Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.101

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.101.1

स्रंसन्त इव मज्जानस्तावकानां भयान्नृप ।
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ॥ ७.१०१.१ ॥

君王啊,见到婆苏提婆与财胜(阿周那)越过前来,你的人马仿佛骨髓都因恐惧而融化。

7.101.2

सर्वे तु प्रतिसंरब्धा हीमन्तः सत्वचोदिताः ।
स्थिरीभूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ॥ ७.१०१.२ ॥

然而,所有知耻、受勇气驱使、怒火中烧的大德之人都变得坚定,迎上前去对抗财胜。

7.101.3

ये गताः पाण्डवं युद्धे रोषामर्षसमन्विताः ।
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ॥ ७.१०१.३ ॥

那些怀着愤怒与不满在战场上迎战般度之子的人,至今仍未回头,犹如河流不从大海返回。

7.101.4

असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः ।
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ॥ ७.१०१.४ ॥

然而那些不善之人像背离吠陀的无信者一样退缩了;他们走向地狱,招致了罪孽。

7.101.5

तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ ।
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ॥ ७.१०१.५ ॥

穿越战车阵列之后,这两位人中雄牛获得解脱,显现如同从罗睺之口脱出的两轮太阳。

7.101.6

मत्स्याविव महाजालं विदार्य विगतक्लमौ ।
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ॥ ७.१०१.६ ॥

如同两条鱼撕破大网而不感疲惫地游出,那两位黑天也在撕破军阵的罗网后显现出来。

7.101.7

विमुक्तौ शस्त्रसम्बाधाद्रोणानीकात्सुदुर्भिदात् ।
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ॥ ७.१०१.७ ॥

二位大德从刀兵的重围中、从极难突破的德罗纳大军中脱身,显现出来,如同升起的劫末太阳。

7.101.8

अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात् ।
अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ॥ ७.१०१.८ ॥

二位大德摆脱了箭矢的重围与兵刃的险境,显现出来,使敌人陷入窘迫。

7.101.9

विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव ।
अक्षोभयेतां सेनां तौ समुद्रं मकराविव ॥ ७.१०१.९ ॥

二人如两条脱离火焰与鳄口的鱼,搅动了军队,如同两条海中巨兽搅动大海。

7.101.10

तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः ।
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ॥ ७.१०१.१० ॥

您的人和您的儿子们,关于站在德罗纳军中的那二人,当时作出了判断:这二人不能越过德罗纳。

7.101.11

तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती ।
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ॥ ७.१०१.११ ॥

然而,见那二位光辉者穿过了德罗纳的大军,大王啊,他们便不再指望信度王的性命。

7.101.12

आशा बलवती राजन्सिन्धुराजस्य जीविते ।
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ॥ ७.१०१.१२ ॥

信度王的性命,尚有强大的希望,主上啊:这二位黑天,他们说,不会从德罗纳与哈尔迪基亚手中脱身。

7.101.13

तामाशां विफलीकृत्य सन्तीर्णौ तौ परन्तपौ ।
द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ॥ ७.१०१.१३ ॥

大王,这两位焚烧敌人的英雄使那一希望落空,越过了德罗纳的军队和跋阇军队,那是难以穿越的。

7.101.14

अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ ।
निराशाः सिन्धुराजस्य जीवितं न शशंसिरे ॥ ७.१०१.१४ ॥

此时,他们见那二人如两团烈火般穿过,对信陀王的生命已感绝望,便不再谈论他的存活。

7.101.15

मिथश्च समभाषेतामभीतौ भयवर्धनौ ।
जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ॥ ७.१०१.१५ ॥

无畏而令人生惧的黑天与财种彼此谈论了许多关于杀死胜车的话语。

7.101.16

असौ मध्ये कृतः षङ्भिर्धार्तराष्ट्रैर्महारथैः ।
चक्षुर्विषयसम्प्राप्तो न मे मोक्ष्यति सैन्धवः ॥ ७.१०१.१६ ॥

