摩诃婆罗多 · 章 7.102
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.102.1
दुर्योधनमतिक्रान्तमेतं पश्य धनञ्जय ।
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥ ७.१०२.१ ॥
丹閻耶,看那已向前来的难敌。我认为他已陷入危难,因为没有任何战车武士能与他相比。
7.102.2
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः ।
दृढहस्तश्चित्रयोधी धार्तराष्ट्रो महाबलः ॥ ७.१०२.२ ॥
远射的大弓手,精通武器,好战而骄傲,手势坚定,是神奇的战士,大力的持国之子。
7.102.3
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः ।
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ॥ ७.१०२.३ ॥
在极度安逸中长大,受到大战车武士的尊敬,始终精明能干;哦,普利塔之子,他总是憎恨般度五子。
7.102.4
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ ।
अत्र नो द्यूतमायत्तं विजयायेतराय वा ॥ ७.१०२.४ ॥
无罪者啊,我认为与他决战的时机已经到了。在这里,我们的胜利或他人的胜利取决于赌局。
7.102.5
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् ।
एष मूलमनर्थानां पाण्वानां महात्मनाम् ॥ ७.१०२.५ ॥
哦,普利塔之子,在此释放你积蓄已久的愤怒之毒。此人正是诸位大德般度五子一切灾祸的根源。
7.102.6
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः ।
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥ ७.१०२.६ ॥
他已经来了;看看你挑衅的结果,看看你自己行为的成效吧。那一位渴望王国的国王,怎会因你而走上战场?
7.102.7
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम् ।
यथाऽयं जीवितं जह्यात्तथा कुरु धनञ्जय ॥ ७.१०२.७ ॥
幸运的是,他现在已进入你箭的射程之内。财主啊,你要让他舍弃生命。
7.102.8
ऐश्वर्यमदसम्मूढो नैष दुःखमुपेयिवान् ।
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥ ७.१०२.८ ॥
他被权势的醉意所迷惑,未曾经历痛苦;在战斗中,他也不知道你的勇力,人中之牛啊。
7.102.9
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानवाः ।
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥ ७.१०२.९ ॥
普利塔之子啊,三界之中的天神、阿修罗与人类,都不敢在战场上战胜你,何况只有一个苏约达纳。
7.102.10
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् ।
जह्येनं त्वं महाबाहो यथा वृत्रं पुरन्दरः ॥ ७.१०२.१० ॥
幸运的是,他已靠近你的战车,普利塔之子。大臂者啊,你就像因陀罗杀死弗栗多那样杀死他吧。
7.102.11
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ ।
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥ ७.१०२.११ ॥
无罪者啊,他一直努力想要毁掉你。他曾以诡计在赌博中欺骗了法王,即坚战。
7.102.12
बहूनि सुनृशंसानि कृतान्येतेन मानद ।
युष्मासु पापमतिना अपापेष्वपि नित्यदा ॥ ७.१०२.१२ ॥
施予尊荣者啊,这个心怀恶念的人,对你们这些无罪的人,一直做了许多极其残忍的事。
7.102.13
तमनार्यं सदा क्रुद्धं पुरुषं कामरूपिणम् ।
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥ ७.१०२.१३ ॥
在战斗中以高尚的决心,不加犹豫地击杀那个卑贱、常怀愤怒、能随意变化形貌之人,啊,普利塔之子!
7.102.14
निकृत्या राज्यहरणं वनवासं च पाण्डव ।
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ॥ ७.१०२.१४ ॥
将诡计夺取王国、林中流放以及黑公主所受的苦难铭记于心,啊,般度之子,展现你的勇猛吧!
