摩诃婆罗多 · 章 7.105
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.105.1
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया ।
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ॥ ७.१०५.१ ॥
桑闍耶啊,请为我描述般度之子与我方那些形状多样、光辉耀眼的旗帜。
7.105.2
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् ।
रूपतो वर्णतश्चैव नामतश्च निबोध मे ॥ ७.१०५.२ ॥
请听那些大德者的旗帜,形状多样;请从我这里依形、依色、依名而知。
7.105.3
तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः ।
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ॥ ७.१०५.३ ॥
在那些上等车战者的战车上,出现了各式旗帜,王中之王啊,宛如燃烧的火焰。
7.105.4
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः ।
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ॥ ७.१०५.४ ॥
金制的,饰有金饰,以金花环装点,如同金色大山的峰峦。
7.105.5
अनेकवर्णा विविधा ध्वजाः परमशोभनाः ।
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः।
नानावर्णविराणाभिः शुशुभुः सर्वतो वृताः ॥ ७.१०५.५ ॥
那些旗帜色彩繁多、形式各异、极其华美,四周环绕着各色的旌旗,四面八方熠熠生辉。
7.105.6
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः ।
नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः ॥ ७.१०५.६ ॥
此时,那些旌旗被风吹动,在战场中央翩翩起舞,宛如嬉戏的舞女。
7.105.7
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ ।
दोधूयमाना रथिनां शोभयन्ति महारथान् ॥ ७.१०५.७ ॥
婆罗多的雄牛啊,如因陀罗弓颜色的旗帜随风飘扬,装点着车战中的大勇士。
7.105.8
सिंहलाङ्गूल उग्रास्यो ध्वजो वानरलक्षणः ।
धनञ्जयस्य सङ्ग्रामे प्रत्यदृश्यत भारत ॥ ७.१०५.८ ॥
婆罗多啊,战场上出现了持明(阿周那)的旗帜,有狮尾、凶猛的面孔,并有猴子的标志。
7.105.9
स वानरध्वजो राजन्पताकाभिरलङ्कृतः ।
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ॥ ७.१०५.९ ॥
国王啊,那面饰有旗帜的猴子旗,即持甘狄拔弓者的旗帜,使那支军队惊恐。
7.105.10
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत ।
ध्वजाघ्रं समपश्याम बालसूर्यसमप्रभम् ॥ ७.१०५.१० ॥
婆罗多啊,同样,我们看见德罗纳之子的狮尾旗的旗顶,光彩如初升的太阳。
7.105.11
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् ।
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम् ॥ ७.१०५.११ ॥
金色的,被风吹动的,如因陀罗旗般光彩,是俱卢诸王的喜悦,德罗纳之子的标志高高升起。
7.105.12
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजः ।
आहवे खं महाराज ददृशे पूरयन्निव ॥ ७.१०५.१२ ॥
大王啊,阿地罗陀之子的金色象带旗再次出现在战场上,仿佛充满了天空。
7.105.13
पताकी काञ्चनः स्रग्वी ध्वजः कर्णस्य संयुगे ।
नृत्यतीव रथोपस्थे श्वसनेन समीरितः ॥ ७.१०५.१३ ॥
迦尔纳的金色旗幡,饰有小旗与花环,被风吹动,在战斗中仿佛在战车座上起舞。
7.105.14
आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः ।
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ॥ ७.१०५.१४ ॥
有般度子弟之师、苦行婆罗门德罗纳的旗帜,以及乔达摩氏克利巴装饰精美的牛旗。
7.105.15
स तेन भ्राजते राजन्गोवृषेण महारथः ।
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता ॥ ७.१०५.१५ ॥
大王啊,那位大战车武士因那牛旗而光彩照人,正如毁灭三城者的战车因闪耀的神牛而辉煌。
7.105.16
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् ।
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमुपशोभयन् ॥ ७.१०५.१६ ॥
伐鲁舍娜那镶嵌宝石的金色孔雀旗,仿佛将要开口说话,矗立装点着军队的前锋。
7.105.17
तेन तस्य रथो भाति मयूरेण महात्मनः ।
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ॥ ७.१०५.१७ ॥
诸王之王啊,他的战车因那孔雀而光彩照人,正如塞建陀的战车因闪耀的孔雀而辉煌。
7.105.18
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव ।
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ॥ ७.१०५.१८ ॥
在摩德罗王沙利耶的旗杆顶端,我们看见一个金色的犁形标志,如火焰一般,无与伦比,美丽非凡。
7.105.19
सा सीता भ्राजते तस्य रथमास्थाय मारिष ।
सर्वबीजविरूढेव यथा सीता श्रिया वृता ॥ ७.१०५.१९ ॥