那位信陀王被持车的六大勇士,即持国之子们,安置在中间,已进入我的视线;他不会从我手中逃脱。

7.101.17

यद्यस्य समरे गोप्ता शक्रो देवगणैः सह ।
तथाप्येनं निहंस्याव इति कृष्णावभाषताम् ॥ ७.१०१.१७ ॥

即使在战斗中因陀罗与诸神之众护卫他,我们二人仍会杀死他——黑天与阿周那如此说。

7.101.18

इति कृष्णौ महाबाहू मिथः कथयतां तदा ।
सिन्धुराजमवेक्षन्तौ त्वत्पुत्रा बहु चुक्रुशुः ॥ ७.१०१.१८ ॥

见大臂的黑天与阿周那如此相互交谈,您的儿子们望着信陀王,大声呼喊起来。

7.101.19

अतीत्य मरुधन्वानं प्रयान्तौ तृषितौ गजौ ।
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिन्दमौ ॥ ७.१०१.१९ ॥

两头口渴的象穿过摩卢檀婆沙漠,饮水之后恢复了精神;那两位征服敌人的英雄也同样恢复了精神。

7.101.20

व्याघ्रसिंहगजाकीर्णानतिक्रम्य च पर्वतान् ।
वणिजाविव दृश्येतां हीनमृत्यू जरातिगौ ॥ ७.१०१.२० ॥

穿过布满虎、狮、象的群山之后,二人看起来就像商人一样,已超越死亡与衰老。

7.101.21

तथाहि मुखवर्णोऽयमनयोरिति मेनिरे ।
तावका वीक्ष्य मुक्तौ तौ विक्रोशन्ति स्म सर्वशः ॥ ७.१०१.२१ ॥

你方的人认为这两人的面色正是如此;看见那两人脱身,你方的人从四面八方大声呼喊。

7.101.22

द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् ।
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ॥ ७.१०१.२२ ॥

二人从如毒蛇、如烈火的德罗纳以及其他国王之手脱身,看起来就像两轮光辉的太阳。

7.101.23

विमुक्तौ सागरप्रख्याद्रोणानीकादर्रिदमौ ।
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ॥ ७.१०१.२३ ॥

从如大海般的德罗纳军中脱身之后,那两位征服敌人的英雄满心欢喜地显现出来,仿佛已渡过大海。

7.101.24

अस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितात् ।
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ॥ ७.१०१.२४ ॥

二人从德罗纳与哈尔迪基亚所护卫的巨大箭雨中脱身,光辉闪耀,在战场上看起来如同因陀罗与火神。

7.101.25

उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः ।
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ॥ ७.१०१.२५ ॥

那两位黑色的英雄被婆罗堕遮之子(德罗纳)锐利的箭射得鲜血淋漓,犹如两座覆盖着卡尼迦罗花的山峰,光彩照人。

7.101.26

द्रोणग्राहहूदान्मुक्तौ शक्त्याशीविषसङ्कटात् ।
अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ॥ ७.१०१.२६ ॥

两人从德罗纳的鳄鱼之池、枪矛毒蛇的危险中脱身,并从那场以铁箭摩羯为猛兽、以诸位上等刹帝利为水的战斗中解脱出来。

7.101.27

ज्याघोषतलनिर्हादाद्गदानिस्त्रिंशविद्युतः ।
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ॥ ७.१०१.२७ ॥

二人从弓弦的轰鸣与手掌的拍击声中,从铁锤与剑的闪电中,从德罗纳武器之云中脱身,犹如日月从黑暗中被释放。

7.101.28

बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः ।
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥ ७.१०१.२८ ॥

仿佛两人以自己的双臂渡过,又如流向大海的信度河六条支流,或夏末充满大摩羯鳄的河水满溢之川。

7.101.29

महाशैलोच्चयां घोरां लङ्घयित्वा महानदीम् ।
निस्तीर्णावध्वगौ यद्वत्तद्वत्तौ तारितौ रणे ॥ ७.१०१.२९ ॥

