摩诃婆罗多 · 章 6.99
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.99.1
ततः शान्तनवो भीष्मो निर्ययौ सह सेनया ।
व्यूहं चाव्यूहत महत्सर्वतोभद्रमात्मनः ॥ ६.९९.१ ॥
于是产生于三摩陀之子婆罗多之子的毗湿摩率军出发,在己方布下了巨大的“四面吉祥”阵。
6.99.2
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः ।
शकुनिः सैन्धवश्चैव काम्भोजश्च सुदक्षिणः ॥ ६.९९.२ ॥
克里帕和克里达瓦尔曼、大车战士舍伊毗耶、沙古尼、信度王,以及甘菩阇王苏达克希那。
6.99.3
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत ।
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥ ६.९९.३ ॥
婆罗多啊,毗湿摩与所有人,连同你的诸子,站立在全军之前,居于阵列的前端。
6.99.4
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥ ६.९९.४ ॥
德罗纳、布里希罗婆、沙利耶与婆伽达多,尊贵者啊,披甲立于阵列右翼。
6.99.5
अश्वत्थामा सोमदत्तश्चावन्त्यौ च महारथौ ।
महत्या सेनया युक्ता वामं पक्षमपालयन् ॥ ६.९९.५ ॥
阿奢婆摩与索摩达多,以及阿汶帝的两位大车战士,率领庞大军队,守护着左翼。
6.99.6
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः ।
व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥ ६.९९.६ ॥
大王啊,杜尤达那被三乡人从四面包围,立于阵列中央,面向般度诸子,王啊,婆罗多啊。
6.99.7
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः ।
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥ ६.९९.७ ॥
阿兰布沙是最优秀的车战勇士,室鲁多耶斯是大车战士,二人披甲立于全军之后的阵列中。
6.99.8
एवं च तं तदा व्यूहं कृत्वा भारत तावकाः ।
सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥ ६.९९.८ ॥
婆罗多啊,你的人马就这样布成阵势,披甲而立,看上去像熊熊燃烧的火焰。
6.99.9
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ॥ ६.९९.९ ॥
接着,国王坚战、般度之子怖军、无种与偕天,以及摩德丽的两个儿子也都在那里。
6.99.10
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ॥ ६.९९.१० ॥
在全军之前,阵中披甲的勇士们站立着:德里斯塔德尤姆纳、毗罗吒,以及大车战士萨谛奇。
6.99.11
स्थिताः सैन्येन महता परानीकविनाशनाः ।
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ॥ ६.९९.११ ॥
与庞大军队一同站立的,是摧毁敌军的勇士:尸犍底、胜利,以及罗刹瓶首。
6.99.12
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ।
स्थिता रणे महाराज महत्या सेनया वृताः ॥ ६.९९.१२ ॥
大王啊,臂力强大的遮企陀那与勇猛的昆提波遮,被庞大的军队包围,立于战场之中。
6.99.13
अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः ।
युयुधानो महेष्वासो युधामन्युश्च वीर्यवान् ॥ ६.९९.१३ ॥
大弓手阿毗摩豆、大力者德鲁波陀、大弓手育尤陀那,以及勇猛的育陀摩尤。
6.99.14
केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः ।
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ॥ ६.९९.१४ ॥
甘迦国的兄弟们也披甲待战,他们同样对那难以战胜的大阵列布下了相应的反阵。
6.99.15
पाण्डवाः समरे शूराः स्थिता युद्धाय दंशिताः ।
तावकास्तु रणे यत्ताः सहसेना नराधिपाः ॥ ६.९९.१५ ॥
般度之子们,这些战场上的英雄,披甲待战;你方的诸王也率领军队在战场上准备就绪。
6.99.16
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाऽग्रतो नृप ।
