摩诃婆罗多 · 章 7.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.1.1
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
तमप्रतिमसत्वौजोबलवीर्यपराक्रमम् ।
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥ ७.१.१ ॥
向那罗延、那罗、最优秀的人、女神萨罗室伐蒂和毗耶娑致敬之后,应当宣说胜利。听说无与伦比的勇气、精力、力量、威武与气概的提婆跋罗陀(毗湿摩)被般遮罗人湿嗢伽嚟所杀之后——
7.1.2
धृतराष्ट्रस्ततो राजा शोकव्याकूललोचनः ।
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ॥ ७.१.२ ॥
那时国王持国,双眼因悲痛而迷乱。婆罗门中的仙人啊,父亲被杀之后,这位有勇力的人做了什么?
7.1.3
तस्य पुत्रो हि भगवान्भीष्मद्रोणमुखै रथैः ।
पराजित्य महेष्वासान्पाण्डवान् राज्यमिच्छति ॥ ७.१.३ ॥
他的儿子尊者(难敌),以毗湿摩和德罗纳为首的战车击败了大弓手般度五子,现在想要王国。
7.1.4
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् ।
यदचेष्टत कौरव्यस्तन्मे ब्रूहि तपोधन ॥ ७.१.४ ॥
苦行富足者啊,请告诉我:当那位是一切弓手旗帜的人被杀之后,考罗婆做了什么。
7.1.5
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः ।
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ॥ ७.१.५ ॥
听闻父亲被杀,民王持国未能获得平静;这位考罗婆沉溺于忧虑与悲伤之中。
7.1.6
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् ।
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥ ७.१.६ ॥
当国王不断为此忧愁悲伤之时,心地纯净的伽伐尔伽那之子(散闍耶)又来了。
7.1.7
व्यासप्रसादाद्विज्ञाय सर्वं वृत्तान्तमुत्तमम् ।
सैनिकानां च सर्वेषां सेनयोरुभयोस्तदा ॥ ७.१.७ ॥
蒙毗耶萨的恩典,得知了全部殊胜的经过,以及当时两军所有士兵的情况。
7.1.8
शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् ।
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ॥ ७.१.८ ॥
从营地于夜间抵达那伽呼亚城的桑遮耶,被阿比迦之子持国王询问,大王啊。
7.1.9
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् ।
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥ ७.१.९ ॥
听闻毗湿摩之死,心中极不欢喜,渴望儿子们获胜,他痛苦地哀叹,仿佛。
7.1.10
संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम् ।
किमकार्षुःपरं तात कुरवः कालचोदिताः ॥ ७.१.१० ॥
悲悼具大德、勇武可怖的毗湿摩之后,被时运驱使的俱卢人又做了什么,我的孩子?
7.1.11
तस्मिन्विनिहते शूरे दुराधर्षे महात्मनि ।
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥ ७.१.११ ॥
那位英雄、难以抵挡、大德之人被杀之后,沉没在悲痛之海中的俱卢人又做了什么?
7.1.12
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय ।
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ॥ ७.१.१२ ॥
那支强大的大军,足以使三界都感到恐惧,桑遮耶啊,必将使具大德的般度之子们心生极大的恐惧。
7.1.13
को हि दौर्योधने सैन्ये पुमानासीन्महारथः ।
यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये ॥ ७.१.१३ ॥
在难敌的军队中,究竟有哪位大车战士,在战场上遇到他时,英雄们即使在大恐惧中也不颤抖?
7.1.14
देवव्रते तु निहते कुरूणामृषभे तदा ।
किमकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय ॥ ७.१.१४ ॥
当库鲁族的雄牛提婆跋罗多(毗湿摩)被杀之后,诸王当时做了什么?请告诉我,桑耶,
7.1.15
शृणु राजन्नेकमना वचनं ब्रुवतो मम ।
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥ ७.१.१५ ॥
大王,请专心听我的话:当提婆跋罗多在战斗中被杀后,你的儿子们做了这些事。
7.1.16
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे ।
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥ ७.१.१६ ॥
大王,当真正勇猛的毗湿摩被杀之后,你方的人和般度的儿子们各自陷入了沉思。
7.1.17
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशम्य ते ।
स्वधर्मं निन्दमानास्ते प्रणिपत्य महात्मने ॥ ७.१.१७ ॥
他们思考了刹帝利的职责,既惊讶又欢喜;他们一边责备自己的本分,一边向那位大德之人行礼。
7.1.18
