Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.98

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.98.1

वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः ।
नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि ॥ ६.९८.१ ॥

你的儿子以言语之箭深深刺伤了那位大度的人,他为悲痛所困,一句话也没有说,无论是悦耳的还是刺耳的,哪怕一点点。

6.98.2

स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः ।
श्वसन्निव महानागः प्रणुन्नो वाक्शलाकया ॥ ६.९८.२ ॥

他沉思了很久,充满悲痛与愤怒,像被言语之矛刺激的大象一样喘息。

6.98.3

उद्वृत्य चक्षुषी लोपान्निर्दहन्निव भारत ।
सदेवासुरगन्धर्वं लोकं काल इवापरः ॥ ६.९८.३ ॥

婆罗多,他翻起眼睑转动双眼,仿佛要将包括天神、阿修罗、乾闼婆在内的世界焚尽,如同另一个时间。

6.98.4

अब्रवीत्तव पुत्रं च सामपूर्वमिदं वचः ।
किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि ॥ ६.९८.४ ॥

他先以温和之语对你的儿子说道:难敌,你为何要这样以言语之刺割伤我?

6.98.5

घटमानं यथाशक्तिं कुर्वाणं च तव प्रियम् ।
जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया ॥ ६.९८.५ ॥

竭尽其力,做你所喜爱之事,为了你的利益,在战场上以自己的生命气息作为祭品。

6.98.6

यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् ।
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम् ॥ ६.९८.६ ॥

那位英勇的般度之子在卡扪达瓦林中满足了阿耆尼,并在战斗中击败了因陀罗,这便是充分的明证。

6.98.7

यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा ।
अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम् ॥ ६.९८.७ ॥

啊,大臂者!当乾闥婆以武力掳走你时,般度之子救出了你。这便是足够的明证。

6.98.8

द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो ।
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम् ॥ ६.९८.८ ॥

啊,主人!当你那些勇猛的兄弟奔逃,御者之子拉德耶(迦尔纳)也奔逃时,这也是足够的明证。

6.98.9

यच्च नः सहितान्सर्वान्विराटनगरे तदा ।
एक एवाजयत्पार्थः पर्याप्तं तन्निदर्शनम् ॥ ६.९८.९ ॥

当我们全部聚集在毗罗吒城时,普利塔之子独自一人战胜了我们。这也是足够的明证。

6.98.10

द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे ।
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम् ॥ ६.९८.१० ॥

他在战斗中战胜了愤怒的德罗纳,也在交战中战胜了我,夺走了我们的衣服。这也是足够的明证。

6.98.11

तथा द्रौणिं महेष्वासं शारद्वतमथापि च ।
गोग्रहे जितवान्पूर्वं पर्याप्तं तन्निदर्शनम् ॥ ६.९८.११ ॥

同样,他先前在夺牛之役中也战胜了大弓手德罗纳之子(马嘶)和沙拉德瓦特之子(克里帕)。这也是足够的明证。

6.98.12

विजित्य च यदा कर्णं सदा पुरुषमानिनम् ।
उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम् ॥ ६.९८.१२ ॥

当他战胜了总以男子汉自居的迦尔纳,并把衣服赠给乌塔拉时,这也是足够的明证。

6.98.13

निवातकवचान्युद्धे वासवेनापि दुर्जयान् ।
जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम् ॥ ६.९८.१३ ॥

在战斗中,连因陀罗也无法战胜的尼婆多迦婆,被般度之子在战场上征服了;这已足以作为证明。

6.98.14

को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा ।
यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः ॥ ६.९८.१४ ॥

在那时的战场上,谁能战胜那勇猛的般度之子?他的护卫者是世界的护持者,手持螺号、轮盘与钵罗陀的神。

6.98.15

वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः ।
सर्वेश्वरो देवदेवः परमात्मा सनातनः ॥ ६.९८.१५ ॥

婆苏提婆拥有无限的力量,是创造与毁灭的根源,是一切之主、诸神之神、至上自我、永恒者。

6.98.16

उक्तोऽस्ति बहुशो राजन्नारदाद्यैर्महर्षिभिः ।
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन ॥ ६.९८.१६ ॥

大王啊,那牟尼们,以那罗陀为首,已多次说过;然而苏yodhana,你因迷惑而不知道什么该说、什么不该说。

6.98.17

मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान् ।
तथा त्वमपि गान्धारे विपरीतानि पश्यसि ॥ ६.९८.१७ ॥