तथैव पाण्डवा राजन्भीमसेनपरोगमाः ॥ ६.९९.१६ ॥
陛下,你方以毗湿摩为前锋,在战场上向普利塔之子发起进攻;陛下,般度诸子同样以怖军为首前进。
6.99.17
भीष्मं योद्धुमभीप्सन्तः संग्रामे विजयैषिणः ।
क्ष्वेलाः किलकिलाः शङ्खान्क्रकचान्गोविषाणिकाः ॥ ६.९९.१७ ॥
他们想与毗湿摩交战,在战斗中寻求胜利,于是吹响了吼叫、嘶鸣、海螺、锯子和牛角号。
6.99.18
भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् ।
पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ ६.९९.१८ ॥
他们敲响大鼓、鼓、帕纳瓦鼓和普什卡鼓,发出可怕的吼声,般度诸子向前推进。
6.99.19
भेरीमृद्गशङ्खानां दुन्दुभीनां च निःस्वनैः ।
उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥ ६.९९.१९ ॥
伴随着鼓声、摩利唱、海螺与战鼓的轰鸣,伴随着高亢的狮吼,以及各种跳跃与呐喊之声(战场回响震天)。
6.99.20
वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः ।
सहसैवाभिसंक्रद्धास्तदासीत्तुमुलं महत् ॥ ६.९९.२० ॥
我们以吼声回应他们,急速前行;我们骤然怒火冲天地前进,那时便发生了巨大的喧嚣。
6.99.21
ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे ।
ततः शब्देन महता प्रचकम्पे वसुंधरा ॥ ६.९९.२१ ॥
于是他们彼此冲杀,展开猛烈的搏击;随着那巨大的声响,大地震动起来。
6.99.22
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः ।
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥ ६.९९.२२ ॥
鸟儿发出可怕的鸣叫,盘旋飞舞;光明的太阳被驱动,却变得黯淡无光。
6.99.23
ववुश्च वातास्तुमुलाः शंसन्तः सुमहद्भयम् ।
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ॥ ६.९९.२३ ॥
狂暴的风吹起,预示着巨大的危险;那里,可怖的豺狼发出骇人的嚎叫,哀号不止。
6.99.24
वेदयन्त्यो महाराज महद्वैशसमागतम् ।
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ॥ ६.९९.२४ ॥
大王啊,四方似乎燃烧起来,预示大灾难降临;王啊,尘土如雨般落下。
6.99.25
रुधिरेण समुन्मिश्रमस्थिवर्षं पपात च ।
रुदतां वाहनानां च नेत्रेभ्यः प्रापतञ्जलम् ॥ ६.९९.२५ ॥
血混杂的骨头如雨般落下,哭泣的坐骑眼中也流出了泪水。
6.99.26
सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशांपते ।
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ॥ ६.९९.२६ ॥
人主啊,他们沉思之际竟排出粪便和小便;婆罗多族的雄牛啊,从隐蔽之处传来了巨大的呼号声。
6.99.27
रक्षसां पुरुषादानां नदतां भैरवान्रवान् ।
संपतन्तश्च दृश्यन्ते गोमायबलवायसाः ॥ ६.९९.२७ ॥
只见食人的罗刹发出可怖的吼叫,豺狼、秃鹫与乌鸦纷纷扑下。
6.99.28
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र मारिष ।
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् ।
निपेतुः सहसा भूमौ वेदयन्त्यो महद्भयम् ॥ ६.९९.२८ ॥
那里的狗以各种声音吠叫,尊贵的主人啊;燃烧的巨大流星撞上太阳,突然坠落于地,预示着大难。
6.99.29
महान्त्यनीकानि महासमुच्छ्रये ।
ततस्तयोः पाण्डवधार्तराष्ट्रयोः।
चकम्पिरे शङ्खमृदङ्गनिःस्वनैः ।
प्रकम्पितानीव वनानि वायुना ॥ ६.९९.२९ ॥
在那场大战的兴起之中,有庞大的军队。那时,般度子与持国之子的两支军队,被螺号与鼓声震得颤抖,如同被风摇撼的森林。
6.99.30
नरेन्द्रनागाश्वसमाकुलाना-
मभ्यायतीनामशिवे मुहूर्ते।
बभूव घोषस्तुमुलश्चमूनां ।
वातोद्धुतानामिव सागराणाम् ॥ ६.९९.३० ॥
在大军推进、君王、象与马云集的不吉时刻,一阵喧嚣的吼声升起,犹如被风掀动的大海。