摩诃婆罗多 · 章 7.100
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.100.1
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना ।
निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥ ७.१००.१ ॥
当那水被造出,伟大的昆提之子使敌军渡过,并构筑了箭之居所时……
7.100.2
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः ।
मोचयामास तुरगान्विनुन्नान्कङ्कपत्रिभिः ॥ ७.१००.२ ॥
大光明的婆苏提婆迅速下车,解救了被带有鹤羽之箭所伤的马匹……
7.100.3
अदृष्टपूर्वं तद्दृष्ट्वा साधुवादो महानभूत् ।
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥ ७.१००.३ ॥
众人见到此前从未见过的景象,悉达与遮罗那的众群及士兵四处发出大声赞叹……
7.100.4
पदातिनं तु कौन्तेयं युध्यमानं महारथाः ।
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥ ७.१००.४ ॥
然而大车将士无法阻挡步战的昆提之子,那件事竟如奇迹一般……
7.100.5
आपतत्सु रथौघेषु प्रभूतगजवाजिषु ।
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥ ७.१००.५ ॥
当成群的战车与众多象马冲来时,普利塔之子并不慌乱;他超越于自己的部众之上……
7.100.6
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः ।
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥ ७.१००.६ ॥
诸王向般度之子射出箭雨,然而法魂、因陀罗之子、诛灭敌方英雄者并不动摇……
7.100.7
शतानि शरजालानि गदाः प्रासांश्च वीर्यवान् ।
आगतानग्रसत्पार्थः सरितः सागरो यथा ॥ ७.१००.७ ॥
勇猛的帕尔塔吞没了射向他的数百张箭网、钺杖与长矛,正如大海吞没河流。
7.100.8
अस्त्रवेगेन महता पार्थो बाहुबलेन च ।
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥ ७.१००.८ ॥
凭借强大的兵器之力和臂膀之力,帕尔塔吞没了所有王中之王射来的上乘箭矢。
7.100.9
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः ।
अपूजयन्महाराज कौरवा महदद्भुतम् ॥ ७.१००.९ ॥
大王啊,俱卢人赞叹帕尔塔与瓦苏提婆两人的那一英勇之举,认为极为奇妙。
7.100.10
किमद्भुततमं लोके भविताऽप्यथवा ह्यभूत् ।
यदश्वान्पार्थ गोविन्दौ पाययामासतू रणे ॥ ७.१००.१० ॥
世上还有什么比帕尔塔与戈温达在战场上给马饮水更奇妙的事吗?
7.100.11
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ ।
तेजो विदधतुश्चोग्रं यत्सैन्यं तावकं विभो।
दधारैको रणे पार्थो वेलेवोद्वृत्तमर्णवम् ॥ ७.१००.११ ॥
那两位人中雄杰使我们陷入极大的恐惧。主啊,他们对您的军队展现了猛烈的光辉;而在战场上只有帕尔塔一人将其阻挡,如同海岸挡住翻腾的大海。
7.100.12
पार्थस्य शरसञ्छन्ने तस्मिन्सद्मनि भारत ।
आकाशमिव सम्प्राप्य विचेरुस्तत्र पक्षिणः ॥ ७.१००.१२ ॥
婆罗多啊,在那被帕尔塔的箭矢覆盖的地方,鸟儿们飞至如同天空的所在,在那里盘旋飞翔。
7.100.13
न चैनं युधि तिष्ठन्तं सैन्येषु तव मारिष ।
अभ्यद्रवत्सुसङ्क्रुद्धः पुमान्कश्चित्तु तावकः ॥ ७.१००.१३ ॥
主公啊,你军中无一人怒极而冲上前去攻击那屹立于战场的人。
7.100.14
सर्वे विमनसोऽभूवंस्तव योधा विशाम्पते ।
सम्प्रेक्ष्य तत्र गोविन्दं पाण्डवं च धनञ्जयम् ॥ ७.१००.१४ ॥
人主啊,见到那里的戈温达与般度之子财胜,你的所有战士都心灰意冷。
7.100.15
अथ स्मयन्हृषीकेशः स्त्रीमध्य इव भारत ।
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ॥ ७.१००.१५ ॥
于是,喜笑的希利希盖莎,仿佛身处女人之中,婆罗多啊,立于阿周那在战中所造的那箭之内室里。
7.100.16
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः ।
मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते ॥ ७.१००.१६ ॥
人主啊,莲花眼者不慌不忙地调转了那些马,而你的全军都在观看。
7.100.17
उपावृत्त्योत्थितानश्वान्पाणिभ्यां पुष्करेक्षणः ।
सम्मार्जयन्रणे राजन्पश्यतां सर्वयोधिनाम् ॥ ७.१००.१७ ॥
大王啊,莲花眼者调转马匹,扶起它们,在战场上用自己的双手为它们拂拭,所有战士都在观看。
7.100.18
तेषां श्रमं च ग्लानिं च वमथुं वेपथुं व्रणान् ।
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥ ७.१००.१८ ॥
克里希那驱除了它们所有的疲劳、倦怠、呕吐、颤抖与伤口,因为他精通养马之事。
7.100.19
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् ।
उपावर्त्य यथान्यायं पाययामास वारि सः ॥ ७.१००.१९ ॥
他拔出箭矢,用手抚拭那些马匹,依礼将它们调转,并让它们饮水。
7.100.20
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् ।
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥ ७.१००.२० ॥
让那些马饮水、洗浴、进食,解除疲劳之后,他欢欣地再次将它们套上了最好的战车。
7.100.21
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः ।
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥ ७.१००.२१ ॥
他登上那辆上好战车,作为一切执兵者中最优秀、威光赫赫的首领,与阿周那一同迅速出发。
7.100.22
योजयित्वा हयांस्तस्य विधिदृष्टेन कर्मणा ।
रणे चचार गोविन्दस्तृणीकृत्य महारथान् ॥ ७.१००.२२ ॥
他依照规定的方法为马匹套好车,戈文达在战场上驰骋,将大车士视如草芥。
7.100.23
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः ।
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥ ७.१००.२३ ॥
看见那位优秀战车手的战车套上了饮过水的马匹,库鲁军中的精锐再次情绪低落。
7.100.24
विनिःस्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः ।
घिगहोऽतिगतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥ ७.१००.२४ ॥
国王啊,他们像断了毒牙的蛇一样长叹,各自说道:“可耻!阿周那与黑天已经将我们甩在身后了!”
