते तत्र भारत ॥ ६.९६.७७ ॥

大地变得如同布满行星与星辰的天空般斑驳。如此,哦大军统帅,它们在那里被碾碎,哦婆罗多。

6.96.78

परस्परं समासाद्य तव तेषां च संयुगे ।
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ॥ ६.९६.७८ ॥

你的人与他们的人在战斗中相遇。当他们疲惫、溃散、被碾碎时,哦婆罗多。

6.96.79

रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् ।
ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः ॥ ६.९६.७९ ॥

那里夜幕降临,我们看不见自己的随从。于是俱卢与般度诸子率领各自的军队撤退了。

6.96.80

घोरे निशामुखे रौद्रे वर्तमाने महाभये ।
अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः ।
न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा ॥ ६.९६.८० ॥

在可怖、恐怖、充满大恐惧的夜幕降临之际,俱卢与般度诸子一同撤退,在夜里各自进入了自己的营地。