7.102.15
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते ।
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥ ७.१०२.१५ ॥
幸运的是,他正在你箭的射程之内游走;幸运的是,他在你面前竭力阻挠这件事。
7.102.16
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह ।
दिष्ट्या च सफलाः पार्थ सर्वे कामा ह्यकामिताः ॥ ७.१०२.१६ ॥
幸运的是他知道在战斗中必须与你交锋;幸运的是,啊,普利塔之子,那些本不愿有的愿望也都结出了果实。
7.102.17
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् ।
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ॥ ७.१०२.१७ ॥
因此,啊,普利塔之子,在战场上杀死那个家族中最卑劣的持国之子,正如往昔因陀罗在诸神与阿修罗之战中杀死了遮婆。
7.102.18
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् ।
वैरस्य दिष्ट्या सहजं मूलं छिन्धि दुरात्मनाम् ॥ ७.१०२.१८ ॥
此人一旦被杀,愿这支军队因你而失去统帅、溃散;幸运的是,斩断恶人们与生俱来的敌意之根吧。
7.102.19
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम ।
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥ ७.१०२.१९ ॥
阿周那对他说:「就这样吧;这是我的职责。置其他一切于不顾,去苏尤陀那所在之处。」
7.102.20
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् ।
अप्यस्य युधि विक्रम्य च्छिन्द्यां मूर्धानमाहवे ॥ ७.१०२.२० ॥
「那个长期享有我们这片无刺王国的人,我也要在战场上以勇武斩下他的头颅。」
7.102.21
अपि तस्य ह्यनर्हायाः परिक्लेशस्य माधव ।
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥ ७.१०२.२१ ॥
「哦,摩陀婆!为了报复那位不应受此苦难者所受的折磨,我甚至能够走到那被揪住头发拖拽的地方。」
7.102.22
अप्यहं तानि दुःखानि पूर्ववृत्तानि माधव ।
दुर्योधनं रणे हत्वा प्रतिमोक्ष्ये कथञ्चन ॥ ७.१०२.२२ ॥
「哦,摩陀婆!那些往昔所遭受的痛苦,我也必定以某种方式报偿——在战场上杀死难敌。」
7.102.23
इत्येवंवादिनौ कृष्णौ हृष्टौ श्वेतान्हयोत्तमान् ।
प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ॥ ७.१०२.२३ ॥
两位黑天如此说着,欢欣地、渴望追上那位君王,驱策着雪白的良马向战场奔去。
7.102.24
तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ ।
न चकार भयं प्राप्ते भये महति मारिष ॥ ७.१०२.२४ ॥
哦,婆罗多族中的雄牛!你的儿子走近那两人时,尽管大难临头,却毫无惧色,尊者啊。
7.102.25
तदस्य क्षत्रियाः कर्म सर्व एवाभ्यपूजयन् ।
यदर्जुनहृषीकेशौ प्रत्युद्यातौ न्यवारयत् ॥ ७.१०२.२५ ॥
于是所有刹帝利赞叹他的行为:他阻止了迎面冲来的阿周那与黑氏(克里希那)。
7.102.26
ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते ।
महानादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥ ७.१०२.२६ ॥
君主啊,那时你的全军中在那里爆发出巨大的喧嚷,因为他们在战场上看见了国王。
7.102.27
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति ।
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ॥ ७.१०२.२७ ॥
当那可怕的人群喧哗爆发时,你的儿子轻视敌人,阻挡了他。
7.102.28
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना ।
संरम्भमगमद्भूयः स च तस्मिन्परन्तपः ॥ ७.१०२.२८ ॥
但是被你那善射的儿子所阻挡的昆蒂之子,对他更加愤怒了,啊,焚烧敌人者。
7.102.29
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ ।
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥ ७.१०२.२९ ॥
诸王看见那两人,难敌与财富征服者互相愤怒,个个形貌可怖,从四面八方注视着他们。
7.102.30
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष ।
प्रहसन्नेव पुत्रस्ते योद्धुकामः समाह्वयत् ॥ ७.१०२.३० ॥
啊,贵人,你的儿子看见普利塔之子与婆苏提婆之子愤怒,便笑着,想要作战,向他们挑战。
7.102.31
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः ।
व्यक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ॥ ७.१०२.३१ ॥
于是欢喜的达舍尔哈之子黑天与般度之子阿周那大声呼喊,吹响了他们的上好法螺,发出巨大的声响。
7.102.32
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयास्तु सर्वशः ।
निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥ ७.१०२.३२ ॥
看到他二人欢欣,所有俱卢人都对您儿子的性命绝望了。
7.102.33
शोकमापुः परं चैव कुरवः सर्व एव ते ।
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥ ७.१०२.३३ ॥
所有俱卢人都陷入极大的悲痛,以为您的儿子已被投入火神的口中作为祭品。
7.102.34
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ ।
हतो राजा हतो राजेत्यूचिरे च भयार्दिताः ॥ ७.१०२.३४ ॥
那些武士见黑天与般度诸子如此欢喜,被恐惧折磨,喊道:“国王被杀了!国王被杀了!”
7.102.35
जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् ।
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥ ७.१०२.३५ ॥
杜尔约达那听到人群的那阵喧嚷,说道:“愿你们不再恐惧;我要把这两位黑天送往死亡。”
7.102.36
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः ।
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ॥ ७.१०२.३६ ॥
说完这话,渴望胜利的国王先对所有士兵讲话,随后愤怒地对普利塔之子说出了这番话。
7.102.37
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं पार्थिवमेव च ।
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥ ७.१०२.३७ ॥
般度之子啊,请你立刻向我展示你所学的神圣与凡间之武器,如果你确实是般度之子。
7.102.38
यद्बलं तव वीर्यं च केशवस्य तथैव च ।
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ॥ ७.१०२.३८ ॥
你所有的力量与勇气,以及克沙瓦的力量,都请立刻施展于我;我们将看到你的雄风。
7.102.39
अस्मत्परोक्षं कर्माणि कृतानि प्रवदन्ति ते ।
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥ ७.१०२.३९ ॥
请在此展示那些在我们视线之外完成的功业,你的人们称颂的、伴随着你主上尊荣的功业。