7.100.25
तत्सैन्यं सर्वतो दृष्ट्वा रोमहर्षणमद्भुतम् ।
त्वरध्वमिति चाक्रन्दन्नैतदस्तीति चावुवन् ॥ ७.१००.२५ ॥
他们四面看到那支令人毛骨悚然、极其奇异的军队,便大声呼喊:“快些!”又说:“这不可能是真的!”
7.100.26
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ ।
बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥ ७.१००.२६ ॥
众刹帝利眼看着,那二人同乘一辆战车,如同孩童玩耍玩具,轻视了我们的力量……
7.100.27
क्रोशतां यतमानानामसंसक्तौ परन्तपौ ।
दर्शयित्वाऽत्मनो वीर्यं प्रयातौ सर्वराजसु ॥ ७.१००.२७ ॥
我们呼喊奋战之时,那两位令敌人痛苦的人,毫无阻碍地在众王面前展示了自己的勇力,然后离去。
7.100.28
यथा देवासुरे युद्धे तृणीकृत्य च दानवान् ।
इन्द्राविष्णू पुरा राजञ्जम्भस्य वधकाङ्क्षिणौ ॥ ७.१००.२८ ॥
正如昔日在神魔之战中,王啊,因陀罗与毗湿奴视檀那婆如草芥,渴望诛杀瞿婆……
7.100.29
तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाब्रुवन् ।
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥ ७.१००.२९ ॥
众兵见那二人又走了,便说:“众库卢人啊,都快些,为杀死黑天与戴冠者!”
7.100.30
रथं युङ्क्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् ।
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥ ७.१००.३० ॥
众弓手看着,达舍尔哈(黑天)驾车,朝向胜车而去,在战场上轻视了我们。
7.100.31
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः ।
अदृष्टपूर्वं सङ्ग्रामे तदृष्ट्वा महदद्भुतम् ॥ ७.१००.३१ ॥
君王啊,那里有些地上的统治者彼此交谈起来,因为他们看见了战场上从未见过的那大奇迹。
7.100.32
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः ।
दुर्योधनापराघेन क्षत्रं कृत्स्ना च मेदिनी ॥ ७.१००.३२ ॥
所有军队和国王持国都已走向毁灭;因难敌之过,刹帝利种姓和整个大地。
7.100.33
विलयं समनुप्राप्ता तच्च राजा न बुध्यते ।
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥ ७.१००.३३ ॥
那毁灭已完全降临,而国王却不明白。婆罗多啊,那里其他刹帝利也这样说。
7.100.34
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् ।
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥ ७.१००.३४ ॥
愿那位目光短浅、不知计策的持国之子,去做那已赴阎摩居所的信度王应做之事。
7.100.35
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति ।
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥ ७.१००.३५ ॥
那时般度之子更加迅速地向信度王驰去;太阳正在西斜,马匹饮水后十分欢喜。
7.100.36
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् ।
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥ ७.१००.३६ ॥
众武士无法阻挡那正在前进的大臂者,他是所有持武器者中最优秀的,正如无法阻挡愤怒的终结者阎摩。
7.100.37
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः ।
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥ ७.१००.३७ ॥
于是折磨敌人的般度之子驱散军队并将其冲散,如狮子为信度王而冲散鹿群一般。
7.100.38
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् ।
बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत् ॥ ७.१००.३८ ॥
他冲入军阵,迅速策马疾驰;而达沙尔哈吹响了白如鹭鸶的般遮曼陀罗贝壳,声震四方。
7.100.39
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः ।
तूर्णात्तूर्णतरं ह्यश्वाः प्रावहन्वातरंहसः ॥ ७.१००.३९ ॥
昆提之子向前射出的箭反而落在身后;疾如风的骏马带着他越来越快地向前奔驰。
7.100.40
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् ।
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥ ७.१००.४० ॥
于是愤怒的诸王和许多其他刹帝利包围了寻求杀死胜车的财天。
7.100.41
सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम् ।
दुर्योधनोऽत्वयात्पार्थं त्वरमाणो महाहवे ॥ ७.१००.४१ ॥
军队溃散之后,杜尤达那在大战中急速追赶那位屹立不动的人中之牛——普利塔之子。
7.100.42
वातोद्धूतपताकं तं रथं जलदनिःस्वनम् ।
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥ ७.१००.४२ ॥
看见那辆可怖的战车——旗帜随风飘扬,声如乌云雷鸣,旗上有猴子——车战士们都沮丧起来。
7.100.43
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् ।
शरार्ताश्चरणे योधाः शेकुः कृष्णौ न वीक्षितुम् ॥ ७.१००.४३ ॥
当太阳被尘土从四面全部遮蔽时,被箭矢所伤的战士们无法看清那两位黑者(克里希纳与阿周那)。