摩诃婆罗多 · 章 7.104
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.104.1
तावकास्त्वभिसम्प्रेक्ष्य वृष्ण्यन्धकरूद्वहौ ।
सत्वरास्तौ जिघांसन्तस्तथैव विजयः परान् ॥ ७.१०४.१ ॥
你的战士们看见那两位邦人与安陀迦族的领袖,以及胜军(阿周那),便渴望杀敌,急速地冲向他们。
7.104.2
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः ।
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ॥ ७.१०४.२ ॥
那些饰有金色图案、披着虎皮、发出轰鸣的大车勇士,照亮了所有方向,仿佛燃烧的火焰。
7.104.3
रुक्मपुङ्खैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते ।
कूजद्भिरतुलान्नादन्रोषितैरुरगैरिव ॥ ७.१०४.३ ॥
啊,大地之主!他们手持金尖的箭和令人望而生畏的弓,发出无与伦比的嗡鸣,如同愤怒的毒蛇,光彩夺目。
7.104.4
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः ।
कृपश्च मद्रराजश्च द्रोणिश्च रथिनां वरः ॥ ७.१०४.४ ॥
布利斯罗婆、沙罗、迦尔纳、毗舍犀那、胜车、克里帕、摩德罗国王,以及德罗纳之子——乃车将中的最优者。
7.104.5
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः ।
व्यराजयन्दश दिशो वैयार्घ्रैर्हेमचन्द्रकैः ॥ ७.१०४.५ ॥
那八位大车勇士驾着战马,仿佛要吞饮天空一般,以虎皮和金制新月饰物照亮了十方。
7.104.6
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिःस्वनैः ।
समावृण्वन्दश दिशः पार्थस्य निशितैः शरैः ॥ ७.१०४.६ ॥
他们披甲,怒不可遏,乘坐发出如乌云雷鸣般轰响的战车,以锐利的箭矢遮蔽了十方,射向般度之子。
7.104.7
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् ।
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥ ७.१०४.७ ॥
库卢多国的花色骏马,疾驰着载着那些大车武士,那时闪耀,照亮十方。
7.104.8
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः ।
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥ ७.१०४.८ ॥
以来自各地、极为迅捷的良种骏马——山地的、河畔的和信度最好的马。
7.104.9
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः ।
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥ ७.१०४.९ ॥
君王啊,库鲁的勇士们想保护你的儿子,迅速从四面八方冲向阿周那的战车。
7.104.10
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः ।
पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥ ७.१०४.१० ॥
那些人中豪杰拿起大螺号吹响,君王啊,声音充满天空与大地及其海洋。
7.104.11
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ।
प्रवरौ सर्वदेवानां सर्वशङ्खवरौ भुवि ॥ ७.१०४.११ ॥
同样,婆苏提婆与达南遮耶吹响了他们的螺号,这是诸神螺号中最上、大地上所有螺号中最好的。
7.104.12
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ।
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः ॥ ७.१०४.१२ ॥
昆提之子吹响提婆达多,羯舍婆吹响般遮耶;提婆达多的声音是达南遮耶发出的。
7.104.13
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ।
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः ॥ ७.१०४.१३ ॥
它充满了大地、天空与四方;同样,由婆薮提婆(黑天)吹响的般遮若尼亚螺号也是如此。
7.104.14
सर्वशब्दानतिक्रम्य पूरयामास रोदसी ।
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले ॥ ७.१०४.१४ ॥
它超越了一切其他声音,充满了天地;那可怕的、充满喧嚣的轰鸣持续着。
7.104.15
भीरूणां त्रासजनने शूराणां हर्षवर्धने ।
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च ॥ ७.१०४.१५ ॥
当大鼓(婢丽)、铃鼓(查尔查拉)和阿那卡鼓响起时,使怯懦者恐惧,使勇士欢喜增长。
7.104.16
मृदङ्गेष्वपि राजेन्द्र वाद्यमानेष्वेनकशः ।
महारथसमाख्याता दुर्योधनहितैषिणः ॥ ७.१०४.१६ ॥
啊,王中之王!当鼓(穆丹伽)也一面接一面地敲响时,那些名声显赫、希望杜尔约达那吉祥的大车勇士们。
7.104.17
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ।
कर्णादयो महेष्वासास्त्वत्सैन्यपरिरक्षिणः ॥ ७.१०४.१७ ॥
不能忍受那声音,愤怒的最强弓手,迦尔纳等大弓箭手,他们守护着你的军队。