将死之人看所有的树都是金色的;同样,甘陀利之子啊,你也颠倒地看待事物。

6.98.18

स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः ।
युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव।
अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ ६.९८.१८ ॥

你自己与般度之子和苏ñjaya结下大仇,今日就在战场上与他们交战吧;我们将拭目以待,要做个男子汉。般度之子即便是神灵与因陀罗联手也无法战胜。

6.98.19

अहं तु सोमकान्सर्वान्पाञ्चालांश्च समागतान् ।
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम् ॥ ६.९८.१९ ॥

人中之虎啊,我将杀尽此处集结的所有索摩迦人和般遮罗人,唯独放过尸ikhandin(湿婆坎丁)。

6.98.20

तैर्वाऽहं निहतः सङ्ख्ये गमिष्ये यमसादनम् ।
तान्वा निहत्य समरे प्रीतिं दास्याम्यहं तव ॥ ६.९८.२० ॥

我或将在战斗中被他们杀死而前往阎摩之所,或将在战争中杀死他们而使你欢喜。

6.98.21

पूर्व हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि ।
वरदानात्पुमाञ्जातः सैषा वे स्त्री शिखण्डिनी ॥ ६.९८.२१ ॥

从前,尸ikhandin在王宫中生为女子;因得到赐予的恩惠,她变成了男子。这个女子实为尸ikhandini。

6.98.22

तमहं न हनिष्यामि प्राणत्यागेऽपि भारत ।
याऽसौ प्राङ्वर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी ॥ ६.९८.२२ ॥

婆罗多之裔啊,即使付出生命,我也不会杀他;造物主先前所造之女,正是这位女子尸ikhandini。

6.98.23

सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम् ।
यं जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी ॥ ६.९८.२३ ॥

甘陀利之子啊,安心睡吧;明日我将打一场大战,只要大地存在,人们便会传颂此事。

6.98.24

एवमुक्तस्तव सुतो निर्जगाम जनेश्वर ।
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम् ॥ ६.९८.२४ ॥

人主啊,被如此说后,你的儿子便离开了;向师长低首致敬后,他回到了自己的住处。

6.98.25

आगम्य तु ततो राजा विसृज्य च महाजनम् ।
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः ॥ ६.९८.२५ ॥

国王返回后遣散了众人,这位消灭敌人者迅速走进了自己的住所。

6.98.26

प्रहृष्टः स निशां तां च गमयामास पार्थिवः ।
प्रभातायां च शर्वर्यां प्रातरुत्थाय तान्नृपः ॥ ६.९८.२६ ॥

国王欢喜地度过了那个夜晚;天亮时,国王清晨起身,(向他们下达了命令)。

6.98.27

राज्ञः समाज्ञापयत सेनां योजयतेति ह ।
अद्य भीष्मो रणे क्रद्धो निहनिष्यति सोमकान् ॥ ६.९८.२७ ॥

依国王之命,他下令布置军队,说道:今日在战场上,愤怒的毗湿摩将杀死索摩迦人。

6.98.28

दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु ।
मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥ ६.९८.२८ ॥

那夜听到难敌的许多哀叹,大王啊,他把那看作是针对自己的责备。

6.98.29

निर्वेदं परमं गत्वा विनिन्द्य परवश्यताम् ।
दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे ॥ ६.९८.२९ ॥

陷入极度沮丧,并谴责受他人支配,桑塔努之子渴望在战场上与阿周那交战,长久地思索。

6.98.30

इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् ।
दुर्योधनो महाराज दुःशासनमचोदयत् ॥ ६.९८.३० ॥

但是,大王啊,难敌从恒河之子的示意中得知他的想法,便催促了难降。

6.98.31

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।
द्वाविंशतिमनीकानि सर्वाण्येवाभिचोदय ॥ ६.९८.३१ ॥

难降啊,护卫毗湿摩的战车应立即套好;把二十二个军团全部驱动前进。

6.98.32

अयं हि समनुप्राप्तो वर्षपूगाभिचिन्तितः ।
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥ ६.९८.३२ ॥

这个经年累月所谋划的时刻已经来临:连同军队一并消灭般度之子,并获得王国。

6.98.33

तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् ।
स नो गुप्तः सहायः स्याद्धन्यात्पार्थांश्च संयुगे ॥ ६.९८.३३ ॥

因此我认为当务之急只是保护毗湿摩:得到保护,他将成为我们的助力,并能在战斗中杀死普利塔之子。

6.98.34

अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।
स्त्रीपूर्वको ह्यसौ राजंस्तस्माद्वर्ज्यो मया रणे ॥ ६.९८.३४ ॥