शयनं कल्पयामासुर्भीष्मायामितकर्मणे ।
सोपधानं नरव्याघ्र शरैः सन्नतपर्वभिः ॥ ७.१.१८ ॥
他们为功业无量的毗湿摩准备了床榻,连同枕头,——啊,人中之虎,用节部弯曲的箭矢制成。
7.1.19
विधाय रक्षां भीष्माय समाभाष्य परस्परम् ।
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ॥ ७.१.१९ ॥
安排好对毗湿摩的护卫,彼此商议之后,征得恒河之子的同意,并向他右绕致敬。
7.1.20
क्रोधसंरक्तनयनाः समवेत्य परस्परम् ।
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥ ७.१.२० ॥
双目因愤怒而通红的刹帝利,彼此相会之后,受时间驱使,再次出发投入战斗。
7.1.21
ततस्तूर्यनिनादैश्च भेरीणां निनदेन च ।
तावकानामनीकानि परेषां च विनिर्ययुः ॥ ७.१.२१ ॥
于是,在号角齐鸣、大鼓轰响之中,你方与敌方的军队纷纷出动。
7.1.22
व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते ।
अमर्षवशमापन्नाः कालोपहतचेतसः ॥ ७.१.२२ ॥
大王啊,太阳已转向,恒河之子已倒下,他们为愤怒所controlled,心智被时间所迷惑,
7.1.23
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः ।
निर्ययुर्भरतश्रेष्टाः शस्त्राण्यादाय सत्वराः ॥ ७.१.२३ ॥
无视恒河之子这位大德者的良言,婆罗多的俊杰们拿起武器,匆匆出发。
7.1.24
मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च ।
कौरवा मृत्युनाऽऽहूताः सहिताः सर्वराजभिः ॥ ७.१.२४ ॥
因你的迷惑,连同你的诸子,以及因为杀害了师端之子,俱卢族人被死亡召唤,与所有诸王聚集在一起。
7.1.25
अजावय इवागोपा वने श्वापदसंकुले ।
कर्णकर्णेति चाक्रन्दञ्छेषा भारत पार्थिवाः।
भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥ ७.१.२५ ॥
如同无牧人的山羊绵羊困于群兽出没的森林中,其余诸王高呼“迦尔纳、迦尔纳”,婆罗多啊,失去了提婆跋罗多(毗湿摩),心中极度惶乱。
7.1.26
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी ।
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ॥ ७.१.२६ ॥
婆罗多中最优秀者倒下后,俱卢大军如同失去星辰的天空,如同被风吹空的天空。
7.1.27
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा ।
आसुरीव यथा सेना निगृहीते नृपे बलौ ॥ ७.१.२७ ॥
如同庄稼毁尽的大地,如同未经修饰的言辞,又如当强大的国王钵利被擒时的阿修罗军队。
7.1.28
विधवेव वारारोहा शुष्कतोयेव निम्नगा ।
वृकैरिव वने रुद्धा पृषती हतयूथपा ॥ ७.१.२८ ॥
如同寡居的美腰女子,如同水涸的河流,又如失去群首的斑鹿在林中被狼群包围。
7.1.29
शरभाऽऽहतसिंहेव महती गिरिकन्दरा ।
सा सेना भरतश्रेष्ठे पतिते जाह्नवीसुते ॥ ७.१.२९ ॥
当婆罗多最优秀者、恒河之子倒下后,那支军队如同大山洞穴中被沙罗跋所伤的狮子。
7.1.30
विष्वग्वाताहतिक्षुब्धा नौरिवासीन्महार्णवे ।
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥ ७.१.३० ॥
那支军队如同大海中被四面狂风吹打的船只,被找准目标的强大般度英雄们猛烈打击,痛苦不堪。
7.1.31
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा ।
विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा ॥ ७.१.३१ ॥
那时,这支军队极度慌乱,马、车与象都已混乱,大多数士兵已经倒下,军队变得凄惨而心志崩溃。
7.1.32
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः ।
पाताल इव मज्जन्तो हीना देवव्रतेन ते। ॥ ७.१.३२ ॥
其中惊恐的诸王与各式士兵,仿佛沉没于地底深渊,失去了提婆跋多(毗湿摩)。
7.1.33
कर्णस्य कुरवोऽस्मार्षुः स हि देवव्रतोपमः ।
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् ॥ ७.१.३३ ॥
俱卢人想起了迦尔纳,他与提婆跋多相似,是一切持械者中最优秀的,如同一位光彩照人的客人。
7.1.34
बन्धुमापद्गतस्येव तमेवोपागमन्मनः ।
चुक्रुशुः कर्णकर्णेति तत्र भारत पार्थिवाः ॥ ७.१.३४ ॥
心意仿佛投向陷入困境的亲人,他们便向他而去;婆罗多啊,那里的诸王高呼:“迦尔纳,迦尔纳!”
7.1.35
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ।
स हि नाबुध्यत तदा दशाहानि महायशाः ॥ ७.१.३५ ॥
拉达之子迦尔纳,我们的恩人,御者之子,舍身不顾者——那位大名的人,那时十日都不知此事。
7.1.36
सामात्यबन्धुः कर्णो वै तमानयत माचिरम्। ॥ ७.१.३६ ॥
迦尔纳与他的大臣及亲族——立刻把他带来,不要延误!