如行路之人跃过那条布满山峦的可怖大河,安然抵达彼岸,那二人也在战斗中得以救出。

7.101.30

इति कृष्णौ महेष्वासौ प्रशस्तौ लोकविश्रुतौ ।
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलवारणात् ॥ ७.१०१.३० ॥

如此,那两位黑色的大弓箭手,备受赞誉、名闻三界,因为他们抵挡了德罗纳武器的威力,一切众生都认为他们伟大。

7.101.31

जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया ।
रुरुं वनान्ते लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ॥ ७.१०१.३१ ॥

二人望着近旁的胜车,心怀杀意,如同在林边渴望捕获鹿的老虎一般伫立。

7.101.32

यथा हि मुखवर्णोऽयमनयोरिति मेनिरे ।
तव योधा महाराज हतमेव जयद्रथम् ॥ ७.१०१.३२ ॥

大王啊,你的战士们看到这二人的神色,便以为胜车已经被杀了。

7.101.33

लोहिताक्षौ महाबाहू संयुक्तौ कृष्णपाण्डवौ ।
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ॥ ७.१०१.३३ ॥

红眼、臂力强大的黑天与般度之子相聚一处,望见信度王就在眼前,欢喜不已,一次又一次地高声呼喊。

7.101.34

शौरेरभीषुहस्तस्य पार्थस्य च धनुष्मतः ।
तयोरासीत्प्रभा राजन्सूर्यपावकयोरिव ॥ ७.१०१.३४ ॥

大王啊,手持缰绳的沙利(黑天)与执弓的普利塔之子(阿周那),二人的光辉如同太阳与火焰。

7.101.35

हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः ।
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ॥ ७.१०१.३५ ॥

二人脱离德罗纳的军阵,见信度王近在眼前,唯有欢喜,正如两只鹰见到肉食一般。

7.101.36

तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके ।
सहसा पेततुःक्रुद्धौ क्षिप्रं श्येनाविवामिपम् ॥ ७.१०१.३६ ॥

二人见信度王近在身旁,怒火中烧,忽然扑向他,如同两只鹰猛扑向肉食。

7.101.37

तौ दृष्ट्वा तु व्यतिक्रान्तौ हृषीकेशधनञ्जयौ ।
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ॥ ७.१०१.३७ ॥

你的勇猛之子见那二人,即黑瑟迦与持财者,已经越过,便为保护信度王而向前挺进。

7.101.38

द्रोणेनाबद्धकवचो राजा दुर्योधनस्ततः ।
ययावेकरथेनाजौ हयसंस्करावित्प्रभो ॥ ७.१०१.३८ ॥

随后,经德罗纳系好甲胄的国王难敌,独乘一辆战车奔赴战场,主啊,犹如两位驯马师。

7.101.39

कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः ।
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ॥ ७.१०१.३९ ॥

越过大弓手黑天与普利塔之子后,你的儿子便来到莲花眼者面前,人主啊。

7.101.40

ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् ।
प्रावाद्यन्त व्यतिक्रान्ते तव पुत्रे धनञ्जयम् ॥ ७.१०१.४० ॥

于是各军中鼓乐齐鸣,仿佛欢喜一般,因为你的儿子已越过持财者。

7.101.41

सिंहनादरवाश्चासञ्शङ्खशब्दविमिश्रिताः ।
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ॥ ७.१०१.४१ ॥

见难敌站在两位黑天面前,狮吼之声与海螺之音交织而起。

7.101.42

ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः ।
ते प्राहृष्यन्त समरे दृष्ट्वा पुत्रं तव प्रभो ॥ ७.१०१.४२ ॥

那些如火焰般的信度王护卫,见到你的儿子,在战场上都欢喜起来,主啊。

7.101.43

दृष्ट्वा दुर्योधनं कृष्णो व्यतिक्रान्तं सहानुगम् ।
अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ॥ ७.१०१.४३ ॥

克里希那看到难敌与随从经过,王啊,便对阿周那说了这句及时的话。