7.104.18
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः ।
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ॥ ७.१०४.१८ ॥
愤怒的英雄大车勇士们吹响了大螺号,准备回应克舍婆与阿周那所做之事。
7.104.19
बभूव तव तत्सैन्यं शङ्खशब्दे समीरिते ।
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभों ॥ ७.१०४.१९ ॥
螺号吹响时,你的军队连同战车、象、马和士兵都陷入骚动,仿佛被压倒一般。
7.104.20
तत्प्रहृष्टजनाबाधं भेरीशङ्खनिनादितम् ।
बभूव भृशमुद्विग्नं निर्घातैरिव संवृतम् ॥ ७.१०४.२० ॥
那支军队充满欢呼之人的喧嚣,回荡着鼓声与螺声,极度骚动,仿佛被霹雳所包围。
7.104.21
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् ।
त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ॥ ७.१०४.२१ ॥
大王,那巨大的声音回荡于所有方向,使那支军队惊恐,仿佛劫末降临。
7.104.22
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः ।
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥ ७.१०४.२२ ॥
于是难敌与你的八位大战车武士王围住般度之子,以保护胜车。
7.104.23
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् ।
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥ ७.१०४.२३ ॥
于是德罗纳之子以七十三支箭射中婆苏提婆,以三支钩箭射中阿周那,以五支箭射中旗帜与马匹。
7.104.24
तमर्जुनः पृषत्कानां शतैः षङ्भिरताडयत् ।
अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ॥ ७.१०४.२४ ॥
当毗湿奴被射中时,阿周那极其愤怒,以六百支箭射击他。
7.104.25
कर्णं च दशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा ।
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ॥ ७.१०४.२५ ॥
勇武者以十箭射中迦尔纳,以三箭射中跋利舍塞那,并在握柄处截断了沙利耶的弓及其箭。
7.104.26
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् ।
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥ ७.१०४.२६ ॥
沙利耶取另一张弓射中般度之子;婆利输罗婆斯则以三支金羽、磨石淬砺的箭射他。
7.104.27
कर्णो द्वात्रिंशता चैव वृषसेनश्च सप्तभिः ।
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः।
मद्राजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥ ७.१०४.२७ ॥
迦尔纳以三十二箭射中福尔古那,婆利舍塞那以七箭,贤车以七十三箭,克里帕以十箭,摩德罗国王以十箭,在战场上射中了他。
7.104.28
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् ।
वासुदेवं च विंशत्या पुनः पार्थं च पञ्चभिः ॥ ७.१०४.२८ ॥
接着德罗纳之子以六十箭覆盖了贝尔塔,以二十箭覆盖了婆薮提婆,又以五箭再次覆盖了贝尔塔。
7.104.29
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः ।
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥ ७.१०४.२९ ॥
这位人中虎,白马为骑,以克里希纳为御者,笑着反击,尽显手上的敏捷,将他们全部射中。
7.104.30
कर्णं द्वादशभिर्विद्व्वा वृषसेनं त्रिभिः शरैः ।
शल्यस्य सशरं चापं मुष्टिदेशे व्यकृन्तत ॥ ७.१०४.३० ॥
以十二箭射中迦尔纳,以三箭射中婆利舍塞那,并在握柄处截断了沙利耶的弓及其箭。
7.104.31
सौमदत्तिं त्रिभिर्विद्व्वा शल्यं च दशभिः शरैः ।
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥ ७.१०४.३१ ॥
他以三支箭射中索摩达塔之子,以十支箭射中沙利耶,并以八支如火焰般锐利的箭射中德罗纳之子。
7.104.32
गौतमं पञ्चविंशत्या सैन्धवं च शतेन ह ।
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥ ७.१०४.३२ ॥
他以二十五支箭射中乔达摩,以一百支箭射中信度王,又以七十支箭射中德罗纳之子。
7.104.33
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः ।
अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥ ७.१०४.३३ ॥
然而,布利什拉瓦斯大怒,斩断了哈里的鞭子,并以二十一支箭射中阿周那。
7.104.34
ततः शरशतैस्तीक्ष्णैस्तानरीन्श्वेतवाहनः ।
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥ ७.१०४.३४ ॥
于是白马之主(阿周那)大怒,以数百支锐利的箭迅速击退那些敌人,如同大风吹散云团。