那心地纯净者说:我不会杀死始干底,因为他先前是女子。所以,大王啊,战斗中我将避开他。

6.98.35

लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया ।
राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥ ६.९८.३५ ॥

世人皆知,我为了让父亲欢喜,曾放弃繁盛的王国,也放弃了女人,啊,大臂者。

6.98.36

नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन ।
हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ ६.९८.३६ ॥

我绝不会在战斗中以任何方式杀死女子,也不会杀死先前是女子的人。人中之最啊,这真理我对你说。

6.98.37

अयं स्त्रीपूर्वको राजञ्छिखण्डी यदि ते श्रुतः ।
उद्योगे कथितं सर्वं यथा जाता शिखण्डिनी ॥ ६.९८.३७ ॥

国王啊,如果你听说过,这位希坎丁从前是女子。《努力篇》中已讲述了希坎蒂尼如何诞生的全部经过。

6.98.38

कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत ।
तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन ॥ ६.९८.३८ ॥

他本是女子,却以男子之身出生;婆罗多的后裔啊,他将会参战。我绝不会在他面前射出箭矢。

6.98.39

युद्धे हि क्षत्रियांस्तात पाण्डवानां जयैषिणः ।
सर्वानन्यान्हनिष्यामि संप्राप्तान्रणमूर्धनि ॥ ६.९८.३९ ॥

亲爱的,在战斗中,凡来到阵前、求取般度子孙胜利的刹帝利,我都将杀死,其他人也一样。

6.98.40

एवं मां भरतश्रेष्ठ गाङ्गेयः प्राह शास्त्रवित् ।
तत्र सर्वात्मना मन्ये गाङ्गेयस्यैव पालनम् ॥ ६.९८.४० ॥

婆罗多中最优秀者啊,通晓典籍的恒河之子(毗湿摩)曾对我这样说。因此我全心认为,应当保护的正是恒河之子。

6.98.41

अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाहवे ।
मा वृकेणेव गाङ्गेयं घातयेम शिखण्डिना ॥ ६.९८.४१ ॥

无人守护的狮子,在大战中也可能被狼所杀。我们不可让恒河之子被希坎丁所杀,就像被狼所杀一样。

6.98.42

मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः ।
यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥ ६.९८.४२ ॥

愿我的舅舅沙古尼、沙利耶、克里帕、德罗纳和毗文莎提小心护卫恒河之子。他得到守护,胜利便确定无疑。

6.98.43

एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा ।
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥ ६.९८.४३ ॥

众人听了难敌的这番话,便以战车之阵从四面环绕甘伽之子(毗湿摩)。

6.98.44

पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा ।
कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥ ६.९८.४४ ॥

你的儿子们簇拥甘伽之子,欢喜前行,使大地与天空震动,并惊扰般度诸子。

6.98.45

ते रथैः सुप्रसंयुक्तैर्दन्तिभिश्च महारथाः ।
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥ ६.९८.४५ ॥

那些大战车武士,以良驭的战车与战象,披甲而立,在战场上坚定地包围毗湿摩。

6.98.46

यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् ।
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥ ६.९८.४६ ॥

正如诸天在天神与阿修罗之战中环绕护卫持金刚者,他们也都环绕护卫那位大战车武士而立。

6.98.47

ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् ।
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्।
गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥ ६.९८.४७ ॥

于是国王难敌又对他的兄弟说:“左翼之车上是优陀摩尼由,右翼是乌塔摩乔;这两人是阿周那的护卫;而阿周那则护卫尸犍底。”

6.98.48

रक्ष्यमाणः स पार्थेन तथास्माभिर्विवर्जितः ।
यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥ ६.९८.४८ ॥

“难降,那受般度子保护的人已被我们远离;你要设法使他不能杀死我们的毗湿摩。”

6.98.49

भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव ।
भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया ॥ ६.९८.४९ ॥

您的儿子难降听了兄长的话,让毗湿摩走在前面,率军出发了。

6.98.50

भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम् ।
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥ ६.९८.५० ॥

阿周那见毗湿摩被战车阵所包围,便是车战中最优秀的他,对持国德牙说道。

6.98.51

शिखण्डिनं नरव्याघ्रं भीष्मस्य प्रमुखे नृप ।
स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताऽहमित्युत ॥ ६.९८.५१ ॥

国王啊,般遮罗王子啊!今日让人中之虎尸犍提站在毗湿摩面前,并说:“我是他的保护者。”