尊者啊,她立于他的战车之上闪耀,如同金色的悉多(犁沟之相),由一切种子生长而出,被光辉环绕。
7.105.20
वराहः सिन्धुराजस्य राजतोऽभिविराजते ।
ध्वजाग्रे लोहिताङ्गाभो हेमजालपरिष्कृतः ॥ ७.१०५.२० ॥
信度王的银色野猪在旗帜顶端闪耀,带着红色肢体的光彩,饰以金网。
7.105.21
शुशुभे केतुना तेन राजतेन जयद्रथः ।
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ॥ ७.१०५.२१ ॥
以那银旗,胜车罗(Jayadratha)熠熠生辉,如往昔天神与阿修罗之战中的补善(Pūṣan)闪耀。
7.105.22
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः ।
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ॥ ७.१०५.२२ ॥
苏摩达多之子(婆利修罗婆斯)的祭柱旗,那位崇尚祭祀的智者的旗帜,如太阳般闪耀;这里还能看到月亮。
7.105.23
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते ।
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ॥ ७.१०५.२३ ॥
大王啊,苏摩达多之子那根金色的祭柱闪耀,如同在最殊胜的祭祀拉贾苏耶(Rājasūya)中高高竖起的祭柱。
7.105.24
शलस्य तु महाराज राजतो द्विरदो महान् ।
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ॥ ७.१०५.२४ ॥
大王啊,沙利耶的大银象旗,饰以身体绘有金色斑纹的孔雀。
7.105.25
स केतुः शोभयामास सैन्यं ते भरतर्षभ ।
यथा श्वेतो महानागो देवराजचमूं तथा ॥ ७.१०५.२५ ॥
那面旗帜装饰着你的军队,婆罗多的雄牛啊,正如白色大象装饰天王的军队。
7.105.26
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः ।
किङ्किणीशतसंहादो भ्राजंश्चित्रो रथोत्तमे ॥ ७.१०५.२६ ॥
国王的旗帜是一条以宝石制成、覆以黄金的蛇,在最好的战车上闪耀,伴着上百个铃铛的叮当声。
7.105.27
व्यभ्राजत भृशं राजन्पुत्रस्तव विशाम्पते ।
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ॥ ७.१०५.२७ ॥
那时,国王啊,人民之主,库鲁的雄牛,你的儿子在战斗中因那面大旗而大放光彩。
7.105.28
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः ।
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः ॥ ७.१०५.२८ ॥
你军中高高升起的这九面至高之旗,照亮了军队,如同劫末的太阳。
7.105.29
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः ।
अदीप्यतार्जुनो येन हिमवानिव शम्भुना ॥ ७.१०५.२९ ॥
而阿周那的第十面旗帜只是一只大猴子,因它阿周那光芒四射,如同被湿婆照亮的喜马拉雅山。
7.105.30
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः ।
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ॥ ७.१०५.३० ॥
于是,那些大车战士,令敌人煎熬的人,为阿周那迅速拿起了明亮、洁白、极大的弓。
7.105.31
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः ।
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ॥ ७.१०५.३१ ॥
同样,歼灭敌人的帕尔塔拉开了弓;大王啊,因你的恶谋,他拉开了具有神圣功业的甘狄拔弓。
7.105.32
तवापराधाद्राजानो निहता बहुशो युधि ।
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ॥ ७.१०५.३२ ॥
因你的过失,许多国王在战场上被杀。他们从各方被召集而来,带着马匹、战车和象群。
7.105.33
तेषामासीद्व्यातिक्षेपो गजर्तामितरेतरम् ।
दुर्योधनमुखानां च पाण्डूनामृषभस्य च ॥ ७.१०५.३३ ॥
他们之间发生了相互冲击:象群与车战者彼此攻击,既有以难敌为首的一方,也有般度之子中的雄牛。
7.105.34
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः ।
यदेको बहुभिः सार्घं समागच्छदभीतवत् ॥ ७.१०५.३४ ॥
在那里,以克里希那为御者的贡蒂之子完成了极其奇妙的功业:他独自一人,无所畏惧地与众多敌人交锋。
7.105.35
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः ।
जिगीषुस्तान्नरव्याघ्रो जिघांसुश्च जयद्रथम् ॥ ७.१०५.३५ ॥
大臂的人中猛虎挥舞甘狄拔弓而光彩夺目——既想征服他们,又想杀死胜车。
7.105.36
तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः ।
अदृश्यांस्तावकान्योधान्प्रचक्रे शत्रुतापनः ॥ ७.१०५.३६ ॥
在那里,人中猛虎、敌人的折磨者阿周那放出成千上万支箭,使你的战士们从视野中消失。
7.105.37
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः ।
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ॥ ७.१०५.३७ ॥
于是那些人中猛虎般的大战车武士们也在战场上以万箭齐发,从四面八方使般度之子(阿周那)不可见。
7.105.38
संवृते नरसिंहैस्तु कूरूणामृषभेऽर्जुने ।
महानासीत्समुद्भूतस्तस्य सैन्यस्य निःस्वनः ॥ ७.१०५.३८ ॥
当库鲁族的雄牛阿周那被人中雄狮们围困时,那支军队中便爆发出巨大的喧嚣。