Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.103

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.103.1

एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैः शरैः ।
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥ ७.१०३.१ ॥

说完这些,国王用三支射中要害的箭射中阿周那,又用四支速度极快的箭射中他的四匹马。

7.103.2

वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे ।
प्रतोदं चास्य भल्लेन च्छित्त्वा भूमावपातयत् ॥ ७.१०३.२ ॥

他又用十支箭射中婆苏提婆(克里希那)的胸口正中,并用一支薄刃箭射断他的鞭子,使其落到地上。

7.103.3

तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः ।
अविध्यत्तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि ॥ ७.१०३.३ ॥

般度之子(阿周那)从容不迫,立即用十四支羽毛斑斓、在磨石上打磨锋利的箭射中他,但箭从他的铠甲上滑落了。

7.103.4

तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च ।
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥ ७.१०३.४ ॥

见那些箭毫无作用,他又射出十四支利箭,这些箭也从他的铠甲上滑落了。

7.103.5

अष्टाविंशांस्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् ।
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥ ७.१०३.५ ॥

看到那二十八支箭都无效落下,击杀敌方英雄的克里希那对阿周那说了这些话。

7.103.6

अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् ।
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥ ७.१०३.६ ॥

般度之子啊,我看到了前所未见的景象,仿佛石头在滑动;你射出的这些带羽箭毫无作用。

7.103.7

कच्चिद्गाण्डीवजः प्राणस्तथैव भरतर्षभ ।
मुष्टिश्च ते यथा पूर्वं भुजयोश्च बलं तव ॥ ७.१०३.७ ॥

婆罗多族的雄牛啊,从甘提拔弓而来的力量是否依旧?你的握力与双臂的力量是否如从前一般?

7.103.8

न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः ।
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥ ७.१०३.८ ॥

今天莫非是你和这个敌人的最后时刻到了吗?我既然问,你就告诉我吧。

7.103.9

विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् ।
व्यर्थान्निपतितान्सङ्खे दुर्योधनरथं प्रति ॥ ७.१०३.९ ॥

般度之子啊,我见你的这些箭在战场上落向难敌的战车,徒然无功,心中甚感惊讶。

7.103.10

वज्राशनिसमा घोराः परकायावभेदिनः ।
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना ॥ ७.१०३.१० ॥

你的可怕之箭,如金刚杵与闪电,能穿透敌人的身体,如今却毫无作用。般度之子啊,今日竟是何等羞辱!

7.103.11

द्रोणेन नियतं कृष्ण धार्तराष्ट्रे निदर्शितम् ।
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥ ७.१०३.११ ॥

克里希纳啊,德罗纳无疑已将此传授给了持国之子。这穿戴铠甲,正是武学末了所规定的。

7.103.12

अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि ।
एको द्रोणो हि वैदैतदहं तस्माच्च सत्तमात् ॥ ७.१०३.१२ ॥

克里希纳啊,在这铠甲之中,甚至三界都隐藏其中。唯有德罗纳一人知晓,而我正是从那最优秀的师尊处学得此术。

7.103.13

न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन ।
अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥ ७.१०३.१३ ॥

瞿频陀啊,此甲即使在战斗中由因陀罗以金刚杵亲自施放,也无论如何不能以箭射穿。

7.103.14

जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् ।
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥ ७.१०३.१४ ॥

黑天啊,你明明知道一切,为何要迷惑我?羯舍婆啊,三界中已发生和正在发生的一切,你都知道。

7.103.15

यथा भविष्यद्यच्चैव तत्सर्वं विदितं तव ।
न त्विदं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥ ७.१०३.१५ ॥

未来将要发生的和现存的一切,你都知道。但摩图苏陀那啊,没有人像你这样知道这一切。

7.103.16

एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् ।
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ॥ ७.१०३.१६ ॥

黑天啊,难敌穿着德罗纳所制的这副甲胄,在战场上站立,仿佛无所畏惧。

7.103.17

यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव ।
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥ ७.१०३.१७ ॥

摩陀婆啊,他不知道这里所规定的职责。他像女人一样穿着这副合适的甲胄。

7.103.18

पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन ।
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥ ७.१०३.१८ ॥

补陀罗啊,请看我双臂的威力与弓的力量。即便被甲胄保护,我也必定战胜这位俱卢子孙。

7.103.19

इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् ।
तस्माद्वृहस्पतिः प्राप ततः प्राप पुरन्दरः ॥ ७.१०३.१९ ॥

天神之主将这件光耀的铠甲赐予安吉罗娑。布里哈斯帕提从他那里获得,随后补兰达罗(因陀罗)得到了它。

7.103.20

पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् ।
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्।
नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥ ७.१०३.२० ॥

天神之主又把这套铠甲连同其配件赐给了我。无论这件神甲属于何人,或是梵天亲自所制——它都无法保护这个邪恶之人,今日他将被我的箭射伤。

7.103.21

एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ।
मानवास्त्रेण मानार्हस्तीक्ष्णावरणभेदिना ॥ ७.१०३.२१ ॥

阿周那说完此言,以咒语加持箭矢,并以值得尊敬、能穿透锐利铠甲的人族神箭拉开了它们。

7.103.22

विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान् ।
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥ ७.१०३.२२ ॥

那些被同样的武器拉开、已到弓的中段的箭,德罗那之子以自己的武器将其斩断——他是一切神兵的摧毁者。

7.103.23

तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना ।
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥ ७.१०३.२३ ॥

白马者(阿周那)远远看见那些被斩断的箭,惊异之下向通晓梵智的克沙瓦报告。

7.103.24

नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन ।
अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम ॥ ७.१०३.२४ ॥