7.1.37
रथेषु गण्यमानेषु बलविक्रमशालिषु ।
सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ॥ ७.१.३७ ॥
在被计数的、具备力量与勇武的战车武士之中,迦尔纳被算作半车武士;他是人中的公牛,力量加倍。
7.1.38
रथातिरथसङ्ख्यायां योऽग्रणीः शूरसम्भतः ।
सासुरानपि देवेशान्रणे यो योद्धुमुत्सहेत् ॥ ७.१.३८ ॥
在车战士与大车战士的计数中居于首位、充满勇气的英雄,他敢于在战场上与阿修罗一道对抗诸神之主。
7.1.39
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् ।
त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन। ॥ ७.१.३९ ॥
然而他怀着同样的愤怒对恒河之子说:“大王,俱卢子孙啊,只要你还活着,我永远不会参战。”
7.1.40
त्वया तु पाण्डवेयेषु निहतेषु महामृधे ।
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥ ७.१.४० ॥
“然而,在大战中你杀死般度子孙之后,俱卢子孙啊,我将告别难敌,前往森林。”
7.1.41
हते वा त्वयि पार्थैस्तु युधि स्वर्गमुपेयुषि ।
हन्तास्म्येकरथेनैव कृत्स्नान् यान्मन्यसे रथान् ॥ ७.१.४१ ॥
“或者当你被普利塔之子在战斗中杀死、升上天界之后,我将独自乘一辆战车,消灭你所想到的一切战车。”
7.1.42
एवमुक्त्वा महाबाहुर्दशाहान्येक एव स ।
नायुध्यत ततः कर्णः पुत्रस्य तव संयते ॥ ७.१.४२ ॥
说罢,这位大臂者十日不独自参战;那时迦尔纳在战斗中并未为你的儿子而战。
7.1.43
भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत ।
जघान समरे योधानसङ्ख्येयपराक्रमः ॥ ७.१.४३ ॥
婆罗多之子啊,毕湿摩在战场上威勇无比,以无数的勇力在战斗中击杀了般度族军队的战士。
7.1.44
तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि ।
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ॥ ७.१.४४ ॥
当那位信守诺言、大有威力的英雄被杀之后,你的儿子们想起了迦尔纳,正如想要渡河的人想起木筏。
7.1.45
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः ।
हा कर्ण इति चाक्रन्दन्कालोऽयमिति अब्रुवन् ॥ ७.१.४५ ॥
你的部众与儿子们,连同所有国王,哀叫道:“哎呀,迦尔纳!”并说:“此时正是时候。”
7.1.46
एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम् ।
चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः ॥ ७.१.४६ ॥
于是,那些大力的战士聚集在一起,到处为迦尔纳哀哭——他是罗陀之子、御者之子,已舍弃了身体。
7.1.47
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् ।
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥ ७.१.४७ ॥
我们的心思转向迦尔纳——他从持斧罗摩处得到了武器,勇力无法抵挡,正如遇到大难时心念转向亲人。
7.1.48
स हि शक्तो रणे राजञ्स्त्रातुमस्मान्महाभयात् ।
त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥ ७.१.४८ ॥
大王啊,他在战场上有能力使我们脱离大恐惧,正如哥温达常常使诸天脱离大恐惧。
7.1.49
तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः ।
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥ ७.१.४९ ॥
桑闍耶不停地赞颂迦尔纳,持国王如毒蛇般喘息,便说了这些话。
7.1.50
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा ।
उप्यरक्षत्स राधेयः सूतपुत्रस्तनुत्यजः ॥ ७.१.५० ॥
当时你们的心转向了毗迦尔摩之子迦尔纳;那位罗陀之子、御者之子、不惜舍身的人护卫了它。
7.1.51
अपि तन्न मृषाकार्षीत्कच्चित्सत्यपराक्रमः ।
सम्भान्तानां तदार्तानां त्रस्तानां त्राणमिच्छतां ॥ ७.१.५१ ॥
那位真勇之人,难道没有让他对慌乱、受苦、惊恐、寻求庇护者所许下的保护之诺落空吗?
7.1.52
अपि तत्पूरयांचक्रे धनुर्धरवरो युधि ।
यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम् ॥ ७.१.५२ ॥
那位战场上最优秀的弓箭手,是否完成了婆罗多人在毗湿摩阵亡后所遗落的那件事?
7.1.53
तत्खण्डं पूरयन्कर्णः परेषामादधद्भयम् ।
स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते ॥ ७.१.५३ ॥
他填补了那个缺口,使敌人心生恐惧。桑闍耶啊,他在世上确被称为人中的猛虎。
7.1.54
आर्तानां बान्धवानां च क्रन्दतां च विशेषतः ।
परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च।
कृतवान्मम पुत्राणां जयाशां सफलामपि ॥ ७.१.५४ ॥
他在战场上舍弃性命,首先为了保护受苦的人和哭泣的亲属,并给予他们庇护,也使我儿子们的胜利希望得以实现。
7.1.63
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः ॥ ७.१.६३ ॥
的确,大臂者在所有刹帝利的注视下被毗湿摩所击倒。