哦,阇那陀那,这件神兵我不能使用两次。它会毁灭我自己,也必定会毁掉我的力量。

7.103.25

ततो दुर्योधनः कृष्णौ नवभिर्नवभिः शरैः ।
अविध्यत रणे राजञ्शरैराशीविषोपमैः ॥ ७.१०३.२५ ॥

于是难敌在战场上以九九之箭射中两位黑天,大王啊,箭如毒蛇。

7.103.26

भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ।
शरवर्षेण महता ततोऽहृष्यन्त तावकाः।
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥ ७.१०३.२६ ॥

他又在战场上以大箭雨倾注于黑天与般度之子二人身上;于是你的人欢欣,他们奏响乐器之声并发出狮子般的吼声。

7.103.27

ततः क्रुद्धो रणे पार्थः सृक्विणी परिसंलिहन् ।
नापश्यच्च ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥ ७.१०३.२७ ॥

于是在战斗中愤怒的普利塔之子,舔着嘴角,看不到他身上有哪一处不被铠甲所护。

7.103.28

ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः ।
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥ ७.१०३.२८ ॥

于是他以锋利、精准射出的、如死神般的箭,使他的马匹以及两名后方御者一并毙命。

7.103.29

धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान् ।
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥ ७.१०३.२९ ॥

勇猛的萨维亚萨钦迅速斩断了他的弓和手柄,并开始把他的战车击碎成片。

7.103.30

दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् ।
आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥ ७.१०३.३० ॥

于是阿周那以两支锐利的箭射穿了失去战车的难敌的双掌。

7.103.31

प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः ।
स वेदनाभिराविग्नः पलायनपरायणः ॥ ७.१०३.३१ ॥

因精于此道的甘提之子(阿周那)以箭刺入指甲与肉之间;杜尔约达那为剧痛所苦,专心逃走。

7.103.32

तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः ।
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥ ७.१०३.३२ ॥

见他陷入严重危难,最优秀的射手们聚集起来,想要保护他——他正被财胜(阿周那)的箭所折磨。

7.103.33

तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः ।
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥ ७.१०३.३३ ॥

他们以数千辆战车、整装的象与马,以及愤怒的步兵群,将财胜团团围住。

7.103.34

अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत ।
अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ ॥ ७.१०३.३४ ॥

此时既见不到阿周那,也见不到戈文达(黑天),也看不到战车——他们被大量的兵器雨与箭群所笼罩。

7.103.35

ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् ।
तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः ॥ ७.१०३.३५ ॥

于是阿周那以武器之力击溃了那支军队;那里数以百计的战车与象被击伤残废,纷纷倒下。

7.103.36

ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् ।
स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः ॥ ७.१०३.३६ ॥

他们被杀,在被击中的同时仍拦住了那辆上好的战车;那战车四周一克罗沙(约两英里)之内都停滞不前。

7.103.37

ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् ।
धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥ ७.१०३.३७ ॥

于是毗湿尼族的英雄急忙对阿周那说:“你尽力拉满你的弓,我要吹响我的法螺。”

7.103.38

ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् ।
महता शरवर्षेण तलशब्देन चार्जुनः ॥ ७.१०३.३८ ॥

于是阿周那用力拉开甘狄拔神弓,以密集的箭雨和弓弦的拍击声击杀了敌人。

7.103.39

पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः ।
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥ ७.१०३.३९ ॥

强大的羯舍婆吹响了般遮遮尼耶法螺,声音高亢;他的睫毛边缘蒙满尘土,面容被汗水浸透。

7.103.40

तेनाच्युतोष्ठपुटपूरितमारुतेन ।
शङ्खान्तरोदरविवृद्धविनिःसृतेन।
नादेन सासुरवियत्सुरलोकपाल… ।
मुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम् ॥ ७.१०३.४० ॥

那声音充满了阿醋多的唇间之气,从法螺内部膨胀而出——连同阿修罗、天空、诸神与世界守护者……;主啊,整个世界仿佛因震动而将要裂开。

7.103.41

तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च ।
निःसत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः ॥ ७.१०३.४१ ॥

在那法螺的声音和弓弦的响声中,当时无论弱者还是强者,众人都倒在了地上。

7.103.42

तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः ।
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥ ७.१०३.४२ ॥

车子摆脱了那些声响,闪耀如被风吹动的云;随后,胜车的护卫与其随从都陷入骚动。

7.103.43

ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु ।
चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम् ॥ ७.१०३.४३ ॥

诸护卫者忽见般度之子,信度王的护卫大弓手们发出吼声,震撼大地。

7.103.44

बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिःस्वनैः ।
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥ ७.१०३.४४ ॥

诸大丈夫发出猛烈的箭声,与螺号声混杂,也发出狮子吼。

7.103.45

तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् ।
प्रदध्मतुः शङ्खवरौ वासुदेवधनञ्जयौ ॥ ७.१०३.४५ ॥

闻听你方升起的那可怕喧嚣,婆苏天神与财主便吹响他们殊胜的螺号。

7.103.46

तेन शब्देन महता पूरितेयं वसुन्धरा ।
सशैला सार्णवद्वीपा सपाताला विशाम्पते ॥ ७.१०३.४६ ॥

人主啊,那巨大的声音充满了这片大地,连同山岳、海洋、岛屿与地下世界。

7.103.47

स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश ।
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥ ७.१०३.४७ ॥

婆罗多之最啊,那声音充满十方,就在那里在俱卢与般度的军中回荡。

7.103.48

तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ ।
सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः ॥ ७.१०३.४८ ॥

你方的车战士们见到克利须那与财主,极度惊慌,那些大车战士急忙冲上前来。

7.103.49

अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ ।
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ॥ ७.१०३.४९ ॥

此时,你的战士们见两位大福的克里希那已披甲,怒不可遏地冲向他们,那情景仿佛奇迹一般。